|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
पञ्चविंशोऽध्यायः
जलन्धरवधोपाख्याने देवस्तुतिवर्णनम्
सनत्कुमार उवाच
अथ ब्रह्मादयो देवा मुनयश्चाखिलास्तथा । तुष्टुवुर्देवदेवेशं वाग्भिरिष्टाभिरानताः ॥ १ ॥ देवा ऊचुः देवदेव महादेव शरणागतवत्सल । साधुसौख्यप्रदस्त्वं हि सर्वदा भक्तदुःखहा ॥ २ ॥ त्वं महाद्भुतसल्लीलो भक्तिगम्यो दुरासदः । दुराराध्योऽसतां नाथ प्रसन्नःसर्वदा भव ॥ ३ ॥ वेदोऽपि महिमानं ते न जानाति हि तत्त्वतः । यथामति महात्मानःसर्वे गायन्ति सद्यशः ॥ ४ ॥ माहात्म्यमतिगूढं ते सहस्रवदनादयः । सदा गायन्ति सुप्रीत्या पुनन्ति स्वगिरं हि ते ॥ ५ ॥ कृपया तव देवेश ब्रह्मज्ञानी भवेज्जडः । भक्तिगम्यः सदा त्वं वा इति वेदा ब्रुवन्ति हि ॥ ६ ॥ त्वं वै दीनदयालुश्च सर्वत्र व्यापकःसदा । आविर्भवसि सद्भक्त्या निर्विकारःसतां गतिः ॥ ७ ॥ भक्त्यैव ते महेशान बहवः सिद्धिमागताः । इह सर्वसुखं भुक्त्वा दुःखिता निर्विकारतः ॥ ८ । पुरा यदुपतिर्भक्तो दाशार्हः सिद्धिमागतः । कलावती च तत्पत्नी भक्त्यैव परमां प्रभो ॥ ९ ॥ तथा मित्रसहो राजा मदयन्ती च तत्प्रिया । भक्त्यैव तव देवेश कैवल्यं परमं ययौ ॥ १० ॥ सौमिनी नाम तनया कैकेयाग्रभुवस्तथा । तव भक्त्या सुखं प्राप परं सद्योगिदुर्लभम् ॥ ११ ॥ विमर्षणो नृपवरः सप्तजन्मावधि प्रभो । भुक्त्वा भोगांश्च विविधांस्त्वद्भक्त्या प्राप सद्गतिम् ॥ १२ ॥ चन्द्रसेनो नृपवरः त्वद्भक्त्या सर्वभोगभुक् । दुःखमुक्तः सुखं प्राप परमत्र परत्र च ॥ १३ ॥ गोपीपुत्रः श्रीकरस्ते भक्त्या भुक्त्वेह सद्गतिम् । परं सुखं महावीरशिष्यः प्राप परत्र वै । १४ ॥ त्वं सत्यरथभूजानेर्दुःखहर्ता गतिप्रदः । धर्मगुप्तं राजपुत्रमतार्षीःसुखिनं त्विह ॥ १५ ॥ तथा शुचिव्रतं विप्रमदरिद्रं महाप्रभो । त्वद्भक्तिवर्तिनं मात्रा ज्ञानिनं कृपयाऽकरोः ॥ १६ ॥ चित्रवर्मा नृपवरस्त्वद्भक्त्या प्राप सद्गतिम् । इह लोके सदा भुक्त्वा भोगानमरदुर्लभान् ॥ १७ ॥ चन्द्राङ्गदो राजपुत्रः सीमन्तिन्या स्त्रिया सह । विहाय सकलं दुःखं सुखी प्राप महागतिम् ॥ १८ ॥ द्विजो मन्दरनामापि वेश्यागामी खलोऽधमः । त्वद्भक्तः शिव सम्पूज्य तया सह गतिं गतः ॥ १९ ॥
भद्रायुस्ते नृपसुतः सुखमाप गतव्यथः । त्वद्भक्तकृपया मात्रा गतिं च परमां प्रभो ॥ २० ॥ सर्वस्त्रीभोगनिरतो दुर्जनस्तव सेवया । विमुक्तोऽभूदपि सदाऽभक्ष्यभोजी महेश्वर ॥ २१ ॥ शम्बरः शंकरे भक्तश्चिताभस्मधरःसदा । नियमाद्भस्मनः शम्भो स्वस्त्रिया ते पुरं गतः ॥ २२ ॥ भद्रसेनस्य तनयस्तथा मन्त्रिसुतः प्रभो । सुधर्मशुभकर्माणौ सदा रुद्राक्षधारिणौ ॥ २३ ॥ त्वत्कृपातश्च तौ मुक्तावास्तां भुक्तेह सत्सुखम् । पूर्वजन्मनि यौ कीशकुक्कुटौ रुद्रभूषणौ ॥ २४ ॥ पिङ्गला च महानन्दा वेश्ये द्वे तव भक्तितः । सद्गतिं प्रापतुर्नाथ भक्तोद्धारपरायण ॥ २५ ॥ शारदा विप्रतनया बालवैधव्यमागता । तव भक्तेः प्रभावात्तु पुत्रसौभाग्यवत्यभूत् ॥ २६ ॥ बिन्दुगो द्विजमात्रो हि वेश्याभोगी च तत्प्रिया । वञ्चुका त्वद्यशः श्रुत्वा परमां गतिमाययौ ॥ २७ ॥ इत्यादि बहवः सिद्धिं गता जीवास्तव प्रभो । भक्तिभावान्महेशान दीनबन्धो कृपालय ॥ २८ ॥ त्वं परः प्रकृतेर्ब्रह्म पुरुषात्परमेश्वर । निर्गुणस्त्रिगुणाधारो ब्रह्मविष्णुहरात्मकः ॥ २९ ॥ नानाकर्मकरो नित्यं निर्विकारोऽखिलेश्वरः । वयं ब्रह्मादयः सर्वे तव दासा महेश्वर ॥ ३० ॥ प्रसन्नो भव देवेश रक्षास्मान्सर्वदा शिव । त्वत्प्रजाश्च वयं नाथ सदा त्वच्छरणं गताः ॥ ३१ ॥ सनत्कुमार उवाच इति स्तुत्वा च ते देवा ब्रह्माद्याः समुनीश्वराः । तूष्णीं बभूवुर्हि तदा शिवाङ्घ्रिद्वन्द्वचेतसः ॥ ३२ ॥ अथ शम्भुर्महेशानः श्रुत्वा देवस्तुतिं शुभाम् । दत्त्वा वरान् वरान् सद्यः तत्रैवान्तर्दधे प्रभुः ॥ ३३ ॥ देवाःसर्वेऽपि मुदिता ब्रह्माद्या हतशत्रवः । स्वं स्वं धाम ययुः प्रीता गायन्तः शिवसद्यशः ॥ ३४ ॥ इदं परममाख्यानं जलन्धरविमर्दनम् । महेशचरितं पुण्यं महाघौघविनाशनम् ॥ ३५ ॥ देवस्तुतिरियं पुण्या सर्वपापप्रणाशिनी । सर्वसौख्यप्रदा नित्यं महेशानन्ददायिनी ॥ ३६ ॥ यः पठेत्पाठयेद्वापि समाख्यानमिदं द्वयम् । स भुक्त्वेह परं सौख्यं गाणपत्यमवाप्नुयात् ॥ ३७ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने देवस्तुतिवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥ श्रीगौरीशंकरार्पणमस्तु |