॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

चतुर्विंशोऽध्यायः


जलन्धरवर्णनम्


व्यास उवाच
विधेः श्रेष्ठसुत प्राज्ञः कथेयं श्राविताद्‌भुता ।
ततश्च किमभूदाजौ कथं दैत्यो हतो वद ॥ १ ॥
सनत्कुमार उवाच
अदृश्य गिरिजां तत्र दैत्येन्द्रे रणमागते ।
गान्धर्वे च विलीने हि चैतन्योऽभूद्वृषध्वजः ॥ २ ॥
अन्तर्धानगतां मायां दृष्ट्‍वा बुद्धो हि शंकरः ।
चुक्रोधातीव संहारी लौकिकीं गतिमाश्रितः ॥ ३ ॥
ततः शिवो विस्मितमानसः पुन-
     र्जगाम युद्धाय जलन्धरं रुषा ।
स चापि दैत्यः पुनरागतं शिवं
     दृष्ट्‍वा शरोघैःसमवाकिरद्‍रणे ॥ ४ ॥
क्षिप्तं प्रभुस्तं शरजालमुग्रं
     जलन्धरेणातिबलीयसा हरः ।
द्रुतं प्रचिच्छेद शरैर्वरैर्निजै-
     र्नचित्रमत्र त्रिभवप्रहन्तुः ॥ ५ ॥
ततो जलन्धरो दृष्ट्‍वा रुद्रमद्‌भुतविक्रमम् ।
चकार मायया गौरीं त्र्यम्बकं मोहयन्निव ॥ ६ ॥
रथोपरि गतां बद्धां रुदन्तीं पार्वतीं शिवः ।
निशुम्भ शुम्भदैत्यैश्च बध्यमानां ददर्श सः ॥ ७ ॥
गौरीं तथाविधां दृष्ट्‍वा लौकिकीं दर्शयन् गतिम् ।
बभूव प्राकृत इव शिवोप्युद्विग्नमानसः ॥ ८ ॥
अवाङ्मुखस्थितस्तूष्णीं नानालीलाविशारदः ।
शिथिलाङ्‌गो विषण्णात्मा विस्मृत्य स्वपराक्रमम् ॥ ९ ॥
ततो जलन्धरो वेगात्त्रिभिर्विव्याध सायकैः ।
आपुङ्‌खमग्नैस्तं रुद्रं शिरस्युरसि चोदरे ॥ १० ॥
ततो रुद्रो महालीलो ज्ञाततत्त्वः क्षणात्प्रभुः ।
रौद्ररूपधरो जातो ज्वालामालातिभीषणः ॥ ११ ॥
तस्यातीव महारौद्ररूपं दृष्ट्‍वा महासुराः ।
न शेकुः प्रमुखे स्थातुं भेजिरे ते दिशो दश ॥ १२ ॥
निशुम्भशुम्भावपि यौ विख्यातौ वीरसत्तमौ ।
आपे तौ शेकतुर्नैव रणे स्थातुं मुनीश्वर ॥ १३ ॥
जलन्धरकृता मायान्तर्हिताभूच्च तत्क्षणम् ।
हाहाकारो महानासीत्सङ्‌ग्रामे सर्वतोमुखे ॥ १४ ॥
ततः शापं ददौ रुद्रस्तयोः शुम्भनिशुम्भयोः ।
पलायमानौ तौ दृष्ट्‍वा धिक्‌कृत्य क्रोधसंयुतः ॥ १५ ॥
रुद्र उवाच
युवां दुष्टावतिखलावपराधकरौ मम ।
पार्वतीदण्डदातारौ रणादस्मात्पराङ्मुखौ ॥ १६ ॥
पराङ्मुखो न हन्तव्य इति वध्यौ न मे युवाम् ।
मम युद्धादतिक्रान्तौ गौर्य्या वध्यौ भविष्यतः ॥ १७ ॥
एवं वदति गौरीशे सिन्धुपुत्रो जलन्धरः ।
चुक्रोधातीव रुद्राय ज्वलज्ज्वलनसन्निभः ॥ १८ ॥
रुद्रे रणे महावेगाद्ववर्ष निशिताञ्छरान् ।
बाणान्धकारसञ्छन्नं तथा भूमितलं ह्यभूत् ॥ १९ ॥
यावद्‌रुद्रः प्रचिच्छेद तस्य बाणगणान् द्रुतम् ।
तावत्सपरिघेणाशु जघान वृषभं बली ॥ २० ॥
वृषस्तेन प्रहारेण परवृत्तो रणाङ्‌गणात् ।
रुद्रेण कृश्यमाणोऽपि न तस्थौ रणभूमिषु ॥ २१ ॥
अथ लोके महारुद्रः स्वीयं तेजोऽतिदुःसहम् ।
दर्शयामास सर्वस्मै सत्यमेतन्मुनीश्वर ॥ २२ ॥
ततः परमसङ्‌क्रुद्धो रुद्रो रौद्रवपुर्धरः ।
प्रलयानलवद् घोरो बभूव सहसा प्रभुः ॥ २३ ॥
दृष्ट्‍वा पुरः स्थितं दैत्यं मेघकूटमिव स्थितम् ।
अवध्यत्वमपि श्रुत्वाप्यन्यैरभ्युद्यतोऽभवत् ॥ २४ ॥
ब्रह्मणो वचनं रक्षन्रक्षको जगतां प्रभुः ।
हृदानुग्रहमातन्वंस्तद्वधाय मनो दधत् ॥ २५ ॥
कोपं कृत्वा परं शूली पादाङ्‌गुष्ठेन लीलया ।
महाम्भसि चकाराशु रथाङ्‌गं रौद्रमद्‌भुतम् ॥ २६ ॥
कृत्वार्णवाम्भसि शितं भगवान्रथाङ्‌गं
     स्मृत्वा जगत्त्रयमनेन हतं पुरारिः ।
दक्षान्धकान्तकपुरत्रययज्ञहन्ता
     लोकत्रयान्तककरः प्रहसन्नुवाच २७ ॥
महारुद्र उवाच
पादेन निर्मितं चक्रं जलन्धर महाम्भसि ।
बलवान्यदि चोद्धर्त्तुं तिष्ठ योद्धुं न चान्यथा ॥ २८ ॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा क्रोधेनादीप्तलोचनः ।
प्रदहन्निव चक्षुर्भ्यां प्राहालोक्य स शंकरम् ॥ २९ ॥
जलन्धर उवाच
रेखामुद्धृत्य हत्वा च सगणं त्वां हि शंकर ।
हत्वा लोकान्सुरैः सार्द्धं स्वभागं गरुडो यथा ॥ ३० ॥
हन्तुं चराचरं सर्वं समर्थोऽहं सवासवम् ।
को महेश्वर मद्‌बाणैरभेद्यो भुवनत्रये ॥ ३१ ॥
बालभावेन भगवान्तपसैव विनिर्जितः ।
ब्रह्मा बलिष्ठः स्थाने मे मुनिभिः सुरपुङ्‌गवैः ॥ ३२ ॥
दग्धं क्षणेन सकलं त्रैलोक्यं सचराचरम् ।
तपसा किं त्वया रुद्र निर्जितो भगवानपि ॥ ३३ ॥
इन्द्राग्नियमवित्तेशवायुवारीश्वरादयः ।
न सेहिरे यथा नागा गन्धं पक्षिपतेरिव ॥ ३४ ॥
न लब्धं दिवि भूमौ च वाहनं मम शंकर ।
समस्तान्पर्वतान्प्राप्य धर्षिताश्च गणेश्वराः ॥ ३५ ॥
गिरीन्द्रो मन्दरः श्रीमान्नीलो मेरुः सुशोभनः ।
धर्षितो बाहुदण्डेन कण्ड्वा उत्सर्पणाय मे ॥ ३६ ॥
गङ्‌गा निरुद्धा बाहुभ्यां लीलार्थं हिमवद्‌गिरौ ।
अरीणां मम भृत्यैश्च जयो लब्धो दिवौकसाम् ॥ ३७ ॥
वडवाया मुखं बद्धं गृहीत्वा तां करेण तु ।
तत्क्षणादेव सकलमेकार्णवमभूत्तदा ॥ ३८ ॥
ऐरावतादयो नागाः क्षिप्ताः सिन्धुजलोपरि ।
सरथो भगवानिन्द्रः क्षिप्तश्च शतयोजनम् ॥ ३९ ॥
गरुडोऽपि मया बद्धो नागपाशेन विष्णुना ।
उर्वश्याद्या मयानीता नार्यः कारागृहान्तरम् ॥ ४० ॥
मां न जानासि रुद्र त्वं त्रैलोक्यजयकारिणाम् ।
जलन्धरं महादैत्यं सिन्धुपुत्रं महाबलम् ॥ ४१ ॥
सनत्कुमार उवाच
इत्युक्त्वाथ महादेवं तदा वारिधिनन्दनः ।
न चचाल न सस्मार निहतान्दानवान्युधि ॥ ४२ ॥
दुर्मदेनाविनीतेन दोर्भ्यामास्फोट्य दोर्बलात् ।
तिरस्कृतो महादेवो वचनैः कटुकाक्षरैः ॥ ४३ ॥
तच्छ्रुत्वा दैत्यवचनममंगलमतीरितम् ।
विजहास महादेवाः परमं क्रोधमादधे ॥ ४४ ॥
सुदर्शनाख्यं यच्चक्रं पदाङ्‌गुष्ठविनिर्मितम् ।
जग्राह तत्करे रुद्रस्तेन हन्तुं समुद्यतः ॥ ४५ ॥
सुदर्शनाख्यं तच्चक्रं चिक्षेप भगवान्हरः ।
कोटिसूर्यप्रतीकाशं प्रलयानलसन्निभम् ॥ ४६ ॥
प्रदहद्‍रोदसी वेगात्तदासाद्य जलन्धरम् ।
जहार तच्छिरो वेगान्महदायतलोचनम् ॥ ४७ ॥
रथात्कायः पपातोर्व्यां नादयन्वसुधातलम् ।
शिरश्चाप्यब्धिपुत्रस्य हाहाकारो महानभूत् ॥ ४८ ॥
द्विधा पपात तद्देहो ह्यञ्जनाद्रिरिवाचलः ।
कुलिशेन यथा वारांनिधौ गिरिवरो द्विधा ॥ ४९ ॥
तस्य रौद्रेण रक्तेन सम्पूर्णमभवज्जगत् ।
ततःसमस्ता पृथिवी विकृताभून्मुनीश्वर ॥ ५० ॥
तद्‍रक्तमखिलं रुद्रनियोगान्मांसमेव च ।
महारौरवमासाद्य रक्तकुण्डमभूदिह ॥ ५१ ॥
तत्तेजो निर्गतं देहाद् रुद्रे च लयमागमत् ।
वृन्दादेहोद्‌भवं यद्वद्‌गौर्य्यां हि विलयं गतम् ॥ ५२ ॥
जलन्धरं हतं दृष्ट्‍वा देवगन्धर्वपन्नगाः ।
अभवन्सुप्रसन्नाश्च साधु देवेति चाब्रुवन् ॥ ५३ ॥
सर्वे प्रसन्नतां याता देवसिद्धमुनीश्वराः ।
पुष्पवृष्टिं प्रकुर्वाणास्तद्यशो जगुरुच्चकैः ॥ ५४ ॥
देवाङ्‌गना महामोदान्ननृतुः प्रेमविह्वलाः ।
कलस्वराः कलपदं किन्नरैःसह सञ्जगुः ॥ ५५ ॥
दिशः प्रसेदुःसर्वाश्च हते वृन्दापतौ मुने ।
ववुः पुण्याः सुखस्पर्शा वायवस्त्रिविधा अपि ॥ ५६ ॥
चन्द्रमाः शीततां यातो रविस्तेपे सुतेजसा ।
अग्नयो जज्वलुः शान्ता बभूवाविकृतं नभः ॥ ५७ ॥
एवं त्रैलोक्यमखिलं स्वास्थ्यमापाधिकं मुने ।
हतेऽब्धितनये तस्मिन्हरेणानतमूर्तिना ॥ ५८ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे
युद्धखण्डे जलन्धरवर्णनं नाम चतुर्विशोऽध्यायः ॥ २४ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP