॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

नवमोऽध्यायः


शिवयात्रावर्णनम्


सनत्कुमार उवाच
ईदृग्विधं महादिव्यं नानाश्चर्यमयं रथम् ।
संनह्य निगमानश्वांस्तं ब्रह्मा प्रार्पयच्छिवम् ॥ १ ॥
शम्भवेऽसौ निवेद्याधिरोपयामास शूलिनम् ।
बहुशः प्रार्थ्य देवेशं विष्ण्वादिसुरसंमतम् ॥ २ ॥
ततस्तस्मिन्‌ रथे दिव्ये रथप्राकारसंयुते ।
सर्वदेवमयः शम्भुरारुरोह महाप्रभुः ॥ ३ ॥
ऋषिभिः स्तूयमानश्च देवगन्धर्वपन्नगैः ।
विष्णुना ब्रह्मणा चापि लोकपालैर्बभूव ह ॥ ४ ॥
उपावृतश्चाप्सरसांगणैर्गीतविशारदैः ।
शुशुभे वरदः शम्भुः स तं प्रेक्ष्य च सारथिम् ॥ ५ ॥
तस्मिन्नारोऽहति रथं कल्पितं लोकसम्भृतम् ।
शिरोभिः पतिता भूमौ तुरगा वेदसम्भवाः ॥ ६ ॥
चचाल वसुधा चेलुः सकलाश्च महीधराः ।
चकम्पे सहसा शेषोऽसोढा तद्‌भारमातुरः ।७ ॥
अथाधः स रथस्यास्य भगवान्धरणीधरः ।
वृषेन्द्ररूपी चोत्थाय स्थापयामास वै क्षणम् ॥ ८ ॥
क्षणान्तरे वृषेन्द्रोऽपि जानुभ्यामगमद्धराम् ।
रथारूढमहेशस्य सुतेजः सोढुमक्षमः ॥ ९ ॥
अभीषुहस्तो भगवानुद्यम्य च हयांस्तदा ।
स्थापयामास देवस्य पचनाद्वै रथं वरम् ॥ १० ॥
ततोऽसौ नोदयामास मनोमारुतरंहसः ।
ब्रह्मा हयान्वेदमयान्नद्धान् रथवरे स्थितः ॥ ११ ॥
पुराण्युद्दिश्य वै त्रीणि तेषां खस्थानि तानि हि ।
अधिष्ठिते महेशे तु दानवानां तरस्विनाम् ॥ १२ ॥
अथाह भगवान् रुद्रो देवानालोक्य शंकरः ।
पशूनामाधिपत्यं मे दध्वं हन्मि ततोऽसुरान् ॥ १३ ॥
पृथक् पशुत्वं देवानां तथान्येषां सुरोत्तमाः ।
कल्पयित्वैव वध्यास्ते नान्यथा दैत्यसत्तमाः ॥ १४ ॥
सनत्कुमार उवाच
इति श्रुत्वा वचस्तस्य देवदेवस्य धीमतः ।
विषादमगमन् सर्वे पशुत्वं प्रतिशङ्‌किताः ॥ १५ ॥
तेषां भावमथ ज्ञात्वा देवदेवोऽम्बिकापतिः ।
विहस्य कृपया देवान् शम्भुस्तानिदमब्रवीत् ॥ १६ ॥
शम्भुरुवाच
मा वोऽस्तु पशुभावेऽपि पातो विबुधसत्तमाः ।
श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः ॥ १७ ॥
यौ वै पाशुपतं दिव्यं चरिष्यति स मोक्ष्यति ।
पशुत्वादिति सत्यं वः प्रतिज्ञातं समाहिताः ॥ १८ ॥
ये चाप्यन्ये करिष्यन्ति व्रतं पाशुपतं मम ।
मोक्ष्यन्ति ते न सन्देहः पशुत्वात्सुरसत्तमाः ॥ १९ ॥
नैष्ठिकं द्वादशाब्दं वा तदर्थं वर्षकत्रयम् ।
शुश्रूषां कारयेद्यस्तु स पशुत्वाद्विमुच्यते ॥ २० ॥
तस्मात्परमिदं दिव्यं चरिष्यथ सुरोत्तमाः ।
पशुत्वान्मोक्ष्यथ तदा यूयमत्र न संशयः ॥ २१ ॥
सनत्कुमार उवाच
इत्याकर्ण्य वचस्तस्य महेशस्य परात्मनः ।
तथेति चाब्रुवन्देवा हरिब्रह्मादयस्तथा ॥ २२ ॥
तस्माद्वै पशवः सर्वे देवासुरवराः प्रभोः ।
रुद्रः पशुपतिश्चैव पशुपाशविमोचकः ॥ २३ ॥
तदा पक्षुपतीत्येतत्तस्य नाम महेशितुः ।
प्रसिद्धमभवद् ह्यद्धा सर्वलोकेषु शर्मदम् ॥ २४ ॥
मुदा जयेति भाषन्तः सर्वे देवर्षयस्तदा ।
अमुदंश्चाति देवेशो ब्रह्मा विष्णुः परेऽपि च ॥ २५ ॥
तस्मिंश्च समये यच्च रूपं तस्य महात्मनः ।
जातं तद्वर्णितुं शक्यं न हि वर्षशतैरपि ॥ २६ ॥
एवं विधो महेशानो महेशान्यखिलेश्वरः ।
जगाम त्रिपुरं हन्तुं सर्वेषां सुखदायकः ॥ २७ ॥
तं देवदेवं त्रिपुरं निहन्तुं
    तदानु सर्वे तु रविप्रकाशाः ।
गजैर्हयैःसिंहवरै रथैश्च
    वृषैर्ययुस्तेऽमरराजमुख्याः ॥ २८ ॥
हलैश्च शालैर्मुशलैर्भुशुण्डै-
    र्गिरीन्द्रकल्पैर्गिरिसंनिभाश्च ।
नानायुधैः संयुतबाहवस्ते
    ततो नु हृष्टाः प्रययुःसुरेशाः ॥ २९ ॥
नानायुधाढ्याः परमप्रकाशा
    महोत्सवश्शम्भुजयं वदन्तः ।
ययुः पुरस्तस्य महेश्वरस्य
    तदेन्द्रपद्मोद्‌भवविष्णुमुख्याः ॥ ३० ॥
जहृषुर्मुनयःसर्वे दण्डहस्ता जटाधराः ।
ववृषुः पुष्पवर्षाणि खेचराः सिद्धचारणाः ॥ ३१ ॥
पुत्रत्रयं च विप्रेन्द्रा व्रजन्सर्वे गणेश्वराः ।
तेषां सङ्‌ख्या च कः कर्तुं समर्थो वच्मि कांश्चन ॥ ३२ ॥
गणेश्वरैर्देवगणैश्च भृङ्‌गी
    समावृतःसर्वगणेन्द्रवर्यः ।
जगाम योगांस्त्रिपुरं निहन्तुं
    विमानमारुह्य यथा महेन्द्रः ॥ ३३ ॥
केशो विगतवासश्च महाकेशो महाज्वरः ।
सोमवल्लीसवर्णश्च सोमपः सनकस्तथा ॥ ३४ ॥
सोमधृक् सूर्यवर्चाश्च सूर्यप्रेषणकस्तथा ।
सूर्याक्षःसूरिनामा च सुरः सुन्दर एव च ॥ ३५ ॥
प्रस्कन्दः कुन्दरश्चण्डः कम्पनश्चातिकम्पनः ।
इन्द्रश्चेन्द्रजवश्चैव यन्ता हिमकरस्तथा ॥ ३६ ॥
शताक्षश्चैव पञ्चाक्षः सहस्राक्षो महोदरः ।
सतीजुहः शतास्यश्च रङ्‌कः कर्पूरपूतनः ॥ ३७ ॥
द्विशिखस्त्रिशिखश्चैव तथाहङ्‌कारकारकः ।
अजवक्त्रोऽष्टवक्त्रश्च हयवक्त्रोऽर्द्धवक्त्रकः ॥ ३८ ॥
इत्याद्या गणपा वीरा बहवोऽपरिमेयकाः ।
प्रययुः परिवार्येशं लक्ष्यलक्षणवर्जिताः ॥ ३९ ॥
समावृत्य महादेवं तदापुस्ते पिनाकिनम् ।
दग्धुं समर्था मनसा क्षणेन सचराचरम् ॥ ४० ॥
दग्धुं जगत्सर्वमिदं समर्थाः
    किं त्वत्र दग्धुं त्रिपुरं पिनाकी ।
रथेन किं चात्र शरेण तस्य
    गणैश्च किं देवगणैश्च शम्भोः ॥ ४१ ॥
स एव दग्धुं त्रिपुराणि तानि
    देवद्विषां व्यास पिनाकपाणिः ।
स्वयं गतस्तत्र गणैश्च सार्द्धं
    निजैःसुराणामपि सोऽद्‌भुतोतिः ॥ ४२ ॥
किं तत्र कारणं चान्यद्वच्मि ते ऋषिसत्तम ।
लोकेषु ख्यापनार्थं वै यशः परमलापहम् ॥ ४३ ॥
अन्यच्च कारणं ह्येतद्दुष्टानां प्रत्ययाय वै ।
सर्वेष्वपि च देवेषु यस्मान्नान्यो विशिष्यते ॥ ४४ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
पञ्चमे युद्धखण्डे शिवयात्रावर्णनं नाम नवमोऽध्यायः ॥ ९ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP