|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
त्रयोविंशोऽध्यायः
जलन्धरवधोपाख्याने वृन्दापातिव्रतभङ्गदेहत्यागवर्णनम्
व्यास उवाच
सनत्कुमार सर्वज्ञ वद त्वं वदतां वर । किमकार्षीद्धरिस्तत्र धर्मं तत्याज सा कथम् ॥ १ ॥ सनत्कुमार उवाच विष्णुर्जालन्धरं गत्वा दैत्यस्य पुटभेदनम् ॥ पातिव्रत्यस्य भङ्गाय वृन्दायाश्चा करोन्मतिम् । २ ॥ वृन्दां स दर्शयामास स्वप्नं मायाविनां वरः । स्वयं तन्नगरोद्यानमास्थितोऽद्भुतविग्रहः ॥ ३ ॥ अथ वृन्दा तदा देवी तत्पत्नी निशि सुव्रता । हरेर्मायाप्रभावात्तु दुःस्वप्नं सा ददर्श ह ॥ ४ ॥ स्वप्नमध्ये हि सा विष्णुमायया प्रददर्श ह । भर्त्तारं महिषारूढं तैलाभ्यक्तं दिगम्बरम् ॥ ५ ॥ कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम् । दक्षिणाशां गतं मुण्डं तमसा च वृतं तदा ॥ ६ ॥ स्वपुरं सागरे मग्नं सहसैवात्मना सह । इत्यादि बहुदुःस्वप्नान्निशान्ते सा ददर्श ह ॥ ७ ॥ ततः प्रबुध्य सा बाला तं स्वप्नं स्वं विचिन्वती । ददर्शोदितमादित्यं सच्छिद्रं निष्प्रभं मुहुः ॥ ८ ॥ तदनिष्टमिदं ज्ञात्वा रुदन्ती भयविह्वला । कुत्रचिन्नाप सा शर्म गोपुराट्टालभूमिषु ॥ ९ ॥ ततःसखीद्वययुता नगरोद्यानमागमत् । तत्रापि सा गता बाला न प्राप कुत्रचित्सुखम् ॥ १० ॥ ततो जलन्धरस्त्री सा निर्विण्णोद्विग्नमानसा । वनाद्वनान्तरं याता नैव वेदात्मना तदा ॥ ११ ॥ भ्रमती सा ततो बाला ददर्शातीव भीषणौ । राक्षसौ सिंहवदनौ दृष्ट्वा दशनभासुरौ ॥ १२ ॥ तौ दृष्ट्वा विह्वलातीव पलायनपरा तदा । ददर्श तापसं शान्तं सशिष्यं मौनमास्थितम् ॥ १३ ॥ ततस्तत्कण्ठमासाद्य निजां बाहुलतां भयात् । मुने मां रक्ष शरणमागतास्मीत्यभाषत ॥ १४ ॥ मुनिस्तां विह्वलां दृष्ट्वा राक्षसानुगतां तदा । हुङ्कारेणैव तौ घोरौ चकार विमुखौ द्रुतम् ॥ १५ ॥ तद् हुङ्कारभयत्रस्तौ दृष्ट्वा तौ विमुखौ गतौ । विस्मितातीव दैत्येन्द्रपत्नी साभून्मुने हृदि ॥ १६ ॥ ततःसा मुनिनाथं तं भयान्मुक्ता कृताञ्जलिः । प्रणम्य दण्डवद्भूमौ वृन्दा वचनमब्रवीत् ॥ १७ ॥ वृन्दोवाच मुनिनाथ दयासिन्धो परपीडानिवारक । रक्षिताहं त्वया घोराद्भयादस्मात्खलोद्भवात् ॥ १८ ॥ समर्थः सर्वथा त्वं हि सर्वज्ञोऽपि कृपानिधे । किञ्चिद्विज्ञप्तुमिच्छामि कृपया तन्निशामय ॥ १९ ॥ जलन्धरो हि मद्भर्ता रुद्रं योद्धुं गतः प्रभो । स तत्रास्ते कथं युद्धे तन्मे कथय सुव्रत ॥ २० ॥ सनत्कुमार उवाच मुनिस्तद्वाक्यमाकर्ण्य मौनकपटमास्थितः । कर्त्तुं स्वार्थं विधानज्ञः कृपयोर्ध्वमवैक्षत ॥ २१ ॥ तावत्कपीशावायातौ तं प्रणम्याग्रतः स्थितौ । ततस्तद्भ्रूलतासञ्ज्ञानियुक्तौ गगनं गतौ ॥ २२ ॥ नीत्वा क्षणार्द्धमागत्य पुनस्तस्याग्रतः स्थितौ । तस्यैव कं कबन्धं च हस्तावास्तां मुनीश्वर ॥ २३ ॥ शिरः कबन्धं हस्तौ तौ दृष्ट्वाब्धितनयस्य सा । पपात मूर्छिता भूमौ भर्तृव्यसनदुःखिता ॥ २४ ॥ वृन्दोवाच यः पुरा सुखसंवादैर्विनोदयसि मां प्रभो । स कथं न वदस्यद्य वल्लभां मामनागसम् ॥ २५ ॥ येन देवाःसगन्धर्वा निर्जिता विष्णुना सह । कथं स तापसेनाद्य त्रैलोक्यविजयी हत ॥ २६ ॥
नाङ्गीकृतं हि मे वाक्यं रुद्रतत्त्वमजानता । परं ब्रह्म शिवश्चेति वदन्त्या दैत्यसत्तम ॥ २७ ॥ ततस्त्वं हि मया ज्ञातस्तव सेवाप्रभावतः । गर्वितेन त्वया नैव कुसङ्गवशगेन हि ॥ २८ ॥ इत्थं प्रभाष्य बहुधा स्वधर्मस्था च तत्प्रिया । विललाप विचित्रं सा हृदयेन विदूयता ॥ २९ ॥ ततःसा धैर्यमालम्ब्य दुःखोच्छ्वासान्विमुञ्चती । उवाच मुनिवर्यं तं सुप्रणम्य कृताञ्जलिः ॥ ३० ॥ कृपानिधे मुनिश्रेष्ठ परोपकरणादर । मयि कृत्वा कृपां साधो जीवयैनं मम प्रभुम् ॥ ३१ ॥ यत्त्वमस्य पुनः शक्तो जीवनाय मतो मम । अतः सञ्जीवयैनं मे प्राणनाथं मुनीश्वर ॥ ३२ ॥ सनत्कुमार उवाच इत्युक्त्वा दैत्यपत्नी सा पतिव्रत्यपरायणाः । पादयोः पतिता तस्य दुःखश्वासान् विमुञ्चती ॥ ३३ ॥ मुनिरुवाच नायं जीवयितुं शक्तो रुद्रेण निहतो युधि । रुद्रेण निहता युद्धे न जीवन्ति कदाचन ॥ ३४ ॥ तथापि कृपयाविष्ट एनं सञ्जीवयाम्यहम् । रक्ष्याः शरणगाश्चेति जानन्धर्मं सनातनम् ॥ ३५ ॥ सनत्कुमार उवाच इत्युक्त्वा स मुनिस्तस्या जीवयित्वा पतिं मुने । अन्तर्दधे ततो विष्णुः सर्वमायाविनां वरः ॥ ३६ ॥ द्रुतं स जीवितस्तेनोत्थितः सागरनन्दनः । वृन्दामालिङ्ग्य तद्वक्त्रं चुचुम्ब प्रीतमानसः ॥ ३७ ॥ अथ वृन्दापि भर्तारं दृष्ट्वा हर्षितमानसा । जहौ शोकं च निखिलं स्वप्नवद् हृद्यमन्यत ॥ ३८ ॥ अथ प्रसन्नहृदया सा हि सञ्जातहृच्छया । रेमे तद्वनमध्यस्था तद्युक्ता बहुवासरान् ॥ ३९ ॥ कदाचित्सुरतस्यान्ते दृष्ट्वा विष्णुं तमेव हि । निर्भर्त्स्य क्रोधसंयुक्ता वृन्दा वचनमब्रवीत् ॥ ४० ॥ वृन्दोवाच धिक् तदेवं हरे शीलं परदाराभिगामिनः । ज्ञातोऽसि त्वं मया सम्यङ्मायी प्रत्यक्षतापसः ॥ ४१ ॥ सनत्कुमार उवाच इत्युक्त्वा क्रोधमापन्ना दर्शयन्ती स्वतेजसम् । शशाप केशवं व्यास पातिव्रत्यरता च सा ॥ ४२ ॥ रे महाधम दैत्यारे परधर्मविदूषक । गृह्णीष्व शठ मद्दत्तं शापं सर्वविषोल्बणम् ॥ ४३ ॥ यौ त्वया मायया ख्यातौ स्वकीयौ दर्शितौ मम । तावेव राक्षसौ भूत्वा भार्यां तव हरिष्यतः ॥ ४४ ॥ त्वं चापि भार्यादुःखार्तो वने कपिसहायवान् । भ्रम सर्पेश्वरेणायं यस्ते शिष्यत्वमागतः४५ ॥ सनत्कुमार उवाच इत्युक्त्वा सा तदा वृन्दा प्रविशद्धव्यवाहनम् । विष्णुना वार्यमाणापि तत्स्थितासक्तचेतसा ॥ ४६ ॥ तस्मिन्नवसरे देवा ब्रह्माद्या निखिला मुने । आगता खे समं दारैः सद्गतिं वै दिदृक्षवः ॥ ४७ ॥ अथ दैत्येन्द्रपत्न्यास्तु तज्ज्योतिः परमं महत् । पश्यतां सर्वदेवानामलोकमगमद्द्रुतम् ॥ ४८ ॥ शिवातनौ विलीनं तद्वृन्दातेजो बभूव ह । आसीज्जयजयारावः खस्थितामर पङ्क्तिषु ॥ ४९ ॥ एवं वृन्दा महाराज्ञी कालनेमिसुतोत्तमा । पातिव्रत्यप्रभावाच्च मुक्तिं प्राप परां मुने ॥ ५० ॥ ततो हरिस्तामनुसंस्मन्मुहु- र्वृन्दाचिताभस्मरजोवगुण्ठितः । तत्रैव तस्थौ सुरसिद्धसङ्घकैः प्रबोध्यमानोपि ययौ न शान्तिम् ॥ ५१ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने वृन्दापातिव्रतभङ्गदेहत्यागवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ श्रीगौरीशंकरार्पणमस्तु |