|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
पञ्चदशोऽध्यायः
जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनम्
सनत्कुमार उवाच
एकदा वारिधिसुतो वृन्दापति रुदारधीः । सभार्यःसंस्थितो वीरोऽसुरैः सर्वैः समन्वितः ॥ १ ॥ तत्राजगाम सुप्रीतः सुवर्चास्त्वथ भार्गवः । तेजःपुञ्जो मूर्त इव भासयन्सकला दिशः ॥ २ ॥ तं दृष्ट्वा गुरुमायान्तमसुरास्तेऽखिला द्रुतम् । प्रणेमुः प्रीतमनसःसिन्धुपुत्रोऽपि सादरम् ॥ ३ ॥ दत्त्वाशीर्वचनं तेभ्यो भार्गवस्तेजसां निधिः । निषसादासने रम्ये सन्तस्थुस्तेऽपि पूर्ववत् ॥ ४ ॥ अथ सिन्ध्वात्मजो वीरो दृष्ट्वा प्रीत्या निजां सभाम् । जलन्धरः प्रसन्नोऽभूदनष्टवरशासनः ॥ ५ ॥ तत्स्थितं छिन्नशिरसं दृष्ट्वा राहुं स दैत्यराट् । पप्रच्छ भार्गवं शीघ्रमिदं सागरनन्दनः ॥ ६ ॥ जलन्धर उवाच केनेदं विहितं राहोः शिरच्छेदनकं प्रभो । तद्ब्रूहि निखिलं वृत्तं यथावत्तत्त्वतो गुरो ॥ ७ ॥ सनत्कुमार उवाच इत्याकर्ण्य वचस्तस्य सिन्धुपुत्रस्य भार्गवः । स्मृत्वा शिवपदाम्भोजं प्रत्युवाच यथार्थवत् ॥ ८ ॥ शुक्र उवाच जलन्धर महावीर सर्वासुरसहायक । शृणु वृत्तान्तमखिलं यथावत्कथयामि ते ॥ ९ ॥ पुराभवद्बलिर्वीरो विरोचनसुतो बली । हिरण्यकशिपोश्चैव प्रपौत्रो धर्मवित्तमः ॥ १० ॥ पराजिताः सुरास्तेन रमेशं शरणं ययुः । सवासवाः स्ववृत्तान्तमाचख्युः स्वार्थसाधकाः ॥ ११ ॥ तदाज्ञयाऽसुरैः सार्द्धं चक्रुःसन्धिमथो सुराः । स्वकार्यसिद्धये तात छलकर्मविचक्षणाः ॥ १२ ॥ अथामृतार्थे सिन्धोश्च मंथनं चक्रुरादरात् । विष्णोः सहायिनस्ते हि सुराः सर्वेऽसुरैः सह ॥ १३ ॥ ततो रत्नोपहरणमकार्षुर्दैत्यशत्रवः । जगृहुर्यत्नतो देवाः पपुरप्यमृतं छलात् ॥ १४ ॥ ततः पराभवं चक्रुरसुराणां सहायतः । विष्णोः सुराः सशक्रास्तेऽमृतापानाद्बलान्विताः ॥ १५ ॥ शिरश्छेदं चकारासौ पिबतश्चामृतं हरिः । राहोर्देवसभां हि पक्षपाती हरेः सदा ॥ १६ ॥ सनत्कुमार उवाच एवं कविस्तस्य शिरश्छेदं राहोः शशंस च । अमृतार्थे समुद्रस्य मंथनं देवकारितम् ॥ १७ ॥ रत्नोपहरणं चैव दैत्यानां च पराभवम् । देवैरमृतपानं च कृतं सर्वं च विस्तरात् ॥ १८ ॥ तदाकर्ण्य महावीरोम्बुधिबालः प्रतापवान् । चुक्रोध क्रोधरक्ताक्षःस्वपितुर्मंथनं तदा ॥ १९ ॥ अथ दूतं समाहूय घस्मराभिधमुत्तमम् । सर्वं शशंस चरितं यदाह गुरुरात्मवान् ॥ २० ॥ अथ तं प्रेषयामास स्वदूतं शक्रसन्निधौ । संमान्य बहुशः प्रीत्याऽभयं दत्त्वा विशारदम् ॥ २१ ॥ दूतस्त्रिविष्टपं तस्य जगामारमलं सुधीः । घस्मरोंऽबुधिबालस्य सर्वदेवसमन्वितम् ॥ २२ ॥ तत्र गत्वा स दूतस्तु सुधर्मां प्राप्य सत्वरम् । गर्वादखर्वमौलिर्हि देवेन्द्रं वाक्यमब्रवीत् ॥ २३ ॥ घस्मर उवाच जलन्धरोऽब्धितनयः सर्वदैत्यजनेश्वरः । सुप्रतापी महावीरः स्वयं कविसहायवान् ॥ २४ ॥ दूतोऽहं तस्य वीरस्य घस्मराख्यो न घस्मरः । प्रेषितस्तेन वीरेण त्वत्सकाशमिहागतः ॥ २५ ॥ अव्याहताज्ञः सर्वत्र जलन्धर उदग्रधीः । निर्जिताखिलदैत्यारिः स यदाह शृणुष्व तत् ॥ २६ ॥ जलन्धर उवाच कस्मात्त्वया मम पिता मथितः सागरोऽद्रिणा । नीतानि सर्वरत्नानि पितुर्मे देवताधम ॥ २७ ॥ उचितं न कृतं तेऽद्य तानि शीघ्रं प्रयच्छ मे । ममायाहि विचार्येत्थं शरणं दैवतैः सह ॥ २८ ॥ अन्यथा ते भयं भूरि भविष्यति सुराधम । राज्यविध्वंसनं चैव सत्यमेतद्ब्रवीम्यहम् ॥ २९ ॥ सनत्कुमार उवाच इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः । उवाच तं स्मरन्निन्द्रो भयरोषसमन्वितः ॥ ३० ॥ अद्रयो मद्भयात् त्रस्ताः स्वकुक्षिस्था यतः कृताः । अन्येऽपि मद् द्विषस्तेन रक्षिता दितिजाः पुरा ॥ ३१ ॥ तस्मात्तद्रत्नजातं तु मया सर्वं हृतं किल । न तिष्ठति मम द्रोही सुखं सत्यं ब्रवीम्यहम् ॥ ३२ ॥ शङ्खोऽप्येवं पुरा दैत्यो मां द्विषन्सागरात्मजः । अभवन्मूढचित्तस्तु साधुसङ्गात्समुज्झित ॥ ३३ ॥ ममानुजेन हरिणा निहत स हि पापधीः । हिंसकः साधुसंघस्य पापिष्ठःसागरोदरे ॥ ३४ ॥
तद् गच्छ दूत शीघ्रं त्वं कथयस्वास्य तत्त्वतः । अब्धिपुत्रस्य सर्वं हि सिन्धोर्मंथनकारणम् ॥ ३५ ॥ सनत्कुमार उवाच इत्थं विसर्जितो दूतो घस्मराख्यः सुबुद्धिमान् । तदेन्द्रेणागमत्तूर्णं यत्र वीरो जलन्धरः ॥ ३६ ॥ तदिदं वचनं दैत्यराजो हि तेन धीमता । कथितो निखिलं शक्रप्रोक्तं दूतेन वै तदा ॥ ३७ ॥ तन्निशम्य ततो दैत्यो रोषात्प्रस्फुरिताधरः । उद्योगमकरोत्तूर्णं सर्वदेवजिगीषया ॥ ३८ ॥ तदोद्योगेऽसुरेन्द्रस्य दिग्भ्यः पातालतस्तथा । दितिजाः प्रत्यपद्यन्त कोटिशः कोटिशस्तथा ॥ ३९ ॥ अथ शुम्भनिशुम्भाद्यैर्बलाधिपतिकोटिभिः । निर्जगाम महावीरः सिन्धुपुत्रः प्रतापवान् ॥ ४० ॥ प्राप त्रिविष्टपं सद्यः सर्वसैन्यसमावृतः । दध्मौ शङ्खं जलधिजो नेदुर्वीराश्च सर्वतः ॥ ४१ ॥ गत्वा त्रिविष्टपं दैत्यो नन्दनाधिष्ठितोऽभवत् । सर्व सैन्यं समावृत्य कुर्वाणः सिंहवद्रवम् ॥ ४२ ॥ पुरमावृत्य तिष्ठत्तद् दृष्ट्वा सैन्यबलं महत् । निर्ययुस्त्वमरावत्या देवा युद्धाय दंशिताः ॥ ४३ ॥ ततःसमभवद्युद्धं देवदानवसेनयोः । मुसलैः परिघैर्बाणैर्गदापरशुशक्तिभिः ॥ ४४ ॥ तेऽन्योन्यं समधावेतां जघ्नतुश्च परस्परम् । क्षणेनाभवतां सेने रुधिरौघपरिप्लुते ॥ ४५ ॥ पतितैः पात्यमानैश्च गजाश्वरथपत्तिभिः । व्यराजत रणे भूमिः सन्ध्याभ्रपटलैरिव ॥ ४६ ॥ तत्र युद्धे मृतान्दैत्यान्भार्गवस्तानजीवयत् । विद्ययामृतजीविन्या मन्त्रितैस्तोयबिन्दुभिः ॥ ४७ ॥ देवानपि तथा युद्धे तत्राजीवयदङ्गिराः । दिव्यौषधैः समानीय द्रोणाद्रेः स पुनःपुनः ॥ ४८ ॥ दृष्टवान्स तथा युद्धे पुनरेव समुत्थितान् । जलन्धरः क्रोधवशो भार्गवं वाक्यमब्रवीत् ॥ ४९ ॥ जलन्धर उवाच मया देवा हता युद्धे उत्तिष्ठन्ति कथं पुनः । ततः सञ्जीविनी विद्या नैवान्यत्रेति वै श्रुता ॥ ५० ॥ सनत्कुमार उवाच इत्याकर्ण्य वचस्तस्य सिन्धुपुत्रस्य भार्गवः । प्रत्युवाच प्रसन्नात्मा गुरुः शुक्रो जलन्धरम् ॥ ५१ ॥ शुक्र उवाच दिव्यौषधीःसमानीय द्रोणाद्रेरङ्गिराः सुरान् । जीवयत्येष वै तात सत्यं जानीहि मे वचः ॥ ५२ ॥ जयमिच्छसि चेत्तात शृणु मे वचनं शुभम् । ततः सोऽरं भुजाभ्यां त्वं द्रोणमब्धावुपाहर ॥ ५३ ॥ सनत्कुमार उवाच इत्युक्तः स तु दैत्येन्द्रो गुरुणा भार्गवेण ह । द्रुतं जगाम यत्रासावास्ते चैवाद्रिराट् च सः ॥ ५४ ॥ भुजाभ्यां तरसा दैत्यो नीत्वा द्रोणं च तं तदा । प्राक्षिपत्सागरे तूर्णं चित्रं न हरतेजसि ॥ ५५ ॥ पुनरायान्महावीरः सिन्धुपुत्रो महाहवम् । जघानास्त्रैश्च विविधैः सुरान्कृत्वा बलं महत् ॥ ५६ ॥ अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद् गुरुः । तावत्तत्र गिरीद्रं तं न ददर्श सुरार्चितः ॥ ५७ ॥ ज्ञात्वा दैत्यहृतं द्रोणं धिषणो भयविह्वलः । आगत्य देवान्प्रोवाच जीवो व्याकुलमानसः ॥ ५८ ॥ गुरुरुवाच पलायध्वं सुराःसर्वे द्रोणो नास्ति गिरिर्महान् । ध्रुवं ध्वस्तश्च दैत्येन पाथोधितनयेन हि ॥ ५९ ॥ जलन्धरो महादैत्यो नायं जेतुं क्षमो यतः । रुद्रांशसम्भवो ह्येष सर्वामरविमर्दनः ॥ ६० ॥ मया ज्ञातः प्रभावोऽस्य यथोत्पन्नः स्वयं सुराः । शिवापमानकृच्छक्रचेष्टितं स्मरताखिलम् ॥ ६१ ॥ सनत्कुमार उवाच श्रुत्वा तद्वचनं देवाःसुराचार्यप्रकीर्तितम् । जयाशां त्यक्तवन्तस्ते भयविह्वलितास्तथा ॥ ६२ ॥ दैत्यराजेन तेनाति हन्यमानाःसमन्ततः । धैर्यं त्यक्त्वाऽपलायन्त दिशो दश सवासवाः ॥ ६३ ॥ देवान्विद्रावितान्दृष्ट्वा दैत्यः सागरनन्दनः । शङ्खभेरीजयरवैः प्रविवेशामरावतीम् ॥ ६४ ॥ प्रविष्टे नगरीं दैत्ये देवाः शक्रपुरोगमाः । सुवर्णाद्रिगुहां प्राप्ता न्यवसन्दैत्यतापिताः ॥ ६५ ॥ तदैव सर्वेष्वसुरोऽधिकारे- ष्विन्द्रादिकानां विनिवेश्य सम्यक् । शुम्भादिकान्दैत्यवरान् पृथक्पृथक् स्वयं सुवर्णादिगुहां व्यगान्मुने ॥ ६६ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डेजलन्धरवधोपाख्याने देवजलन्धर- युद्धवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥ श्रीगौरीशंकरार्पणमस्तु |