॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

षोडशोऽध्यायः


देवयुद्धवर्णनम्


सनत्कुमार उवाच
पुनर्दैत्यं समायान्तं दृष्ट्‍वा देवाः सवासवाः ।
भयात्प्रकम्पिताः सर्वे सहैवादुद्रुवुर्द्रुतम् ॥ १ ॥
वैकुण्ठं प्रययुः सर्वे पुरस्कृत्य प्रजापतिम् ।
तुष्टुवुस्ते सुरा नत्वा सप्रजापतयोऽखिलाः ॥ २ ॥
देवा ऊचुः
हृषीकेश महाबाहो भगवन् मधुसूदन ।
नमस्ते देवदेवेश सर्वदैत्यविनाशक ॥ ३ ॥
मत्स्यरूपाय ते विष्णो वेदान्नीतवते नमः ।
सत्यव्रतेन सद्‌राज्ञा प्रलयाब्धिविहारिणे ॥ ४ ॥
कुर्वाणानां सुराणां च मथनायोद्यमं भृशम् ।
बिभ्रते मन्दरगिरिं कूर्मरूपाय ते नमः ॥ ५ ॥
नमस्ते भगवन्नाथ क्रतवे सूकरात्मने ।
वसुन्धरां जनाधारां मूर्द्धतो बिभ्रते नमः ॥ ६ ॥
वामनाय नमस्तुभ्यमुप्रेन्द्राख्याय विष्णवे ।
विप्ररूपेण दैत्येन्द्रं बलिं छलयते विभो ॥ ७ ॥
नमः परशुरामाय क्षत्रनिःक्षत्रकारिणे ।
मातुर्हितकृते तुभ्यं कुपितायासतां द्रुहे ॥ ८ ॥
रामाय लोकरामाय मर्यादापुरुषाय ते ।
रावणान्तकरायाशु सीतायाः पतये नमः ॥ ९ ॥
नमस्ते ज्ञानगूढाय कृष्णाय परमात्मने ।
राधाविहारशीलाय नानालीलाकराय च ॥ १० ॥
नमस्ते गूढदेहाय वेदनिन्दाकराय च ।
योगाचार्याय जैनाय बौद्धरूपाय मापते ॥ ११ ॥
नमस्ते कल्किरूपाय म्लेच्छानामन्तकारिणे ।
अनन्तशक्तिरूपाय सद्धर्मस्थापनाय च ॥ १२
नमस्ते कपिलरूपाय देवहूत्यै महात्मने ।
वदते साङ्‌ख्ययोगं च साङ्‌ख्याचार्याय वै प्रभो ॥ १३ ॥
नमः परमहंसाय ज्ञानं संवदते परम् ।
विधात्रे ज्ञानरूपाय येनात्मा सम्प्रसीदति ॥ १४ ॥
वेदव्यासाय वेदानां विभागं कुर्वते नमः ।
हिताय सर्वलोकानां पुराणरचनाय च ॥ १५ ॥
एवं मत्स्यादितनुभिर्भक्तकार्योद्यताय ते ।
सर्गस्थितिध्वंसकर्त्रे नमस्ते ब्रह्मणे प्रभो ॥ १६ ॥
आर्तिहन्त्रे स्वदासानां सुखदाय शुभाय च ।
पीताम्बराय हरये तार्क्ष्ययानाय ते नमः ॥
सर्वक्रियायैककर्त्रे शरण्याय नमोनमः । १७ ॥
दैत्यसन्तापितामर्त्य दुःखादिध्वंसवज्रक ।
शेषतल्पशयायार्कचन्द्रनेत्राय ते नमः ॥ १८ ॥
कृपासिन्धो रमानाथ पाहि नः शरणागतान् ।
जलन्धरेण देवाश्च स्वर्गात्सर्वे निराकृताः ॥ १९ ॥
सूर्यो निःसारितः स्थानाच्चन्द्रो वह्निस्तथैव च ।
पातालान्नागराजश्च धर्मराजो निराकृतः ॥ २० ॥
विचरन्ति यथा मर्त्याश्शोभन्ते नैव ते सुराः ।
शरणं ते वयं प्राप्ता वधस्तस्य विचिन्त्यताम् ॥ २१ ॥
सनत्कुमार उवाच
इति दीनवचश्श्रुत्वा देवानां मधुसूदनः ।
जगाद करुणासिन्धुर्मेघनिर्ह्रादया गिरा ॥ २२ ॥
विष्णुरुवाच
भयं त्यजत हे देवा गमिष्याम्यहमाहवम् ।
जलन्धरेण दैत्येन करिष्यामि पराक्रमम् ॥ २३ ॥
इत्युक्त्वा सहसोत्थाय दैत्यारिः खिन्नमानसः ।
आरोहद्‌गरुडं वेगात्कृपया भक्तवत्सलः ॥ २४ ॥
गच्छन्तं वल्लभं दृष्ट्‍वा देवैःसार्द्धं समुद्रजा ।
साञ्जलिर्बाष्पनयना लक्ष्मीर्वचनमब्रवीत् ॥ २५ ॥
लक्ष्म्युवाच
अहं ते वल्लभा नाथ भक्ता यदि च सर्वदा ।
तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे ॥ २६ ॥
विष्णुरुवाच
जलन्धरेण दैत्येन करिष्यामि पराक्रमम् ।
तैःसंस्तुतो गमिष्यामि युद्धाय त्वरितान्वितः ॥ २७ ॥
रुद्रांशसम्भवत्वाच्च ब्रह्मणो वचनादपि ।
प्रीत्या च तव नैवायं मम वध्यो जलन्धरः ॥ २८ ॥
सनत्कुमार उवाच
इत्युक्त्वा गरुडारूढः शङ्‌खचक्रगदासिभृत् ।
विष्णुर्वेगाद्ययौ योद्धुं देवैः शक्रादिभिः सह ॥ २९ ॥
द्रुतं स प्राप तत्रैव यत्र दैत्यो जलन्धरः ।
कुर्वन् सिंहरवं देवैर्ज्वलद्‌भिर्विष्णुतेजसा ॥ ३० ॥
अथारुणानुजजवपक्षवातप्रपीडिताः ।
वात्याविवर्तिता दैत्या बभ्रमुः खे यथा घनाः ॥ ३१ ॥
ततो जलन्धरो दृष्ट्‍वा दैत्यान् वात्याप्रपीडितान् ।
उद्धृत्य वचनं क्रोधाद् द्रुतं विष्णुं समभ्यगात् ॥ ३२ ॥
एतस्मिन्नन्तरे देवाश्चक्रुर्युद्धं प्रहर्षिताः ।
तेजसा च हरेः पुष्टा महाबलसमन्विताः ॥ ३३ ॥
युद्धोद्यतं समालोक्य देवसैन्यमुपस्थितम् ।
दैत्यानाज्ञापयामास समरे चातिदुर्मदान् ॥ ३४ ॥
जलन्धर उवाच
भोभो दैत्यवरा यूयं युद्धं कुरुत दुस्तरम् ।
शक्राद्यैरमरैरद्य प्रबलैः कातरैः सदा ॥ ३५ ॥
मौर्यास्तु लक्षसङ्‌ख्याता धौम्रा हि शतसङ्‌ख्यकाः ।
असुराः कोटिसङ्‌ख्याताः कालकेयास्तथैव च ॥ ३६ ॥
कालकानां दौर्हृदानां कङ्‌कानां लक्षसङ्‌ख्यया ।
अन्येऽपि स्वबलैर्युक्ता विनिर्यान्तु ममाज्ञया ॥ ३७ ॥
सर्वे सज्जा विनिर्यात बहुसेनाभिसंयुताः ।
नानाशस्त्रास्त्रसंयुक्ता निर्भयाः गतसंशयाः ॥ ३८ ॥
भो भो शुम्भनिशुम्भौ च देवान्समरकातरान् ।
क्षणेन सुमहावीर्यौ तुच्छान्नाशयतं युवाम् ॥ ३९ ॥
सनत्कुमार उवाच
दैत्या जलन्धराज्ञप्ता इत्थं युद्धविशारदाः ।
युयुधुस्ते सुराःसर्वे चतुरङ्‌गबलान्विताः ॥ ४० ॥
गदाभिस्तीक्ष्णबाणैश्च शूलपट्टिशतोमरैः ।
केचित्परशुशूलैश्च निजघ्नुस्ते परस्परम् ॥ ४१ ॥
नानायुधैश्च परैस्तत्र निजघ्नुस्ते बलान्विता ।
देवास्तथा महावीरा हृषीकेशबलान्विताः ॥
युयुधुस्तीक्ष्णबाणाश्च क्षिपन्तः सिंहवद्रवाः । ४२ ॥
केचिद्‌बाणैस्तु तीक्ष्णैश्च केचिन्मुसलतोमरैः ।
केचित्परशुशूलैश्च निजघ्नुस्ते परस्परम् ॥ ४३ ॥
इत्थं सुराणां दैत्यानां सङ्‌ग्रामः समभून्महान् ।
अत्युल्बणो मुनीनां हि सिद्धानां भयकारकः ॥ ४४ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे
युद्धखण्डे देवयुद्धवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP