॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

द्वाददोऽध्यायः


देवस्तुतिवर्णनम्


सनत्कुमार उवाच
एतस्मिन्नन्तरे शम्भुं प्रसन्नं वीक्ष्य दानवः ।
तत्राजगाम सुप्रीतो मयोऽदग्धः कृपाबलात् ॥ १ ॥
प्रणनाम हरं प्रीत्या सुरानन्यानपि ध्रुवम् ।
कृताञ्जलिर्नतस्कन्धः प्रणनाम पुनः शिवम् ॥ २ ॥
अथोत्थाय शिवं दृष्ट्‍वा प्रेम्णा गद्‌गदसुस्वरः ।
तुष्टाव भक्तिपूर्णात्मा स दानववरो मयः ॥ ३ ॥
मय उवाच
देवदेव महादेव भक्तवत्सल शंकरः ।
कल्पवृक्षस्वरूपोऽसि सर्वपक्षविवर्जितः ॥ ४ ॥
ज्योतीरूपो नमस्तेऽस्तु विश्वरूप नमोऽस्तु ते ।
नमः पूतात्मने तुभ्यं पावनाय नमो नमः ॥ ५ ॥
चित्ररूपाय नित्याय रूपातीताय ते नमः ।
दिव्यरूपाय दिव्याय सुदिव्याकृतये नमः ॥ ६ ॥
नमः प्रणतसर्वार्तिनाशकाय शिवात्मने ।
कर्त्रे भर्त्रे च संहर्त्रे त्रिलोकानां नमो नमः ॥ ७ ॥
भक्तिगम्याय भक्तानां नमस्तुभ्यं कृपालवे ।
तपःसत्फलदात्रे ते शिवाकान्त शिवेश्वर ॥ ८ ॥
न जानामि स्तुतिं कर्तुं स्तुतिप्रिय परेश्वर ।
प्रसन्नो भव सर्वेश पाहि मां शरणागतम् ॥ ९ ॥
सनत्कुमार उवाच
इत्याकर्ण्य मयोक्तां हि संस्तुतिं परमेश्वरः ।
प्रसन्नोऽभूद्‌ द्विजश्रेष्ठ मयं प्रोवाच चादरात् ॥ १ ० ॥
शिव उवाच
वरं ब्रूहि प्रसन्नोऽहं मय दानवसत्तम ।
मनोऽभिलषितं यत्ते तद्दास्यामि न संशयः ॥ ११ ॥
सनत्कुमार उवाच
श्रुत्वा शिवं वचः शम्भोः स मयो दानवर्षभः ।
प्रत्युवाच प्रभुं नत्वा नतस्कन्धः कृताञ्जलिः ॥ १२ ॥
मय उवाच
देवदेव महादेव प्रसन्नो यदि मे भवान् ।
वरयोग्योऽस्म्यहं चेद्धि स्वभक्तिं देहि शाश्वतीम् ॥ १३ ॥
स्वभक्तेषु सदा सख्यं दीनेषु च दयां सदा ।
उपेक्षामन्यजीवेषु खलेषु परमेश्वर ॥ १४ ॥
कदापि नासुरो भावो भवेन्मम महेश्वर ।
निर्भयः स्यां सदा नाथ मग्नस्त्वद्‌भजने शुभे ॥ १५ ॥
सनत्कुमार उवाच
इति सम्प्रार्थ्यमानस्तु शंकरः परमेश्वरः ।
प्रत्युवाच मये नाथः प्रसन्नो भक्तवत्सलः ॥ १६ ॥
महेश्वर उवाच
दानवर्षभ धन्यस्त्वं मद्‌भक्तो निर्विकारवान् ।
प्रदत्तास्ते वराः सर्वेऽभीप्सिता ये तवाधुना ॥ १७ ॥
गच्छ त्वं वितलं लोकं रमणीयं दिवोऽपि हि ।
समेतः परिवारेण निजेन मम शासनात् ॥ १८ ॥
निर्भयस्तत्र सन्तिष्ठ संहृष्टो भक्तिमान् सदा ।
कदापि नासुरो भावो भविष्यति मदाज्ञया ॥ १९ ॥
सनत्कुमार उवाच
इत्याज्ञां शिरसाधाय शंकरस्य महात्मनः ।
तं प्रणम्य सुरांश्चापि वितलं प्रजगाम सः ॥ २० ॥
एतस्मिन्नन्तरे ते वै मुण्डिनश्च समागताः ।
प्रणम्योचुश्च तान्सर्वान्विष्णुब्रह्मादिकान् सुरान् ॥ २१ ॥
कुत्र याम वयं देवाः कर्म किं करवामहे ।
आज्ञापयत नः शीघ्रं भवदादेशकारकान् ॥ २२ ॥
कृतं दुष्कर्म चास्माभिर्हे हरे हे विधे सुराः ।
दैत्यानां शिवभक्तानां शिवभक्तिर्विनाशिता ॥ २३ ॥
कोटिकल्पानि नरके नो वासस्तु भविष्यति ।
नोद्धारो भविता नूनं शिवभक्तविरोधिनाम् ॥ २४ ॥
परन्तु भवदिच्छात इदं दुष्कर्म नः कृतम् ।
तच्छान्तिं कृपया ब्रूत वयं वः शरणागताः ॥ २५ ॥
सनत्कुमार उवाच
तेषां तद्वचनं श्रुत्वा विष्णुब्रह्मादयःसुराः ।
अब्रुवन्मुण्डिनस्तांस्ते स्थितानग्रे कृताञ्जलीन् ॥ २६ ॥
विष्ण्वादय ऊचुः
न भेतव्यं भवद्‌भिस्तु मुण्डिनो वै कदाचन ।
शिवाज्ञयेदं सकलं जातं चरितमुत्तमम् ॥ २७ ॥
युष्माकं भविता नैव कुगतिर्दुःखदायिनी ।
शिववासा यतो यूयं देवर्षिहितकारकाः ॥ २८ ॥
सुरर्षिहितकृच्छम्भुःसुरर्षिहितकृत्प्रियः ।
सुरर्षिहितकृन्नॄणां कदापि कुगतिर्न हि ॥ २९ ॥
अद्यतो मतमेतं हि प्रविष्टानां नृणां कलौ ।
कुगतिर्भविता ब्रूमः सत्यं नैवात्र संशयः ॥ ३० ॥
भवद्‌भिर्मुण्डिनो धीरा गुप्तभावान्ममाज्ञया ।
तावन्मरुस्थली सेव्या कलिर्यावात्समाव्रजेत् ॥ ३१ ॥
आगते च कलौ यूयं स्वमतं स्थापयिष्यथ ।
कलौ तु मोहिता मूढाःसङ्‌ग्रहीष्यन्ति वो मतम् ॥ ३२ ॥
इत्याज्ञप्ताः सुरेशैश्च मुण्डिनस्ते मुनीश्वर ।
नमस्कृत्य गतास्तत्र यथोद्दिष्टं स्वमाश्रमम् ॥ ३३ ॥
ततः स भगवान् रुद्रो दग्ध्वा त्रिपुरवासिनः ।
कृतकृत्यो महायोगी ब्रह्माद्यैरभिपूजितः ॥ ३४ ॥
स्वगणैर्निखिलैर्देव्या शिवया सहितः प्रभुः ।
कृत्वामरमहत्कार्यं ससुतोन्तरधादथ ॥ ३५ ॥
ततश्चान्तर्हिते देवे परिवारान्विते शिवे ।
धनुः शररथाद्यैश्च प्राकारोऽन्तर्द्धिमागमत् ॥ ३६ ॥
ततो ब्रह्मा हरिर्देवा मुनिगन्धर्वकिन्नराः ।
नागाः सर्पाश्चाप्सरसः संहृष्टाश्चाथ मानुषाः ॥ ३७ ॥
स्वंस्वं स्थानं मुदा जग्मुः शंसन्तः शाङ्‌करं यशः ।
स्वंस्वं स्थानमनुप्राप्य निवृतिं परमां ययुः ॥ ३८ ॥
एतत्ते कथितं सर्वं चरितं शशिमौलिनः ।
त्रिपुरक्षयसंसूचि परलीलान्वितं महत् ॥ ३९ ॥
धन्यं यशस्यमायुष्यं धनधान्यप्रवर्द्धकम् ।
स्वर्गदं मोक्षदं चापि किं भूयः श्रोतुमिच्छसि ॥ ४० ॥
इदं हि परमाख्यानं यः पठेच्छ्रणुयात्सदा ।
इह भुक्त्वाखिलान्कामान् अन्ते मुक्तिमवाप्नुयात् ॥ ४१ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे
सनत्कुमारपाराशर्य्यसंवादे त्रिपुरवधानन्तरदेवस्तुतिमय-
स्तुतिमुण्डिनिवेशनदेवस्वस्थानगमनवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP