|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
त्रयोदशोऽध्यायः
जलन्धरवधोपाख्याने शक्रजीवनम्
व्यास उवाच
भो ब्रह्मन्भगवन्पूर्वं श्रुतं मे ब्रह्मपुत्रक । जलन्धरं महादैत्यमवधीच्छङ्करः प्रभुः ॥ १ ॥ तत्त्वं वद महाप्राज्ञ चरितं शशिमौलिनः । विस्तारपूर्वकं शृण्वन्कस्तृप्येत्तद्यशोऽमलम् ॥ २ ॥ सूत उवाच इत्येवं व्याससम्पृष्टो ब्रह्मपुत्रो महामुनिः । उवाचार्थवदव्यग्रं वाक्यं वाक्यविशारदः ॥ ३ ॥ सनत्कुमार उवाच एकदा जीवशक्रौ च भक्त्या परमया मुने । दर्शनं कर्तुमीशस्य कैलासं जग्मतुर्भृशम् ॥ ४ ॥ अथ गुर्विन्द्रयोर्ज्ञात्वागमनं शंकरः प्रभुः । परीक्षितुं तयोर्ज्ञानं स्वदर्शनरतात्मनोः ॥ ५ ॥ दिगम्बरोऽथ तन्मार्गमारुद्ध्य सद्गतिः सताम् । जटाबद्धेन शिरशातिष्ठत्संशोभिताननः ॥ ६ ॥ अथ तौ गुरुशक्रौ च कुर्वन्तौ गमनं मुदा । आलोक्य पुरुषं भीमं मार्गमध्येऽद्भुताकृतिम् ॥ ७ ॥ महातेजस्विनं शान्तं जटासम्बद्धमस्तकम् । महाबाहुं महोरस्कं गौरं नयनभीषणम् ॥ ६ ॥ अथो पुरन्दरोऽपृच्छत्स्वाधिकारेण दुर्मदः । पुरुषं तं स्वमार्गान्तः स्थितमज्ञाय शंकरम् ॥ ९ ॥ पुरन्दर उवाच कस्त्वं भोः कुत आयातः किं नाम वद तत्त्वतः । स्वस्थानेसंस्थितः शम्भु किं वान्यत्र गतः प्रभुः ॥ १० ॥ सनत्कुमार उवाच शक्रेणेत्थं स पृष्टस्तु किञ्चिन्नोवाच तापसः । शक्रः पुनरपृच्छद्वै नोवाच स दिगम्बरः ॥ ११ ॥ पुनः पुरन्दरोऽपृच्छल्लोकानामधिपेश्वरः । तूष्णीमास महायोगी लीलारूपधरः प्रभुः ॥ १२ ॥ इत्थं पुनः पुनः पृष्टः शक्रेण स दिगम्बरः । नोवाच किञ्चिद्भगवान् शक्रज्ञानपरीक्षया ॥ १३ ॥ अथ चुक्रोध देवेशस्त्रैलोक्यैश्वर्यगर्वितः । उवाच वचनं चैव तं निर्भर्त्स्य जटाधरम् ॥ १४ ॥ इन्द्र उवाच रे मया पृच्छ्यमानोऽपि नोत्तरं दत्तवानसि । अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते ॥ १५ ॥ सनत्कुमार उवाच इत्युदीर्य ततो वज्री संनिरीक्ष्य क्रुधा हि तम् । हन्तुं दिगम्बरं वज्रमुद्यतं स चकार ह ॥ १६ ॥ पुरन्दरं वज्रहस्तं दृष्ट्वा देवः सदाशिवः । चकार स्तम्भनं तस्य वज्रपातस्य शंकरः ॥ १७ ॥ ततो रुद्रः क्रुधाविष्टः करालाक्षो भयङ्करः । द्रुतमेव प्रजज्वाल तेजसा प्रदहन्निव ॥ १८ ॥ बाहुप्रतिष्टम्भभुवा मन्युनान्तः शचीपतिः । समदह्यत भोगीव मन्त्ररुद्धपराक्रमः ॥ १९ ॥ दृष्ट्वा बृहस्पतिस्तूर्णं प्रज्वलन्तं स्वतेजसा । पुरुषं तं धिया ज्ञात्वा प्रणनाम हरं प्रभुम् ॥ २० ॥ कृताञ्जलिपुटो भूत्वा ततो गुरुरुदारधीः । नत्वा च दण्डवद्भूमौ प्रभुं स्तोतुं प्रचक्रमे ॥ २१ ॥ गुरुरुवाच नमो देवाधिदेवाय महादेवाय चात्मने । महेश्वराय प्रभवे त्र्यम्बकाय कपर्दिने ॥ २२ ॥ दीननाथाय विभवे नमोऽन्धकनिषूदिने । त्रिपुरघ्नाय शर्वाय ब्रह्मणे परमेष्ठिने ॥ २३ ॥ विरूपाक्षाय रुद्राय बहुरूपाय शम्भवे । विरूपायातिरूपाय रूपातीताय ते नमः ॥ २४ ॥ यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने । नमस्ते मखरूपाय परकर्मप्रवर्तिने ॥ २५ ॥ कालान्तकाय कालाय कालभोगिधराय च । नमस्ते परमेशाय सर्वत्र व्यापिने नमः ॥ २६ ॥ नमो ब्रह्मशिरोहन्त्रे ब्रह्मचन्द्र स्तुताय च । ब्रह्मण्याय नमस्तेऽस्तु नमस्ते परमात्मने ॥ २७ ॥
त्वमग्निरनिलो व्योम त्वमेवापो वसुन्धरा । त्वं सूर्यश्चन्द्रमा भानि ज्योतिश्चक्रं त्वमेव हि ॥ २८ ॥ त्वमेव विष्णुस्त्वं ब्रह्मा तत्स्तुतस्त्वं परेश्वरः । मुनयः सनकाद्यास्त्वं नारदस्त्वं तपोधनः ॥ २९ ॥ त्वमेव सर्व लोकेशस्त्वमेव जगदात्मकः । सर्वान्वयः सर्वभिन्नस्त्वमेव प्रकृतेः परः ॥ ३० ॥ त्वं वै सृजसि लोकांश्च रजसा विधिनामभाक् । सत्त्वेन हरिरूपस्त्वं सकलं यासि वै जगत् ॥ ३१ ॥ त्वमेवासि महादेव तमसा हररूपधृक् । लीलया भुवनं सर्वं निखिलं पाञ्चभौतिकम् ॥ ३२ ॥ त्वद्ध्यानबलतःसूर्यस्तपते विश्वभावन । अमृतं च्यवते लोके शशी वाति समरिणः ॥ ३३ ॥ त्वद्ध्यानबलतो मेघाश्चाम्बु वर्षन्ति शंकर । त्वद्ध्यानबलतः शक्रस्त्रिलोकीं पाति पुत्रवत् ॥ ३४ ॥ त्वद्ध्यानबलतो मेघाः सर्वे देवा मुनीश्वराः । स्वाधिकारं च कुर्वन्ति चकिता भवतो भयात् ॥ ३५ ॥ त्वत्पादकमलस्यैव सेवनाद्भुवि मानवाः । नाद्रियन्ते सुरान् रुद लोकैश्वर्यं च भुञ्जते ॥ ३६ ॥ त्वत्पादकमलस्यैव सेवनादगमन्पराम् । गतिं योगधना नामप्यगम्यां सर्वदुर्लभाम् ॥ ३७ ॥ सनत्कुमार उवाच बृहस्पतिरिति स्तुत्वा शंकरं लोकशंकरम् । पादयो पातयामास तस्येशस्य पुरन्दरम् ॥ ३८ ॥ पातयित्वा च देवेशमिन्द्रं नतशिरोधरम् । बृहस्पतिरुवाचेदं प्रश्रयावनतः शिवम् ॥ ३९ ॥ बृहस्पतिरुवाच दीननाथ महादेव प्रणतं तव पादयोः । समुद्धर च शान्तं स्वं क्रोधं नयनजं कुरु ॥ ४० ॥ तुष्टो भव महादेव पाहीद्रं शरणागतम् । अग्निरेव शमं यातु भालनेत्रसमुद्भवः ॥ ४१ ॥ सनत्कुमार उवाच इत्याकर्ण्य गुरोर्वाक्यं देवदेवो महेश्वरः । उवाच करुणासिन्धुर्मेघनिर्ह्रादया गिरा ॥ ४२ ॥ महेश्वर उवाच क्रोधं च निःसृतं नेत्राद्धारयामि बृहस्पतेः । कथं हि कञ्चुकीं सर्पःसन्धत्ते नोज्झितां पुनः ॥ ४३ ॥ सनत्कुमार उवाचु इति श्रुत्वा वचस्तस्य शंकरस्य बृहस्पतिः ॥ उवाच क्लिष्टरूपश्च भयव्याकुलमानसः । ४४ ॥ बृहस्पतिरुवाच हे देव भगवन्भक्ता अनुकम्प्याः सदैव हि । भक्तवत्सलनामेति त्वं सत्यं कुरु शंकर ॥ ४५ ॥ क्षेप्तुमन्यत्र देवेश स्वतेजोऽत्युग्रमर्हसि । उद्धर्तःसर्वभक्तानां समुद्धर पुरन्दरम् ॥ ४६ ॥ सनत्कुमार उवाच इत्युक्तो गुरुणा रुद्रो भक्तवत्सलनामभाक् । प्रत्युवाच प्रसन्नात्मा सुरेज्यं प्रणतार्त्तिहा ॥ ४७ ॥ शिव उवाच प्रीतः स्तुत्यानया तात ददामि वरमुत्तमम् । इन्द्रस्य जीवदानेन जीवेति त्वं प्रथां व्रज ॥ ४८ ॥ समुद्भूतोऽनलो योऽयं भालनेत्रात्सुरेशहा । एनं त्यक्ष्याम्यहं दूरं यथेन्द्रं नैव पीडयेत् ॥ ४९ ॥ सनत्कुमार उवाच् । इत्युक्त्वा तं करे धृत्वा स्वतेजोऽनलमद्भुतम् ॥ भालनेत्रात्समुद्भूतं प्राक्षिपल्लवणाम्भसि । ५० ॥ ततश्चान्तर्दधे रुद्रो महालीलाकरः प्रभुः । गुरुशक्रौ भयान्मुक्तौ जग्मतुः सुखमुत्तमम् ॥ ५१ ॥ यदर्थं गमनोद्युक्तौ दर्शनं प्राप्य तस्य वै । कृतार्थौ गुरुशक्रौ हि स्वस्थानं जग्मतुर्मुदा ॥ ५२ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डेजलन्धरवधोपाख्याने शक्रजीवनं नाम त्रयोदशोऽ ध्यायः ॥ १३ ॥ श्रीगौरीशंकरार्पणमस्तु |