॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

विंशोऽध्यायः


जलन्धरवधोपाख्याने सामान्यगणासुरयुद्धवर्णनम्


व्यास उवाच
सनत्कुमार सर्वज्ञ कथा ते श्राविताद्‌भुता ।
महाप्रभोः शंकरस्य यत्र लीला च पावनी ॥ १ ॥
इदानीं ब्रूहि सुप्रीत्या कृपां कृत्वा ममो परि ।
राहुर्मुक्तः कुत्र गतः पुरुषेण महामुने ॥ २ ॥
सूत उवाच
इत्याकर्ण्य वचस्तस्य व्यासस्यामितमेधसः ।
प्रत्युवाच प्रसन्नात्मा ब्रह्मपुत्रो महामुनिः ॥ ३ ॥
सनत्कुमार उवाच
राहुर्विमुक्तो यस्तेन सोपि तद्वर्वरस्थले ।
अतः स वर्वरो भूत इति भूमौ प्रथां गतः ॥ ४ ॥
ततः स मन्यमानः स्वं पुनर्जनिमथानतः ।
गतगर्वो जगामाथ जलन्धरपुरं शनैः ॥ ५ ॥
जलन्धराय सोऽभ्येत्य सर्वमीशविचेष्टितम् ।
कथयामास तद्‌व्यासाद्‌व्यास दैत्येश्वराय वै ॥ ६ ॥
जलन्धरस्तु तच्छ्रुत्वा कोपाकुलितविग्रहः ।
बभूव बलवान्सिन्धुपुत्रो दैत्येन्द्रसत्तमः ॥ ७ ॥
ततः कोपपराधीनमानसो दैत्यसत्तमः ।
उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ॥ ८ ॥
जलन्धर उवाच
निर्गच्छन्त्वखिला दैत्याः कालनेमिमुखाः खलु ।
तथा शुम्भनिशुम्भाद्या वीराः स्वबलसंयुताः ॥ ९ ॥
कोटिर्वीरकुलोत्पन्नाः कम्बुवंश्याश्च दौर्हृदाः ।
कालकाः कालकेयाश्च मौर्या धौम्रास्तथैव च ॥ १० ॥
इत्याज्ञाप्यासुरपतिः सिन्धुपुत्रो प्रतापवान् ।
निर्जगामाशु दैत्यानां कोटिभिः परिवारितः ॥ ११ ॥
ततस्तस्याग्रतः शुक्रो राहुश्छिन्नशिरोऽभवत् ।
मुकुटश्चापतद्‌भूमौ वेगात्प्रस्खलितस्तदा ॥ १२ ॥
व्यराजत नभः पूर्णं प्रावृषीव यथा घनैः ।
जाता अशकुना भूरि महानिद्राविसूचकाः ॥ १३ ॥
तस्योद्योगं तथा दृष्ट्‍वा गीर्वाणास्ते सवासवाः ।
अलक्षितास्तदा जग्मुः कैलासं शंकरालयम् ॥ १४ ॥
तत्र गत्वा शिवं दृष्ट्‍वा सुप्रणम्य सवासवाः ।
देवाः सर्वे नतस्कन्धाः करौ बद्ध्वा च तुष्टुवुः ॥ १५ ॥
देवा ऊचुः
देवदेव महादेव करुणाकर शंकर ।
नमस्तेस्तु महेशान पाहि नः शरणागतान् ॥ १६ ॥
विह्वला वयमत्युग्रं जलन्धरकृतात्प्रभो ।
उपद्रवात्सदेवेन्द्राः स्थानभ्रष्टाः क्षितिस्थिताः ॥ १७ ॥
न जानासि कथं स्वामिन्देवापत्तिमिमां प्रभो ।
तस्मान्नो रक्षणार्थाय जहि सागरनन्दनम् ॥ १८ ॥
अस्माकं रक्षणार्थाय यत्पूर्वं गरुडध्वजः ।
नियोजितस्त्वया नाथ न क्षमःसोऽद्य रक्षितुम् ॥ १९ ॥
तदधीनो गृहे तस्य रमया सह तिष्ठति ।
वयं च तत्र तिष्ठामस्तदाज्ञावशगाः सुराः ॥ २० ॥
अलक्षिता वयं चात्रागताः शम्भो त्वदन्तिकम् ।
स आयाति त्वया कर्त्तुं रणं सिन्धुसुतो बली ॥ २१ ॥
अतःस्वामिन्रणे त्वं तमविलम्बं जलन्धरम् ।
हन्तुमर्हसि सर्वज्ञ पाहि नः शरणागतान् ॥ २२ ॥
सनत्कुमार उवाच
इत्युक्त्वा ते सुराःसर्वे प्रभुं नत्वा सवासवाः ।
पादौ निरीक्ष्य सन्तस्थुर्महेशस्य विनम्रकाः ॥ २३ ॥
सनत्कुमार उवाच
इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः ।
द्रुतं विष्णुं समाहूय वचनं चेदमब्रवीत् ॥ २४ ॥
ईश्वर उवाच
हृषीकेश महाविष्णो देवाश्चात्र समागताः ।
जलन्धरकृतापीडाः शरणं मेऽतिविह्वलाः ॥ २५ ॥
जलन्धरः कथं विष्णो सङ्‌गरे न हतस्त्वया ।
तद्‌गृहं चापि यातोऽसि त्यक्त्वा वैकुण्ठमात्मनः ॥ २६ ॥
मया नियोजितस्त्वं हि साधुसंरक्षणाय च ।
निग्रहाय खलानां च स्वतन्त्रेण विहारिणा ॥ २७ ॥
सनत्कुमार उवाच
इत्याकर्ण्य महेशस्य वचनं गरुडध्वजः ।
प्रत्युवाच विनीतात्मा नतकःसाञ्जलिर्हरिः ॥ २८ ॥
विष्णुरुवाच
तवांशसम्भवत्वाच्च भ्रातृत्वाच्च तथा श्रियः ।
मया न निहतः सङ्‌ख्ये त्वमेनं जहि दानवम् ॥ २९ ॥
महाबलो महावीरो जेयःसर्वदिवौकसाम् ।
अन्येषां चापि देवेश सत्यमेतद्‌ ब्रवीम्यहम् ॥ ३० ॥
मया कृतो रणस्तेन चिरं देवान्वितेन वै ।
मदुपायो न प्रवृत्तस्तस्मिन्दानवपुङ्‌गवे ॥ ३१ ॥
तत्पराक्रमतस्तुष्टो वरं ब्रूहीत्यहं खलु ।
इति मद्वचनं श्रुत्वा स वव्रे वरमुत्तमम् ॥ ३२ ॥
मद्‌भगिन्या मया सार्द्धं मद्‌गेहे ससुरो वस ।
मदधीनो महाविष्णो इत्यहं तद्‌गृहं गतः ॥ ३३ ॥
सनत्कुमार उवाच
इति विष्णोर्वचः श्रुत्वा शकरः स महेश्वरः ।
विहस्योवाच सुप्रीतः सदयो भक्तवत्सलः ॥ ३४ ॥
महेश्वर उवाच
हे विष्णो सुरवर्य त्वं शृणु मद्वाक्यमादरात् ।
जलन्धरं महादैत्यं हनिष्यामि न संशयः ॥ ३५ ॥
स्वस्थानं गच्छ निर्भीतो देवा गच्छन्त्वपि ध्रुवम् ।
निर्भया वीतसन्देहा हतं मत्वाऽसुराधिपम् ॥ ३६ ॥
सनत्कुमार उवाच
इति श्रुत्वा महेशस्य वचनं स रमापतिः ।
सनिर्जरो जगामाशु स्वस्थानं गतसंशयः ॥ ३७ ॥
एतस्मिन्नन्तरे व्यास स दैत्येन्द्रोऽतिविक्रमः ।
सन्नद्धैरसुरैःसार्द्धं शैलप्रान्तं ययौ बली ॥ ३८ ॥
कैलासमवरुध्याथ महत्या सेनया युतः ।
सन्तस्थौ कालसङ्‌काशः कुर्वन्सिंहरवं महान् ॥ ३९ ॥
अथ कोलाहलं श्रुत्वा दैत्यनादसमुद्‌भवम् ।
चुक्रोधातिमहेशानो महालीलः खलान्तकः ॥ ४०
समादिदेश सङ्‌ख्याय स्वगणान्स महाबलान् ।
नन्द्यादिकान्महादेवो महोतिः कौतुकी हरः ॥ ४१ ॥
नन्दीभमुखसेनानीमुखाःसर्वे शिवाज्ञया ।
गणाश्च समनह्यन्त युद्धाया तित्वरान्विताः ॥ ४२ ॥
अवतेरुर्गणाः सर्वे कैलासात्क्रोधदुर्मदाः ।
वल्गतो रणशब्दांश्च महावीरा रणाय हि ॥ ४३ ॥
ततः समभवद्युद्धं कैलासोपत्यकासु वै ।
प्रमथाधिपदैत्यानां घोरं शस्त्रास्त्रसङ्‌कुलम् ॥ ४४ ॥
भेरीमृदङ्‌गशङ्‌खौघैर्निस्वानैर्वीरहर्षणैः ।
गजाश्वरथशब्दैश्च नादिता भूर्व्यकम्पत ॥ ४५ ॥
शक्तितोमरबाणौघैर्मुसलैः पाशपट्टिशैः ।
व्यराजत नभः पूर्णं मुक्ताभिरिव संवृतम् ॥ ४६ ॥
निहतैरिव नागाश्वैः पत्तिभिर्भूर्व्यराजत ।
वज्राहतैः पर्वतेन्द्रैः पूर्वमासीत्सुसंवृता ॥ ४७ ॥
प्रमथाहतदैत्यौघैर्दैत्याहतगणैस्तथा ।
वसासृङ्मांसपङ्‌काढ्या भूरगम्याभवत्तदा ॥ ४८ ॥
प्रमथाहतदैत्यौघान्भार्गवः समजीवयत् ।
युद्धे पुनः पुनश्चैव मृतसञ्जीवनी बलात् ॥ ४९ ॥
दृष्ट्‍वा व्याकुलितांस्तांस्तु गणाः सर्वे भयार्दिताः ।
शशंसुर्देवदेवाय सर्वे शुक्रविचेष्टितम् ॥ ५० ॥
तच्छ्रुत्वा भगवान् रुद्रश्चकार क्रोधमुल्बणम् ।
भयङ्‌करोऽतिरौद्रश्च बभूव प्रज्वलन्दिशः ॥ ५१ ॥
अथ रुद्रमुखात्कृत्या बभूवातीवभीषणा ।
तालजङ्‌घोदरी वक्त्रा स्तनापीडितभूरुहा ॥ ५२ ॥
सा युद्धभूमिं तरसा ससाद मुनिसत्तम ।
विचचार महाभीमा भक्षयन्ती महासुरान् ॥ ५३ ॥
अथ सा रणमध्ये हि जगाम गतभीर्द्रुतम् ।
यत्रास्ते संवृतो दैत्यवरेन्द्रैःस हि भार्गवः ॥ ५४ ॥
स्वतेजसा नभो व्याप्य भूमिं कृत्वा च सा मुने ।
भार्गवं स्वभगे धृत्वा जगामान्तर्हिता नभः ॥ ५५ ॥
विद्रुतं भार्गवं दृष्ट्‍वा दैत्यसैन्यगणास्तथा ।
प्रम्लानवदना युद्धान्निर्जग्मुर्युद्धदुर्मदाः ॥ ५६ ॥
अथोऽभज्यत दैत्यानां सेना गणभयार्दिता ।
वायुवेगहता यद्वत्प्रकीर्णा तृणसंहतिः ॥ ५७ ॥
भग्नां गणभयाद्दैत्यसेनां दृष्ट्‍वातिमर्षिताः ।
निशुम्भशुम्भौ सेनान्यौ कालनेमिश्च चुक्रुधुः ॥ ५८ ॥
त्रयस्ते वरयामासुर्गणसेनां महाबलाः ।
मुञ्चन्तः शरवर्षाणि प्रावृषीव बलाहकाः ॥ ५९ ॥
ततो दैत्यशरौघास्ते शलभानामिव व्रजाः ।
रुरुधुः खं दिशःसर्वा गणसेनामकम्पयन् ॥ ६० ॥
गणाश्शरशतैर्भिन्ना रुधिरासारवर्षिणः ।
वसन्तकिंशुकाभासा न प्राजानन्हि किञ्चन ॥ ६१ ॥
ततः प्रभग्नं स्वबलं विलोक्य
     नन्द्यादिलम्बोदरकार्त्तिकेयाः ।
त्वरान्विता दैत्यवरान्प्रसह्य
     निवारयामासुरमर्षणास्ते ॥ ६२ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने
सामान्यगणासुरयुद्धवर्णनं नाम विंशोऽध्यायः ॥ २० ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP