|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
अष्टविंशोऽध्यायः
शङ्खचूडतपःकरणविवाहवर्णनम्
सनत्कुमार उवाच
ततश्च शङ्खचूडोऽसौ जैगीषव्योपदेशतः । ततश्चकार सुप्रीत्या ब्रह्मणः पुष्करे चिरम् ॥ १ ॥ गुरुदत्तां ब्रह्मविद्यां जजाप नियतेन्द्रियः । स एकाग्रमना भूत्वा करणानि निगृह्य च ॥ २ ॥ तपन्तं पुष्करे तं वै शङ्खचूडं च दानवम् । वरं दातुं जगामाशु ब्रह्मालोकगुरुर्विभुः ॥ ३ ॥ वरं ब्रूहीति प्रोवाच दानवेन्द्रं विधिस्तदा । स दृष्ट्वा तं ननामातिनम्रस्तुष्टाव सद्गिरा ॥ ४ ॥ वरं ययाचे ब्रह्माणमजेयत्वं दिवौकसाम् । तथेत्याह विधिस्तं वै सुप्रसन्नेन चेतसा ॥ ५ ॥ श्रीकृष्णकवचं दिव्यं जगन्मंगलमंगलम् । दत्तवान् शङ्खचूडाय सर्वत्र विजयप्रदम् ॥ ६ ॥ बदरीं सम्प्रयाहि त्वं तुलस्या सह तत्र वै । विवाहं कुरु तत्रैव सा तपस्यति कामतः ॥ ७ ॥ धर्मध्वजसुता सेति सन्दिदेश च तं विधिः । अन्तर्धानं जगामाशु पश्यतस्तस्य तत्क्षणात् ॥ ८ ॥ ततःस शङ्खचूडो हि तपःसिद्धोऽतिपुष्करे । गले बबन्ध कवचं जगन्मंगलमंगलम् ॥ ९ ॥ आज्ञया ब्राह्मणः सोऽपि तपःसिद्धमनोरथः । समाययौ प्रहृष्टास्यस्तूर्णं बदरिकाश्रमम् ॥ १० ॥ यदृच्छयाऽऽगतस्तत्र शङ्खचूडश्च दानवः । तपश्चरन्ती तुलसी यत्र धर्मध्वजात्मजा ॥ ११ ॥ सुरूपा सुस्मिता तन्वी शुभभूषणभूषिता । सकटाक्षं ददर्शासौ तमेव पुरुषं परम् ॥ १२ ॥ दृष्ट्वा तां ललिता रम्यां सुशीलां सुन्दरीं सतीम् । उवास तत्समीपे तु मधुरं तामुवाच सः ॥ १३ ॥ शङ्खचूड उवाच का त्वं कस्य सुता त्वं हि किं करोषि स्थितात्र किम् । मौनीभूता किङ्करं मां सम्भावितुमिहार्हसि ॥ १४ ॥ सनत्कुमार उवाच इत्येवं वचनं श्रुत्वा सकामं तमुवाच सा । १५ ॥ तुलस्युवाच धर्मध्वजसुताहं च तपस्यामि तपस्विनी । तपोवने च तिष्ठामि कस्त्वं गच्छ यथासुखम् ॥ १६ ॥ नारीजातिर्मोहिनी च ब्रह्मादीनां विषोपमा । निन्द्या दोषकरी माया शृङ्खला ह्यनुशायिनाम् ॥ १७ ॥ सनत्कुमार उवाच इत्युक्त्वा तुलसी तं च सरसं विरराम ह । दृष्ट्वा तां सस्मितां सोपि प्रवक्तुमुपचक्रमे ॥ १८ ॥ शङ्खचूड उवाच त्वया यत्कथितं देवि न च सर्वमलीककम् । किञ्चित्सत्यमलीकं च किञ्चिन्मत्तो निशामय ॥ १९ ॥ पतिव्रताः स्त्रियो याश्च तासां मध्ये त्वमग्रणीः । न चाहं पापदृक्कामी तथा त्वं नेति धीर्मम ॥ २० ॥ आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना । गान्धर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने ॥ २१ ॥
शङ्खचूडोऽहमेवास्मि देवविद्रावकारकः । मां न जानासि किं भद्रे न श्रुतोऽहं कदाचन ॥ २२ ॥ दनुवंश्यो विशेषेण मन्द पुत्रश्च दानवः । सुदामा नाम गोपोहं पार्षदश्च हरेः पुरा ॥ २३ ॥ अधुना दानवेन्द्रोऽहं राधिकायाश्च शापतः । जातिस्मरोऽहं जानामि सर्वं कृष्णप्रभावतः ॥ २४ ॥ सनत्कुमार उवाच एवमुक्त्वा शङ्खचूडो विरराम च तत्पुरः । दानवेन्द्रेण सेत्युक्ता वचनं सत्यमादरात् । सस्मितं तुलसी तुष्टा प्रवक्तुमुपचक्रमे ॥ २५ ॥ तुलस्युवाच त्वयाहमधुना सत्त्वविचारेण पराजिता । स धन्यः पुरुषो लोके न स्त्रिया यः पराजितः ॥ २६ ॥ सत्क्रियोप्यशुचिर्नित्यं स पुमान्यः स्त्रिया जितः । निन्दन्ति पितरो देवा मानवाःसकलाश्च तम् ॥ २७ ॥ शुध्येद्विप्रो दशाहेन जातके मृतसूतके । क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशाहतः ॥ २८ ॥ शूद्रो मासेन शुध्येत्तु हीति वेदानुशासनम् । न शुचिः स्त्रीजितः क्वापि चितादाहं विना पुमान् ॥ २९ ॥ न गृह्णतीच्छया तस्मात्पितरः पिण्डतर्पणम् । न गृह्णन्ति सुरास्तेन दत्तं पुष्पफलादिकम् ॥ ३० ॥ तस्य किं ज्ञानसुतपो जपहोम प्रपूजनैः । विद्यया दानतः किं वा स्त्रीभिर्यस्य मनो हृतम् ॥ ३१ ॥ विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः । कृत्वा कान्तपरीक्षां वै वृणुयात्कामिनी वरम् ॥ ३२ ॥ सनत्कुमार उवाच इत्येवं प्रवदन्त्यां तु तुलस्यां तत्क्षणे विधिः । तत्राजगाम संस्रष्टा प्रोवाच वचनं ततः ॥ ३३ ॥ ब्रह्मोवाच किं करोषि शङ्खचूड संवादमनया सह । गान्धर्वेण विवाहेन त्वमस्या ग्रहणं कुरु ॥ ३४ ॥ त्वं वै पुरुषरत्नं च स्त्रीरत्नं च त्वियं सती । विदग्धाया विदग्धेन सङ्गमो गुणवान् भवेत् ॥ ३५ ॥ निर्विरोधं सुखं राजन् को वा त्यजति दुर्लभम् । योऽविरोधसुखत्यागी स पशुर्नात्र संशयः ॥ ३६ ॥ किं त्वं परीक्षसे कान्तमीदृशं गुणिनं सति । देवानामसुराणां च दानवानां विमर्दकम् ॥ ३७ ॥ अनेन सार्द्धं सुचिरं विहारं कुरु सर्वदा । स्थाने स्थाने यथेच्छं च सर्वलोकेषु सुन्दरि ॥ ३८ ॥ अन्ते प्राप्स्यति गोलोके श्रीकृष्णं पुनरेव सः । चतुर्भुजं च वैकुण्ठे मृते तस्मिंस्त्वमाप्स्यसि ॥ ३९ ॥ सनत्कुमार उवाच इत्येवमाशिषं दत्त्वा स्वालयं तु ययौ विधिः । गान्धर्वेण विवाहेन जगृहे तां च दानवः ॥ ४० ॥ एवं विवाह्य तुलसीं पितुः स्थानं जगाम ह । स रेमे रमया सार्द्धं वासगेहे मनोरमे ॥ ४१ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडतपःकरणविवाहवर्णनं नामाष्टविंशोऽध्यायः ॥ २८ ॥ श्रीगौरीशंकरार्पणमस्तु |