॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

दशमोऽध्यायः


त्रिपुरदाहवर्णनम्


सनत्कुमार उवाच
अथ शम्भुर्महादेवो रथस्थः सर्वसंयुतः ।
त्रिपुरं सकलं दग्धुमुद्यतोऽभूत्सुरद्विषाम् ॥ १ ॥
शीर्षं स्थानकमास्थाय सन्धाय च शरोत्तमम् ।
सज्जं तत्कार्मुकं कृत्वा प्रत्यालीढं महाद्‌भुतम् ॥ २ ॥
निवेश्य दृढमुष्टौ च दृष्टिं दृष्टौ निवेश्य च ।
अतिष्ठन्निश्चलस्तत्र शतं वर्षसहस्रकम् ॥ ३ ॥
ततोङ्‌गुष्ठे गणाध्यक्षः स तु दैत्यनिशं स्थितः ।
न लक्ष्यं विविशुस्तानि पुराण्यस्य त्रिशूलिनः ॥ ४ ॥
ततोन्तरिक्षादशृणोद्धनुर्बाणधरो हरः ।
मुञ्जकेशो विरूपाक्षो वाचं परमशोभनाम् ॥ ५ ॥
भो भो न यावद्‌भगवन्नर्चितोऽसौ विनायकः ।
पुराणि जगदीशेश साम्प्रतं न हनिष्यति ॥ ६ ॥
एतच्छ्रुत्वा तु वचनं गजवक्त्रमपूजयत् ।
भद्रकालीं समाहूय ततोन्धकनिषूदनः ॥ ७ ॥
तस्मिन् सम्पूजिते हर्षात्परितुष्टे पुरःसरे ।
विनायके ततो व्योम्नि ददर्श भगवान्हरः ॥ ८ ॥
पुराणि त्रीणि दैत्यानां तारकाणां महात्मनाम् ।
यथातथं हि युक्तानि केचिदित्थं वदन्ति ह ॥ ९ ॥
परब्रह्मणि देवेश सर्वोपास्ये महेश्वरे ।
अन्यप्रसादतः कार्यं सिद्धिर्घटति नेति हि ॥ १० ॥
स स्वतन्त्रः परं ब्रह्म सगुणो निर्गुणोऽपि ह ।
अलक्ष्यः सकलैः स्वामी परमात्मा निरञ्जनः ॥ ११ ॥
पञ्चदेवात्मकः पञ्चदेवोपास्यः परः प्रभुः ।
तस्योपास्यो न कोऽप्यस्ति स एवोपास्य आलयम् ॥ १२ ॥
अथ वा लीलया तस्य सर्वं सङ्‌घटते मुने ।
चरितं देवदेवस्य वरदातुर्महेशितुः ॥ १३ ॥
तस्मिस्थिते महादेवे पूजयित्वा गणाधिपम् ।
पुराणि तत्र कालेन जग्मुरेकत्वमाशु वै ॥ १४ ॥
एकीभावं मुने तत्र त्रिपुरे समुपागते ।
बभूव तुमुलो हर्षो देवादीनां महात्मनाम् ॥ १५ ॥
ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः ।
जयेति वाचो मुमुचुः स्तुवन्तश्चाष्टमूर्तिनम् ॥ १६ ॥
अथाहेति तदा ब्रह्मा विष्णुश्च जगतां पतिः ।
समयोऽपि समायातो दैत्यानां वधकर्मणः ॥ १७ ॥
तेषां तारकपुत्राणां त्रिपुराणां महेश्वर ।
देवकार्यं कुरु विभो एकत्वमपि चागतम् ॥ १८ ॥
यावन्न यान्ति देवेश विप्रयोगं पुराणि वै ।
तावद्‌बाणं विमुञ्चश्च त्रिपुरं भस्मसात्कुरु ॥ ।१९ ॥
अथ सज्यं धनुः कृत्वा शर्वः सन्धाय तं शरम् ।
पूज्य पाशुपतास्त्रं स त्रिपुरं समचिन्तयत् ॥ २० ॥
अथ देवो महादेवो वरलीलाविशारदः ।
केनापि कारणेनात्र सावज्ञं तदवैक्षत ॥ २१ ॥
पुरत्रयं विरूपाक्षः कर्तुं तद्‌भस्मसात्क्षणात् ।
समर्थः परमेशानो जानातु च सतां गतिः ॥ २२ ॥
दग्धुं समर्थो देवेशो वीक्षणेन जगत्त्रयम् ।
अस्मद्यशो विवृद्ध्यर्थं शरं मोक्तुमिहार्हसि ॥ २३ ॥
इति स्तुतोऽमरैः सर्वैविष्ण्वादिविधिभिस्तदा ।
दग्धुं पुरत्रयं तद्वै बाणेनैच्छन्महेश्वरः ॥ २४ ॥
अभिलाख्यमुहूर्ते तु विकृष्य धनुरद्‌भुतम् ।
कृत्वा ज्यातलनिर्घोषं नादमत्यन्तदुःसहम् ॥ २५ ॥
आत्मनो नाम विश्राव्य समाभाष्य महासुरान् ।
मार्तण्डकोटिवपुषं काण्डमुग्रो मुमोच ह ॥ २६ ॥
ददाह त्रिपुरस्थांस्तान्दैत्यांस्त्रीन्विमलापहः ।
स आशुगो विष्णुमयो वह्निशल्यो महाज्वलन् ॥ २७ ॥
ततः पुराणि दग्धानि चतुर्जलधिमेखलाम् ।
गतानि युगपद्‌भूमिं त्रीणि दग्धानि भस्मशः ॥ २८ ॥
दैत्यास्तु शतशो दग्धास्तस्य बाणस्थवह्निना ।
हाहाकारं प्रकुर्वन्तः शिवपूजाव्यतिक्रमात् ॥ २९ ॥
तारकाक्षस्तु निर्दग्धो भ्रातृभ्यां सहितोऽभवत् ।
सस्मार स्वप्रभुं देवं शंकरं भक्तवत्सलम् ॥ ३० ॥
भक्त्या परमया युक्तः प्रलपन् विविधा गिरः ।
महादेवं समुद्वीक्ष्य मनसा तमुवाच सः ॥ ३१ ॥
तारकाक्ष उवाच
भव ज्ञातोसि तुष्टोऽसि यद्यस्मान् सह बन्धुभिः ।
तेन सत्येन भूयोऽपि कदा त्वं प्रदहिष्यसि ॥ ३२ ॥
दुर्लभं लब्धमस्माभिर्यदप्राप्यं सुरासुरैः ।
त्वद्‌भावभाविता बुद्धिर्जातेजाते भवत्विति ॥ ३३ ॥
इत्येवं विब्रुवन्तस्ते दानवास्तेन वह्निना ।
शिवाज्ञयाद्‌भुतं दग्धा भस्मसादभवन्मुने ॥ ३४ ॥
अन्येऽपि बाला वृद्धाश्च दानवास्तेन वह्निना ।
शिवाज्ञया द्रुतं व्यास निर्दग्धा भस्मसात्कृताः ॥ ३५ ॥
स्त्रियो वा पुरुषा वापि वाहनानि च तत्र ये ।
सर्वे तेनाग्निना दग्धाः कल्पान्ते तु जगद्यथा ॥ ३६ ॥
भर्तॄन्कण्ठगतान्हित्वा काश्चिद्दग्धा वरस्त्रियः ।
काश्चित्सुप्ताः प्रमत्ताश्च रतिश्रान्ताश्च योषितः ॥ ३७ ॥
अर्द्धदग्धा विबुद्धाश्च बभ्रमुर्मोहमूर्च्छिताः ।
तेन नासीत्सुसूक्ष्मोऽपि घोरत्रिपुरवह्निना ॥ ३८ ॥
अविदग्धो विनिर्मुक्तः स्थावरो जङ्‌गमोपि वा ।
वर्जयित्वा मयं दैत्यं विश्वकर्माणमव्ययम् ॥ ३९ ॥
अविरुद्धं तु देवानां रक्षितं शम्भुतेजसा ।
विपत्कालेपि सद्‌भक्तं महेशशरणागतम् ॥ ४० ॥
सन्निपातो हि येषां नो विद्यते नाशकारकः ।
दैत्यानामन्यसत्त्वानां भावाभावे कृताकृते ॥ ४१ ॥
तस्माद्यत्‍नः सुसम्भाव्यः सद्‌भिः कर्तव्य एव हि ।
गर्हणात्क्षीयते लोको न तत्कर्म समाचरेत् ॥ ४२ ॥
न संयोगो यथा तेषां भूयात् त्रिपुरवासिनाम् ।
मतमेतद्धि सर्वेषां दैवाद्यदि यतो भवेत् ॥ ४३ ॥
ये पूजयन्तस्तत्रापि दैत्या रुद्रं सबान्धवाः ।
गाणपत्यं ययुः सर्वे शिवपूजाविधेर्बलात् ॥ ४४ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे
युद्धखण्डे त्रिपुरदाहवर्णनं नाम दशमोऽध्यायः ॥ १० ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP