|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
एकोनविंशोऽध्यायः
जलन्धरवधोपाख्याने दूतसंवादः
व्यास उवाच
सनत्कुमार सर्वज्ञ नारदे हि गते दिवि । दैत्यराट् किमकार्षीत्स तन्मे वद सुविस्तरात् ॥ १ ॥ सनत्कुमार उवाच तमामन्त्र्य गते दैत्यं नारदे दिवि दैत्यराट् । तद् रूपश्रवणादासीदनङ्गज्वरपीडितः ॥ २ ॥ अथो जलन्धरो दैत्यः कालाधीनः प्रनष्टधीः । दूतमाह्वाय यामास सैंहिकेयं विमोहितः ॥ ३ ॥ आगतं तं समालोक्य कामाक्रान्तमनाः स हि । सुसम्बोध्य समाचष्ट सिन्धुपुत्रो जलन्धरः ॥ ४ ॥ जलन्धर उवाच भोभो दूतवरश्रेष्ठ सर्वकार्यप्रसाधक । सैंहिकेय महाप्राज्ञ कैलासं गच्छ पर्वतम् ॥ ५ ॥ तत्रास्ति योगी शम्भ्वाख्य स्तपस्वी च जटाधरः । भस्मभूषितसर्वाङ्गो विरक्तो विजितेन्द्रियः ॥ ६ ॥ तत्र गत्वेति वक्तव्यं योगिनं दूत शंकरम् । जटाधरं विरक्तं तं निर्भयेन हृदा त्वया ॥ ७ ॥ हे योगिंस्ते दयासिन्धो जायारत्नेन किं भवेत् । भूतप्रेतपिशाचादिसेवितेन वनौकसा ॥ ८ ॥ मन्नाथे भुवने योगिन्नोचिता गतिरीदृशी । जायारत्नमतस्त्वं मे देहि रत्नभुजे निजम् ॥ ९ ॥ यानियानि सुरत्नानि त्रैलोक्ये तानि सन्ति मे । मदधीनं जगत्सर्वं विद्धि त्वं सचराचरम् ॥ १० ॥ इन्द्रस्य गजरत्नं चोच्चैःश्रवोरत्नमुत्तमम् । बलाद्गृहीतं सहसा पारिजा ततरुस्तथा ॥ ११ ॥ विमानं हंससंयुक्तमङ्गणे मम तिष्ठति । रत्नभूतं महादिव्यमुत्तमं वेधसोद्भुतम् ॥ १२ ॥ महापद्मादिकं दिव्यं निधिरत्नं स्वदस्य च । छत्रं मे वारुणं गेहे काञ्चनस्रावि तिष्ठति ॥ १३ ॥ किञ्जल्किनी महामाला सर्वदाऽम्लानपङ्कजा । मत्पितुःसा ममैवास्ति पाशश्च कम्पतेस्तथा ॥ १४ ॥ मृत्योरुत्क्रान्तिदा शक्तिर्मया नीता बलाद्वरा । ददौ मह्यं शुचिर्दिव्ये शुचिशौचे च वाससी ॥ ।१५ ॥ एवं योगीन्द्र रत्नानि सर्वाणि विलसन्ति मे । अतस्त्वमपि मे देहि स्वस्त्रीरत्नं जटाधर ॥ १६ ॥ सनत्कुमार उवाच इति श्रुत्वा वचस्तस्य नन्दिना स प्रवेशितः । जगामोग्रसभां राहुर्विस्मयोद्भुतलोचनः ॥ १७ ॥ तत्र गत्वा शिवं साक्षाद्देवदेवं महाप्रभुम् । स्वतेजोध्वस्ततमसं भस्मलेपविराजितम् ॥ १८ ॥ महाराजोपचारेण विलसन्तं महाद्भुतम् । सर्वाङ्गसुन्दरं दिव्यभूषणैर्भूषितं हरम् ॥ १९ ॥ प्रणनाम च तं गर्वात्तत्तेजः क्रान्तविग्रहः । निकटं गतवाञ्छम्भोः स दूतो राहुसञ्ज्ञकः ॥ २० ॥ अथो तदग्र आसीनो वक्तुकामो हि सैंहिकः । त्र्यम्बकं स तदा सञ्ज्ञाप्रेरितो वाक्यमब्रवीत् ॥ २१ ॥ दैत्यपन्नगसेव्यस्य त्रैलोक्याधिपतेःसदा । दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ॥ २२ ॥ राहुरुवाच जलन्धरोब्धितनयःसर्वदैत्यजनेश्वरः ॥ ऽ त्रैलोक्यस्येश्वरः सोथाभवत्सर्वाधिनायकः ॥ २३ ॥ स दैत्यराजो बलवान्देवानामन्तकोपमः । योगिनं त्वां समुद्दिश्य स यदाह शृणुष्व तत् ॥ २४ ॥ महादिव्यप्रभावस्य तस्य दैत्यपतेः प्रभोः । सर्वरत्नेश्वरस्य त्वमाज्ञां शृणु वृषध्वज ॥ २५ ॥ श्मशानवासिनो नित्यमस्थिमालाधरस्य च । दिगम्बरस्य ते भार्या कथं हैमवती शुभम् ॥ २६ ॥ अहं रत्नाधिनाथोस्मि सा च स्त्रीरत्नसञ्ज्ञिता । तस्मान्ममैव सा योग्या नैव भिक्षाशिनस्तव ॥ २७ ॥ मम वश्यास्त्रयो लोका भुञ्जेऽहं मखभागकान् । यानि सन्ति त्रिलोकेस्मिन् रत्नानि मम सद्मनि ॥ २८ ॥
वयं रत्नभुजस्त्वं तु योगी खलु दिगम्बरः । स्वस्त्रीरत्नं देहि मह्यं राज्ञः सुखकराः प्रजाः ॥ २९ ॥ सनत्कुमार उवाच वदत्येवं तथा राहौ भ्रूमध्याच्छूलपाणिनः । अभवत्पुरुषो रौद्रस्तीव्राशनिसमस्वनः ॥ ३० ॥ सिंहास्यप्रचलजिह्वः सज्ज्वालनयनो महान् । ऊर्ध्वकेशः शुष्कतनुर्नृसिंह इव चापरः ॥ ३१ ॥ महातनुर्महाबाहुस्तालजङ्घो भयङ्करः । अभिदुद्राव वेगेन राहुं स पुरुषो द्रुतम् ॥ ३२ ॥ स तं खादितु मायान्तं दृष्ट्वा राहुर्भयातुरः । अधावदात वेगेन बहिस्तस्य च दधार तम् ॥ ३३ ॥ राहुरुवाच देवदेव महेशान पाहि मां शरणा गतम् । सुराऽसुरैः सदा वन्द्यः परमैश्वर्यवान् प्रभुः ॥ ३४ ॥ ब्राह्मणं मां महादेव खादितुं समुपागतः । पुरुषोयं तवेशान सेवकोतिभयङ्करः ॥ ३५ ॥ एतस्माद्रक्ष देवेश शरणागतवत्सलः । न खादेत यथायं मां नमस्तेऽस्तु मुहुर्मुहुः ॥ ३६ ॥ सनत्कुमार उवाच महादेवो वचः श्रुत्वा ब्राह्मणस्य तदा मुने । अब्रवीत्स्वगणं तं वै दीनानाथप्रियः प्रभुः ॥ ३७ ॥ महादेव उवाच प्रभुं च ब्राह्मणं दूतं राह्वाख्यं शरणागतम् । शरण्या रक्षणीया हि न दण्ड्या गणसत्तम ॥ ३८ ॥ सनत्कुमार उवाच इत्युक्तौ गिरिजेशेन सगणः करुणात्मना । राहुं तत्याज सहसा ब्राह्मणेति श्रुताक्षरः ॥ ३९ ॥ राहुं त्यक्त्वाम्बरे सोथ पुरुषो दीनया गिरा । शिवोपकण्ठमागत्य महादेवं व्यजिज्ञपत् ॥ ४० ॥ पुरुष उवाच देवदेव महादेव करुणाकर शंकर । त्याजितं मम भक्ष्यं ते शरणागतवत्सलः ॥ ४१ ॥ क्षुधा मां बाधते स्वामिन्क्षुत्क्षामश्चास्मि सर्वथा । किं भक्ष्यं मम देवेश तदाज्ञापय मां प्रभो ॥ ४२ ॥ सनत्कुमार उवाच इत्याकर्ण्य वचस्तस्य पुरुषस्य महाप्रभुः । प्रत्युवाचाद्भुतोतिः स कौतुकी स्वहितङ्करः ॥ ४३ ॥ महेश्वर उवाच बुभुक्षा यदि तेऽतीव क्षुधा त्वां बाधते यदि । सम्भक्षयात्मनः शीघ्रं मांसं त्वं हस्तपादयोः ॥ ४४ ॥ सनत्कुमार उवाच शिवेनैवमाज्ञप्तश्चखाद पुरुषः स्वकम् । हस्तपादोद्भवं मांसं शिरः शेषोऽभवद्यथा ॥ ४५ ॥ दृष्ट्वा शिरोवशेषं तु सुप्रसन्नःसदाशिवः । पुरुषं भीमकर्माणं तमुवाच सविस्मयः ॥ ४६ ॥ शिव उवाच हे महागण धन्यस्त्वं मदाज्ञाप्रतिपालकः । सन्तुष्टश्चास्मि तेऽतीव कर्मणानेन सत्तम ॥ ४७ ॥ त्वं कीर्तिमुखसञ्ज्ञो हि भव मद्द्वारकः सदा । महागणो महावीरः सर्वदुष्टभयङ्करः ॥ ४८ ॥ मत्प्रियस्त्वं मदर्चायां सदा पूज्योऽहि मज्जनैः । त्वदर्चां ये न कुर्वन्ति नैव ते मत्प्रियङ्कराः ॥ ४९ ॥ सनत्कुमार उवाच इति शम्भोर्वरं प्राप्य पुरुषः प्रजहर्ष सः । तदाप्रभृति देवेश द्वारे कीर्तिमुखः स्थितः ॥ ५० ॥ पूजनीयो विशेषेण स गणःशिवपूजने । नार्चयन्तीह ये पूर्वं तेषामर्चा वृथा भवेत् ॥ ५१ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने दूतसंवादो नाम एकोनविंशोऽध्यायः ॥ १९ ॥ श्रीगौरीशंकरार्पणमस्तु |