॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

अष्टदशोऽध्यायः


जलन्धरवधोपाख्याने देवर्षिजलन्धरसंवादः


सनत्कुमार उवाच
एवं शासति धर्मेण महीं तस्मिन्महासुरे ।
बभूवुर्दुःखिनो देवा भ्रर्त्र्यभावान्मुनीश्वर ॥ १ ॥
दुःखितास्ते सुराः सर्वे शिवं शरणमाययुः ।
मनसा शंकरं देवदेवं सर्वप्रभुं प्रभुम् ॥ २ ॥
तुष्टुवुर्वाग्भिरिष्टाभिर्भगवन्तं महेश्वरम् ।
निवृत्तये स्वदुःखस्य सर्वदं भक्तवत्सलम् ॥ ३ ॥
आहूय स महादेवो भक्तानां सर्वकामदः । ॥
नारदं प्रेरयामास देवकार्यचिकीर्षया । ४ ॥
अथ देवमुनिर्ज्ञानी शम्भुभक्तः सतां गतिः ।
शिवाज्ञया ययौ दैत्यपुरे देवान्स नारदः ॥ ५ ॥
व्याकुलास्ते सुराः सर्वे वासवाद्या द्रुतं मुनिम् ।
आगच्छन्तं समालोक्य समुत्तस्थुर्हि नारदम् ॥ ६ ॥
ददुस्त आसनं नत्त्वा मुनये प्रीतिपूर्वकम् ।
नारदाय सुराः शक्रमुखा उत्कण्ठिताननाः ॥ ७ ॥
सुखासीनं मुनिवरमासने सुप्रणम्य तम् ।
पुनः प्रोचुः सुरा दीना वासवाद्या मुनीश्वरम् ॥ ८ ॥
देवा ऊचुः
भो भो मुनिवरश्रेष्ठ दुःखं शृणु कृपाकर ।
श्रुत्वा तन्नाशय क्षिप्रं प्रभुस्त्वं शंकरप्रियः ॥ ९ ॥
जलन्धरेण दैत्येन सुरा विद्राविता भृशम् ।
स्वस्थानाद्‌भर्तृभावाच्च दुःखिता वयमाकुलाः ॥ १० ॥
स्वस्थानादुष्णरश्मिश्च चन्द्रो निःसारितस्तथा ।
वह्निश्च धर्मराजश्च लोकपालास्तथेतरे ॥ ११ ॥
सुबलिष्ठेन वै तेन सर्वे देवाः प्रपीडिताः ।
दुःखं प्राप्ता वयं चाति शरणं त्वां समागताः ॥ १२ ॥
सङ्‌ग्रामे स हृषीकेशं स्ववशं कृतवान् बली ।
जलन्धरो महादैत्यः सर्वामरविमर्दकः ॥ १३ ॥
तस्य वश्यो वराधीनोऽवात्सीत्तत्सदने हरिः ।
सलक्ष्म्या सहितो विष्णुर्यो नः सर्वार्थसाधकः ॥ १४ ॥
जलन्धरविनाशाय यत्नं कुरु महामते ।
त्वं नो दैववशात्प्राप्तः सदा सर्वार्थसाधकः ॥ १५ ॥
सनत्कुमार उवाच
इत्याकर्ण्य वचस्तेषाममराणां स नारदः ।
आश्वास्य मुनिशार्दूलस्तानुवाच कृपाकरः ॥ १६ ॥
नारद उवाच
जानेऽहं वै सुरा यूयं दैत्यराजपराजिताः ।
दुःख प्राप्ताः पीडिताश्च स्थानान्निःसारिताः खलुः ॥ १७ ॥
स्वशक्त्या भवतां स्वार्थं करिष्ये नात्र संशयः ।
अनुकूलोऽहमिह वो दुःखं प्राप्ता यतो ऽमराः ॥ १८ ॥
सनत्कुमार उवाच
एवमुक्त्वा मुनिश्रेष्ठ द्रष्टुं दानववल्लभम् ।
आश्वास्य सकलान्देवाञ्जलन्धरसभां ययौ ॥ १९ ॥
अथागतं मुनिश्रेष्ठं दृष्ट्‍वा देवो जलन्धरः ।
उत्थाय परया भक्त्या ददौ श्रेष्ठासनं वरम् ॥ २० ॥
स तं सम्पूज्य विधिवद्दानवेन्द्रोऽति विस्मितः ।
सुप्रहस्य तदा वाक्यं जगाद मुनिसत्तमम् ॥ २१ ॥
जलन्धर उवाच
कुत आगम्यते ब्रह्मन् किं च दृष्टं त्वया क्वचित् ।
यदर्थमिह आयातस्तदाज्ञापय मां मुने ॥ २२ ॥
सनत्कुमार उवाच
इत्याकर्ण्य वचस्तस्य दैत्येन्द्रस्य महामुनिः ।
प्रत्युवाच प्रसन्नात्मा नारदो हि जलन्धरम् ॥ २३ ॥
नारद उवाच
सर्वदानवदैत्येन्द्र जलन्धर महामते ।
धन्यस्त्वं सर्वलोकेश रत्नभोक्ता त्वमेव हि ॥ २४ ॥
मदागमनहेतुं वै शृणु दैत्येन्द्रसत्तम ।
यदर्थमिह चायातस्त्वहं वक्ष्येखिलं हि तत् ॥ २५ ॥
गतः कैलासशिखरं दैत्येन्द्राहं यदृच्छया ।
योजनायुतविस्तीर्णं कल्पद्रुममहावनम् ॥ २६ ॥
कामधेनुशताकीर्णं चिन्तामणिसुदीपितम् ।
सर्वरुक्ममयं दिव्यं सर्वत्राद्‌भुतशोभितम् ॥ २७ ॥
तत्रोमया सहासीनं दृष्टवानस्मि शंकरम् ।
सर्वाङ्‌गसुन्दरं गौरं त्रिनेत्रं चन्द्रशेखरम् ॥ २८ ॥
तं दृष्ट्‍वा महदाश्चर्यं वितर्को मेऽभवत्तदा ।
क्वापीदृशी भवेद् वृद्धिस्त्रैलोक्ये वा न वेति च ॥ २९ ॥
तावत्तवापि दैत्येन्द्र समृद्धिः संस्मृता मया ।
तद्विलोकनकामोऽहं त्वत्सांनिध्यमिहा गतः ॥ ३० ॥
सनत्कुमार उवाच
इति नारदतः श्रुत्वा स दैत्येन्द्रो जलन्धरः ।
स्वसमृद्धिं समग्रां वै दर्शयामास सादरम् ॥ ३१ ॥
दृष्ट्‍वा स नारदो ज्ञानी देवकार्यसुसाधकः ।
प्रभुप्रेरणया प्राह दैत्येन्द्रं तं जलन्धरम् ॥ ३२ ॥
नारद् उवाच
तवास्ति सुसमृद्धिर्हि वरवीर खिलाधुना ।
त्रैलोक्यस्य पतिस्त्वं हि चित्रं किं चात्र सम्भवम् ॥ ३३ ॥
मणयो रत्नपुञ्जाश्च गजाद्याश्च समृद्धयः ।
ते गृहेऽद्य विभान्तीह यानि रत्नानि तान्यपि ॥ ३४ ॥
गजरत्नं त्वयानीतं शक्रस्यैरावतस्तथा ।
अश्वरत्नं महावीर सूर्यस्योच्चैःश्रवा हयः ॥ ३५ ॥
कल्पवृक्षस्त्वयानीतो निधयो धनदस्य च ।
हंसयुक्तविमानं च त्वयानीतं हि वेधसः ॥ ३६ ॥
इत्येवं वररत्नानि दिवि पृथ्व्यां रसातले ।
यानि दैत्येन्द्र ते भान्ति गृहे तानि समस्ततः ॥ ३७ ॥
त्वत्समृद्धिमिमां पश्यन्सम्पूर्णां विविधामहम् ।
प्रसन्नोऽस्मि महावीर गजाश्वादिसुशोभिताम् ॥ ३८ ॥
जायारत्नं महाश्रेष्ठं जलन्धर न ते गृहे ।
तदानेतुं विशेषेण स्त्रीरत्नं वै त्वमर्हसि ॥ ३९ ॥
यस्य गेहे सुरत्नानि सर्वाणि हि जलन्धर ।
जायारत्नं न चेत्तानि न शोभन्ते वृथा ध्रुवम् ॥ ४० ॥
सनत्कुमार उवाच
इत्येवं वचनं श्रुत्वा नारदस्य महात्मनः ।
उवाच दैत्यराजो हि मदनाकुलमानसः ॥ ४१ ॥
जलन्धर उवाच
भो भो नारद देवर्षे नमस्तेस्तु महाप्रभो ।
जायारत्नवरं कुत्र वर्तते तद्वदाधुना ॥ ४२ ॥
ब्रह्माण्डे यत्र कुत्रापि तद्‌रत्नं यदि वर्त्तते ।
तदानेष्ये ततो ब्रह्मन्सत्यं सत्यं न संशयः ॥ ४३ ॥
नारद उवाच
कैलासे ह्यतिरम्ये च सर्वद्धिसुसमाकुले ।
योगिरूपधरः शम्भुरस्ति तत्र दिगम्बरः ॥ ४४ ॥
तस्य भार्या सुरम्या हि सर्वलक्षणलक्षिता ।
सर्वाङ्‌गसुन्दरी नाम्ना पार्वतीति मनोहरा ॥ ४५ ॥
तदीदृशं रूपमनन्यसङ्‌गतं
    दृष्टं न कुत्रापि कुतूहलाढ्यम् ।
अत्यद्‌भुतं मोहनकृत्सुयोगिनां
    सुदर्शनीयं परमर्द्धिकारि ॥ ४६ ॥
स्वचित्ते कल्पयाम्यद्य शिवादन्यः समृद्धिवान् ।
जायारत्नान्विताद्वीर त्रिलोक्या न जलन्धर ॥ ४७ ॥
यस्या लावण्यजलधौ निमग्नश्चतुराननः ।
स्वधैर्य्यं मुमुचे पूर्वं तया कान्योपमीयते ॥ ४८ ॥
गतरागोऽपि हि यया मदनारिः स्वलीलया ।
निजतन्त्रोऽपि यतः स स्वात्म वशगः कृतः ॥ ४९ ॥
यथा स्त्रीरत्नसम्भोक्तुः समृद्धिस्तस्य साभवत् ।
तथा न तव दैत्येन्द्र सर्वरत्नाधिपस्य च ॥ ५० ॥
सनत्कुमार उवाच
इत्युक्त्वा स तु देवर्षिर्नारदो लोकविश्रुतः ।
ययौ विहायसा देवोपकारकरणोद्यतः ॥ ५१ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने
देवर्षिजलन्धरसंवादो नामाष्टदशोऽध्यायः ॥ १८ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP