॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

द्वाविंशोऽध्यायः


जलन्धरवधोपाख्याने जलन्धरयुद्धवर्णनम्


सनत्कुमार उवाच
अथ वीरगणै रुद्रो रौद्ररूपो महाप्रभुः ।
अभ्यगाद् वृषभारूढः सङ्‌ग्रामं प्रहसन्निव ॥ १ ॥
रुद्रमायान्तमालोक्य सिंहनादैर्गणाः पुनः ।
निवृत्ताः सङ्‌गरे रौद्रा ये हि पूर्वं पराजिताः ॥ २ ॥
वीर शब्दं च कुर्वन्तस्तेऽप्यन्ये शाङ्‌करा गणाः ।
सोत्सवाःसायुधा दैत्यान्निजघ्नुः शरवृष्टिभिः ॥ ३ ॥
दैत्या हि भीषणं रुद्रं सर्वे दृष्ट्‍वा विदुद्रुवुः ।
शाङ्‌करं पुरुषं दृष्ट्‍वा पातकानीव तद्‌भयात् ॥ ४ ॥
अथो जलन्धरो दैत्यान्निवृत्तान्प्रेक्ष्य सङ्‌गरे ।
अभ्यधावत्स चण्डीशं मुञ्चन्बाणान्सहस्रशः ॥ ५ ॥
निशुम्भशुम्भप्रमुखा दैत्येन्द्राश्च सहस्रशः ।
अभिजग्मुः शिवं वेगाद्‌रोषात्सन्दष्टदच्छदाः ॥ ६ ॥
कालनेमिस्तथा वीरः खड्गरोमा बलाहकः ।
घस्मरश्च प्रचण्डश्चापरे चापि शिवं ययुः ॥ ७ ॥
बाणैःसञ्छादयामासुर्द्रुतं रुद्रगणांश्च ते ।
अङ्‌गानि चिच्छिदुर्वीराः शुम्भाद्या निखिला मुने ॥ ८ ॥
बाणान्धकारसञ्छन्नं दृष्ट्‍वा गणबलं हरः ।
तद्‌बाणजालमाच्छिद्य बाणैराववृते नभः ॥ ९ ॥
दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा ।
प्रचण्डबाणजालोघैरपातयत भूतले ॥ १० ॥
खड्गरोमशिरः कायात्तथा परशुनाच्छिनत् ।
बलाहकस्य च शिरः खट्‍वाङ्‌गेनाकरोद्‍द्विधा ॥ ११ ॥
स बद्ध्वा घस्मरं दैत्यं पाशेनाभ्यहनद्‌भुवि ।
महावीर प्रचण्डं च चकर्त्त विशिखेन ह ॥ १२ ॥
वृषभेण हताः केचित्केचिद्‌बाणैर्निपातिता ।
न शेकुरसुराः स्थातुं गजा सिंहार्दिता इव ॥ १३ ॥
ततः क्रोधपरीतात्मा दैत्यान् धिक् कृतवान् रणे ।
शुम्भादिकान्महादैत्यः प्रहसन्प्राह धैर्यवान् ॥ १४ ॥
जलन्धर उवाच
किं व उच्चरितैर्मातुर्धावद्‌भिः पृष्ठतो हतैः ।
न हि भीतवधः श्लाघ्यः स्वर्गदः शूरमानिनाम् ॥ १५ ॥
यदि वः प्रधने श्रदा सारो वा क्षुल्लका हृदि ।
अग्रे तिष्ठत मात्रं मे न चेद्‌ग्राम्यसुखे स्पृहा ॥ १६ ॥
रणे मृत्युर्वरश्चास्ति सर्वकामफलप्रदः ।
यशःप्रदो विशेषेण मोक्षदोऽपि प्रकीर्त्तितः ॥ १७ ॥
सूर्यस्य मण्डलं भित्त्वा यायाद्वै परमं पदम् ।
परिव्राट् परमज्ञानी रणे यत्संमुखे हतः ॥ १८ ॥
मृत्योर्भयं न कर्तव्यं कदाचित्कुत्रचिद्‌बुधैः ।
अनिर्वार्यो यतो ह्येष उपायैर्निखिलैरपि ॥ १९ ॥
मृत्युर्जन्मवतां वीरा देहेन सह जायते ।
अद्य वाब्दशतांते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ २० ॥
तन्मृत्युभयमुत्सार्य युध्यध्वं समरे मुदा ।
सर्वथा परमानन्द इहामुत्राप्यसंशयः ॥ २१ ॥
सनत्कुमार उवाच
इत्युक्त्वा बोधयामास स्ववीरान्बहुशः स हि ।
धैर्यं दधुर्न ते भीत्या पलायन्त रणाद् रुतम् ॥ २२ ॥
अथ दृष्ट्‍वा स्वसैन्यं तत्पलायनपरायणम् ।
चुक्रोधाति महावीरः सिन्धुपुत्रो जलन्धरः ॥ २३ ॥
ततः क्रोधपरीतात्मा क्रोधाद्‌रुद्रं जलन्धरः ।
आह्वापयामास रणे तीव्राशनिसमस्वनः ॥ २४ ॥
जलन्धर उवाच
युद्ध्यस्वाद्य मया सार्द्धं किमेभिर्निहतैस्तव ।
यच्च किञ्चिद्‌बलं तेऽस्ति तद्दर्शय जटाधर ॥ २५ ॥
सनत्कुमार उवाच
इत्युक्त्वा बाण सप्तत्या जघान वृषभध्वजम् ।
जलन्धरो महादैत्यः शम्भुमक्लिष्टकारिणम् ॥ २६ ॥
तानप्राप्तान्महादेवो जलन्धरशरान्द्रुतम् ।
निजैर्हि निशितैर्बाणैश्चिच्छेद प्रहसन्निव ॥ २७ ॥
ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद सप्तभिः ।
जलन्धरस्य दैत्यस्य न तच्चित्रं हरे मुने ॥ २८ ॥
स च्छिन्नधन्वा विरथः पाथोधितनयोऽसुरः ।
अभ्यधावच्छिवं क्रुद्धो गदामुद्यम्य वेगवान् ॥ २९ ॥
प्रभुर्गदां च तत्क्षिप्तां सहसैव महेश्वरः ।
पाराशर्यं महालीलो द्रुतं बाणैर्द्विधाकरोत् ॥ ३० ॥
तथापि मुष्टिमुद्यम्य महाक्रुद्धो महासुरः ।
अभ्युद्ययौ महावेगाद्‌रुद्रं तं तज्जिघांसया ॥ ३१ ॥
तावदेवेश्वरेणाशु बाणोघैः स जलन्धरः ।
अक्लिष्टकर्मकारेण क्रोशमात्रमपाकृतः ॥ ३२ ॥
ततो जलन्धरो दैत्यो रुद्रं मत्वा बलाधिकम् ।
ससर्ज मायां गान्धर्वीमद्‌भुतां रुद्रमोहिनीम् ॥ ३३ ॥
तस्य मायाप्रभावात्तु गन्धर्वाप्सरसां गणाः ।
आविर्भूता अनेके च रुद्रमोहनहेतवे ॥ ३४ ॥
ततो जगुश्च ननृतुर्गन्धर्वाप्सरसां गणाः ।
तालवेणुमृदङ्‌गांश्च वादयन्ति स्म चापरे ॥ ३५ ॥
तद्दृष्ट्‍वा महदाश्चर्यं गणै रुद्रो विमोहितः ।
पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः ॥ ३६ ॥
एकाग्रीभूतमालोक्य रुद्रं दैत्यो जलन्धरः ।
कामतः स जगामाशु यत्र गौरी स्थिताऽभवत् ॥ ३७ ॥
युद्धे शुम्भनिशुम्भाख्यौ स्थापयित्वा महाबलौ ।
दशदोर्दण्डपञ्चास्यस्त्रिनेत्रश्च जटाधरः ॥ ३८ ॥
महावृषभमारूढः सर्वथा रुद्रसंनिभः ।
आसुर्य्या मायया व्यास स बभूव जलन्धरः ॥ ३९ ॥
अथ रुद्रं समायातमालोक्य भववल्लभा ।
अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत् ॥ ४० ॥
यावद्ददर्श चार्वङ्‌गी पार्वतीं दनुजेश्वरः ।
तावत्स वीर्यं मुमुचे जडाङ्‌गश्चाभवत्तदा ॥ ४१ ॥
अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला ।
जगामान्तर्हितावेगात्सा तदोत्तरमानसम् ॥ ४२ ॥
तामदृश्य ततो दैत्यः क्षणाद्विद्युल्लतामिव ।
जवेनागात्पुनर्योद्धुं यत्र देवो महेश्वरः ॥ ४३ ॥
पार्वत्यपि महाविष्णुं सस्मार मनसा तदा ।
तावद्ददर्श तं देवं सोपविष्टं समीपगम् ॥ ४४ ॥
तं दृष्ट्‍वा पार्वती विष्णुं जगन्माता शिवप्रिया ।
प्रसन्नमनसोवाच प्रणमन्तं कृताञ्जलिम् ॥ ४५ ॥
पार्वत्युवाच
विष्णो जलन्धरो दैत्यः कृतवान्परमाद्‌भुतम् ।
तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः ॥ ४६ ॥
तच्छ्रुत्वा जगदम्बाया वचनं गरुडध्वजः ।
प्रत्युवाच शिवां नत्वा साञ्जलिर्नम्रकन्धरः ॥ ४७ ॥
श्रीभगवानुवाच
भवत्याः कृपया देवि तद्वृत्तं विदितं मया ।
यदाज्ञापय मां मातस्तत्कुर्य्यां त्वदनुज्ञया ॥ ४८ ॥
सनत्कुमार उचाच
तच्छ्रुत्वा विष्णुवचनं पुनरप्याह पार्वती ॥
हृषीकेशं जगन्माता धर्मनीतिं सुशिक्षयन् । ४९ ॥
पार्वत्युवाच
तेनैव दर्शितः पन्था बुध्यस्व त्वं तथैव हि ।
तत्स्त्रीपातिव्रतं धर्मं भ्रष्टं कुरु मदाज्ञया ॥ ५० ॥
नान्यथा स महादैत्यो भवेद्वध्यो रमेश्वर ।
पातिव्रतसमो नान्यो धर्मोऽस्ति पृथिवीतले ॥ ५१ ॥
सनत्कुमार उवाच
इत्यनुज्ञां समाकर्ण्य शिरसाधाय तां हरिः ।
छल कर्त्तुं जगामाशु पुनर्जालन्धरं पुरम् ॥ ५२ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायाम्पञ्चमे युद्धखण्डे
जलन्धरवधोपाख्याने जलन्धरयुद्धवर्णनंनाम द्वाविंशोऽध्यायः ॥ २२ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP