॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

एकविंशोऽध्यायः




सनत्कुमार उवाच
ते गणाधिपतीन्दृष्ट्‍वा नन्दीभमुखषण्मुखान् ।
अमर्षादभ्यधावन्त द्वन्द्वयुद्धाय दानवाः ॥ १ ॥
नन्दिनं कालनेमिश्च शुम्भो लम्बोदरं तथा ।
निशुम्भः षण्मुखं देवमभ्यधावत शङ्‌कितः ॥ २ ॥
निशुम्भः कार्तिकेयस्य मयूरं पञ्चभिः शरैः ।
हृदि विव्याध वेगेन मूर्छितः स पपात ह ॥ ३ ॥
ततः शक्तिधरः क्रुद्धो बाणैः पञ्चभिरेव च ।
विव्याध स्यन्दने तस्य हयान्यन्तारमेव च ॥ ४ ॥
शरेणान्येन तीक्ष्णेन निशुम्भं देववैरिणम् ।
जघान तरसा वीरो जगर्ज रणदुर्मदः ॥ ५ ॥
असुरोऽपि निशुम्भाख्यो महावीरोऽतिवीर्यवान् ।
जघान कार्तिकेयं तं गर्जन्तं स्वेषुणा रणे ॥ ६ ॥
ततः शक्तिं कार्तिकेयो यावज्जग्राह रोषतः ।
तावन्निशुम्भो वेगेन स्वशक्त्या तमपातयत् ॥ ७ ॥
एवं बभूव तत्रैव कार्तिकेयनिशुम्भयोः ।
आहवो हि महान्व्यास वीरशब्दं प्रगर्जतोः ॥ ८ ॥
ततो नन्दीश्वरो बाणैः कालनेमिमविध्यत ।
सप्तभिश्च हयान्केतुं रथं सारथिमाच्छिनत् ॥ ९ ॥
कालनेमिश्च सङ्‌कुद्धो धनुश्चिच्छेद नन्दिनः ।
स्वशरासननिर्मुक्तैर्महातीक्ष्णैः शिलीमुखैः ॥ १० ॥
अथ नन्दीश्वरो वीरः कालनेमिं महासुरम् ।
तमपास्य च शूलेन वक्षस्यभ्यहनद्दृढम् ॥ ११ ॥
स शूलभिन्नहृदयो हताश्वो हतसारथिः ।
अद्रेः शिखरमुत्पाट्य नन्दिनं समताडयत् ॥ १२ ॥
अथ शुम्भो गणेशश्च रथमूषक वाहनौ ।
युध्यमानौ शरव्रातैः परस्परमविध्यताम् ॥ १३ ॥
गणेशस्तु तदा शुम्भं हृदि विव्याध पत्रिणा ।
सारथिं च त्रिभिर्बाणैः पातयामास भूतले ॥ १४ ॥
ततोऽतिक्रुद्धः शुम्भोऽपि बाणदृष्ट्या गणाधिपम् ।
मूषकं च त्रिभिर्विध्वा ननाद जलदस्वनः ॥ १५ ॥
मूषकः शरभिन्नाङ्‌गश्चचाल दृढवेदनः ।
लम्बोदरश्च पतितः पदातिरभवत्स हि ॥ १६ ॥
ततो लम्बोदरः शुम्भं हत्वा परशुना हृदि ।
अपातयत्तदा भूमौ मूषकं चारुरोह सः ॥ १७ ॥
समरायोद्यतश्चाभूत्पुनर्गजमुखो विभुः ।
प्रहस्य जघ्नतुः क्रोधात्तोत्रेणैव महाद्विपम् ॥ १८ ॥
कालनेमिर्निशुम्भश्च ह्युभौ लम्बोदरं शरैः ।
युगपच्चख्नतुः क्रोधादाशीविषसमैर्द्रुतम् ॥ १९ ॥
तं पीड्यमानमालोक्य वीरभद्रो महाबलः ।
अभ्यधावत वेगेन कोटिभूतयुतस्तथा ॥ २० ॥
कूष्माण्डा भैरवाश्चापि वेताला योगिनीगणाः ।
पिशाचा डाकिनीसङ्‌घा गणाश्चापि समं ययुः ॥ २१ ॥
ततः किलकिला शब्दैः सिंहनादैः सघर्घरैः ।
विनादिता डमरुकैः पृथिवी समकम्पत ॥ २२ ॥
ततो भूताः प्रधावन्तो भक्षयन्ति स्म दानवान् ।
उत्पत्य पातयन्ति स्म ननृतुश्च रणाङ्‌गणे ॥ २३ ॥
एतस्मिन्नन्तरे व्यासाभूतां नन्दीगुहश्च तौ ।
उत्थितावाप्तसञ्ज्ञौ हि जगर्जतुरलं रणे ॥ २४ ॥
स नन्दी कार्तिकेयश्च समायातौ त्वरान्वितौ ।
जघ्नतुश्च रणे दैत्यान्निरन्तरशरव्रजैः ॥ २५ ॥
छिन्नैर्भिन्नैर्हतैर्दैत्यैः पतितैर्भक्षितैस्तथा ।
व्याकुला साभवत्सेना विषण्णवदना तदा ॥ २६ ॥
एवं नन्दी कार्तिकेयो विकटश्च प्रतापवान् ।
वीरभद्रो गणाश्चान्ये जगर्जुःसमरेऽधिकम् ॥ २७ ॥
निशुम्भशुम्भौ सेनान्यौ सिन्धुपुत्रस्य तौ तथा ।
कालनेमिर्महादैत्योऽसुराश्चान्ये पराजिताः ॥ २८ ॥
प्रविध्वस्तां ततःसेनां दृष्ट्‍वा सागरनन्दनः ।
रथेनातिपताकेन गणानभिययौ बली ॥ २९ ॥
ततः पराजिता दैत्या अप्यभूवन्महोत्सवाः ।
जगर्जुरधिकं व्यास समरायोद्यतास्तदा ॥ ३० ॥
सर्वे रुद्रगणाश्चापि जगर्जुर्जयशालिनः ।
नन्दिकार्तिकदन्त्यास्यवीरभद्रादिका मुने ॥ ३१ ॥
हस्त्यश्वरथसंह्रादः शङ्‌खभेरीरवस्तथा ।
अभवत्सिंहनादश्च सेनयोरुभयोस्तथा ॥ ३२ ॥
जलन्धरशरव्रातैर्नीहारपटलैरिव ।
द्यावापृथिव्योराच्छन्नमन्तरं समपद्यत ॥ ३३ ॥
शैलादिं पञ्चभिर्विद्ध्वा गणेशं पञ्चभिः शरैः ।
वीरभद्रं च विंशत्या ननाद जलदस्वनः ॥ ३४ ॥
कार्तिकेयस्ततो दैत्यं शक्त्या विव्याध सत्वरम् ।
जलन्धरं महावीरो रुद्रपुत्रो ननाद च ॥ ३५ ॥
स पूर्णनयनो दैत्यः शक्तिनिर्भिन्नदेहकः ।
पपात भूमौ त्वरितमुदतिष्ठन्महाबलः ॥ ३६ ॥
ततः क्रोधपरीतात्मा कार्तिकेयं जलन्धरः ।
गदया ताडयामास हृदये दैत्यपुङ्‌गवः ॥ ३७ ॥
गदाप्रभावं सफलं दर्शयन् शंकरात्मजः ।
विधिदत्तवराद् व्यास स तूर्णं भूतलेऽपतत् ॥ ३८ ॥
तथैव नन्दी ह्यपतद्‌भूतले गदया हतः ।
महावीरोऽपि रिपुहा किञ्चिद्‌व्याकुलमानसः ॥ ३९ ॥
ततो गणेश्वरः क्रुद्धः स्मृत्वा शिवपदाम्बुजम् ।
सम्प्राप्यातिबलो दैत्य गदां परशुनाच्छिनत् ॥ ४० ॥
वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम् ।
सप्तभिश्च हयान्केतुं धनुश्छत्रं च चिच्छिदे ॥ ४१ ॥
ततोऽतिक्रुद्धो दैत्येन्द्रः शक्तिमुद्यम्य दारुणाम् ।
गणेशं पातयामास रथमन्यं समारुहत् ॥ ४२ ॥
अभ्यगादथ वेगेन स दैत्येन्द्रो महाबलः ।
विगणय्य हृदा तं वै वीरभद्रं रुषान्वितः ॥ ४३ ॥
वीरभद्रं जघानाशु तीक्ष्णेनाशीविषेण तम् ।
ननाद च महावीरो दैत्यराजो जलन्धरः ॥ ४४ ॥
वीरभद्रोऽपि सङ्‌कुद्धःसितधारेण चेषुणा ।
चिच्छेद तच्छरं चैव तं विव्याध महेषुणा ॥ ४५ ॥
ततस्तौ सूर्यसङ्‌काशौ युयुधाते परस्परम् ।
नानाशस्त्रैस्तथास्त्रैश्च चिरं वीरवरोत्तमौ ॥ ४६ ॥
वीरभद्रस्ततस्तस्य हयान्बाणैरपातयत् ।
धनुश्चिच्छेद रथिनः पताकां चापि वेगतः ॥ ४७ ॥
अथो स दैत्यराजो हि पुप्लुवे परिघायुधः ।
वीरभद्रोपकण्ठं स द्रुतमाप महाबलः ॥ ४८ ॥
परिघेनातिमहता वीरभद्रं जघान ह ।
सबलोऽब्धितनयो मूर्ध्नि वीरो जगर्ज च ॥ ४९ ॥
परिघेनातिमहता भिन्नमूर्द्धा गणाधिपः ।
वीरभद्रः पपातोर्व्यां मुमोच रुधिरं बहु ॥ ५० ॥
पतितं वीरभद्रं तु दृष्ट्‍वा रुद्रगणा भयात् ।
अपागच्छन् रणं हित्वा क्रोशमाना महेश्वरम् ॥ ५१ ॥
अथ कोलाहलं श्रुत्वा गणानां चन्द्रशेखरः ।
निजपार्श्वस्थितान् वीरानपृच्छद्‌ गणसत्तमान् ॥ ५२ ॥
शंकर उवाच
किमर्थं मद्‌गणानां हि महाकोलाहलोऽभवत् ।
विचार्यतां महावीराः शान्तिः कार्या मया ध्रुवम् ॥ ५३ ॥
यावत्स देवेशो गणान्पप्रच्छ सादरम् ।
तावद्‌गणवरास्ते हि समायाताः प्रभुं प्रति ॥ ५४ ॥
तान्दृष्ट्‍वा विकलान् रुद्रः पप्रच्छ कुशलं प्रभुः ।
यथावत्ते गणा वृत्तं समाचख्युश्च विस्तरात् ॥ ५५ ॥
तच्छ्रुत्वा भगवान् रुद्रो महालीलाकरः प्रभुः ।
अभयं दत्तवांस्तेभ्यो महोत्साहं प्रवर्द्धयन् ॥ ५६ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे
जलन्धरोपाख्याने विशेषयुद्धवर्णनं नामैकविंशतितमोऽध्यायः ॥ २१ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP