॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

एकादशोऽध्यायः


देवस्तुतिवर्णनम्


व्यास उवाच
ब्रह्मपुत्र महाप्राज्ञ धन्यस्त्वं शैवसत्तम ।
किमकार्षुस्ततो देवा दग्धे च त्रिपुरेऽखिलाः ॥ १ ॥
मयः कुत्र गतो दग्धो पतयः कुत्र ते गताः ।
तत्सर्वं मे समाचक्ष्व यदि शम्भुकथाश्रयम् ॥ २ ॥
सूत उवाच
इत्याकर्ण्य व्यासवाक्यं भगवान्भवकृत्सुतः ।
सनत्कुमारः प्रोवाच शिवपादयुगं स्मरन् ॥ ३ ॥
सनत्कुमार उवाच
शृणु व्यास महाबुद्धे पाराशर्यं महेशितुः ।
चरितं सर्वपापघ्नं लोकलीलानुसारिणः ॥ ४ ॥
महेश्वरेण सर्वस्मिंस्त्रिपुरे दैत्यसङ्‌कुले ।
दग्धे विशेषतस्तत्र विस्मितास्तेऽभवन्सुराः ॥ ५ ॥
न किञ्चिदब्रुवन्देवाः सेन्द्रोपेन्द्रादयस्तदा ।
महातेजस्विनं रुद्रं सर्वे वीक्ष्य ससम्भ्रमाः ॥ ६ ॥
महाभयङ्‌करं रौद्रं प्रज्वलन्तं दिशो दश ।
कोटिसूर्यप्रतीकाशं प्रलयानलसन्निभम् ॥ ७ ॥
भयाद्देवं निरीक्ष्यैव देवीं च हिमवत्सुताम् ।
बिभ्यिरे निखिला देवप्रमुखास्तस्थुरानताः ॥ ८ ॥
दृष्ट्‍वानीकं तदा भीतं देवानामृषिपुङ्‌गवाः ।
न किञ्चिदूचुः सन्तस्थुः प्रणेमुस्ते समन्ततः ॥ ९ ॥
अथ ब्रह्मापि सम्भीतो दृष्ट्‍वा रूपं च शाङ्‌करम् ।
तुष्टाव तुष्टहृदयो देवैः सह समाहितः ॥ १० ॥
विष्णुना च सभीतेन देवदेवं भवं हरम् ।
त्रिपुरारिं सगिरिजं भक्ताधीनं महेश्वरम् ॥ ११ ॥
ब्रह्मोवाच
देवदेव महादेव भक्तानुग्रहकारक ।
प्रसीद परमेशान सर्व देवहितप्रद ॥ १२ ॥
प्रसीद जगतां नाथ प्रसीदानन्ददायक ।
प्रसीद शंकर स्वामिन् प्रसीद परमेश्वर ॥ १३ ॥
ॐकाराय नमस्तुभ्यमाकारपरतारक ।
प्रसीद सर्वदेवेश त्रिपुरघ्न महेश्वर ॥ १४ ॥
नानावाच्याय देवाय प्रणतप्रिय शंकर ।
अगुणाय नमस्तुभ्यं प्रकृतेः पुरुषात्पर ॥ १५ ॥
निर्विकाराय नित्याय नित्यतृप्ताय भास्वते ।
निरञ्जनाय दिव्याय त्रिगु णाय नमोऽस्तु ते ॥ १६ ॥
सगुणाय नमस्तुभ्यं स्वर्गेशाय नमोस्तु ते ।
सदाशिवाय शान्ताय महेशाय पिनाकिने ॥ १७ ॥
सर्वज्ञाय शरण्याय सद्योजाताय ते नमः ।
वामदेवाय रुद्राय तदाप्यपुरुषाय च ॥ १८ ॥
अघोराय सुसेव्याय भक्ताधीनाय ते नमः ।
ईशानाय वरेण्याय भक्तानन्दप्रदायिने ॥ १९ ॥
रक्षरक्ष महादेव भीतान्नः सकलामरान् ।
दग्ध्वा च त्रिपुरं सर्वे कृतार्था अमराः कृताः ॥ २० ॥
स्तुत्वैवं देवताःसर्वे नमस्कारं पृथक्पृथक् ।
चक्रुस्ते परमप्रीता ब्रह्माद्यास्तु सदाशिवम् ॥ २१ ॥
अथ ब्रह्मा स्वयं देवं त्रिपुरारिं महेश्वरम् ।
तुष्टाव प्रणतो भूत्वा नतस्कन्धः कृताञ्जलिः ॥ २२ ॥
ब्रह्मोवाच
भगवन्देवदेवेश त्रिपुरान्तक शंकर ।
त्वयि भक्तिः परा मेऽस्तु महादेवानपायिनी ॥ २३ ॥
सर्वदा मेऽस्तु सारथ्यं तव देवेश शंकर ।
अनुकूलो भव विभो सदा त्वं परमेश्वर ॥ २४ ॥
सनत्कुमार उवाच
इति स्तुत्वा विधिः शम्भुं भक्तवत्सलमानतः ।
विरराम नतस्कन्धः कृताञ्जलिरुदारधीः ॥ २५ ॥
जनार्दनोऽपि भगवान् नमस्कृत्य महेश्वरम् ।
कृताञ्जलिपुटो भूत्वा तुष्टाव च महेश्वरम् ॥ २६ ॥
विष्णुरुवाच
देवाधीश महेशान दीनबन्धो कृपाकर ।
प्रसीद परमेशान कृपां कुरु नतप्रिय ॥ २७ ॥
निर्गुणाय नमस्तुभ्यं पुनश्च सगुणाय च ।
पुनः प्रकृतिरूपाय पुनश्च पुरुषाय च ॥ २८ ॥
पश्चाद्‌गुणस्वरूपाय नतो विश्वात्मने नमः ।
भक्तिप्रियाय शान्ताय शिवाय परमात्मने ॥ २९ ॥
सदाशिवाय रुद्राय जगतां पतये नमः ।
त्वयि भक्तिर्दृढा मेऽद्य वर्द्धमाना भवत्विति ॥ ३० ॥
सनत्कुमार उवाच
इत्युक्त्वा विररामासौ शैवप्रवरसत्तमः ।
सर्वे देवाः प्रणम्योचुस्ततस्तं परमेश्वरम् ॥ ३१ ॥
देवा ऊचुः
देवनाथ महादेव करुणाकर शंकर ।
प्रसीद जगतां नाथ प्रसीद परमेश्वर ॥ ३२ ॥
प्रसीद सर्वकर्ता त्वं नमामस्त्वां वयं मुदा ।
भक्तिर्दृढास्माकं नित्यं स्यादनपायिनी ॥ ३३ ॥
सनत्कुमार उवाच
इति स्तुतश्च देवेशो ब्रह्मणा हरिणामरैः ।
प्रत्युवाच प्रसन्नात्मा शंकरो लोकशंकरः ॥ ३४ ॥
शंकर उवाच
हे विधे हे हरे देवाः प्रसन्नोऽस्मि विशेषतः ।
मनोऽभिलषितं ब्रूत वरं सर्वे विचा रतः ॥ ३५ ॥
सनत्कुमारः उवाच
इत्युक्तं वचनं श्रुत्वा हरेण मुनिसत्तम ।
प्रत्यूचुः सर्वदेवाश्च प्रसन्नेनान्तरात्मना ॥ ३६ ॥
सर्वे देवा ऊचुः
यदि प्रसन्नो भगवन्यदि देयो वरस्त्वया ।
देवदेवेश चास्मभ्यं ज्ञात्वा दासान्हि नःसुरान् ॥ ३७ ॥
यदा दुःखं तु देवानां सम्भवेद्देवसत्तम ।
तदा त्वं प्रकटो भूत्वा दुःखं नाशय सर्वदा ॥ ३८ ॥
सनत्कुमार उवाच
इत्युक्तो भगवान् रुद्रो ब्रह्मणा हरिणामरैः ।
युगपत्प्राह तुष्टात्मा तथेत्यस्तु निरन्तरम् ॥ ३९ ॥
स्तवैरेतैश्च तुष्टोऽस्मि दास्यामि सर्वदा ध्रुवम् ।
यदभीष्टतमं लोके पठतां शृण्वतां सुराः ॥ ४० ॥
इत्युक्त्वा शंकरः प्रीतो देवदुःखहरःसदा ।
सर्वदेवप्रियं यद्वै तत्सर्वं च प्रदत्तवान् ॥ ४१ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे
युद्धखण्डे देवस्तुतिवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP