॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

षष्ठोऽध्यायः


शिवस्तुतिवर्णनम्


व्यास उवाच
तस्मिन् दैत्याधिपे पौरे सभ्रातरि विमोहिते ।
सनत्कुमार किं वासीत्तदाचक्ष्वाखिलं विभो ॥ १ ॥
सनत्कुमार उवाच
त्रिपुरे च तथाभूते दैत्ये त्यक्तशिवार्चने ।
स्त्रीधर्मे निखिले नष्टे दुराचारे व्यवस्थिते ॥ २ ॥
कृतार्थ इव लक्ष्मीशो देवैः सार्द्धमुमापतिम् ।
निवेदितुं तच्चरित्रं कैलासमगमद्धरिः ॥ ३ ॥
तस्योपकण्ठं स्थित्वाऽसौ देवैःसह रमापतिः ।
ततो भूरि स च ब्रह्मा परमेण समाधिना ॥ ४ ॥
मनसा प्राप्य सर्वज्ञं ब्रह्मणा स हरिस्तदा ।
तुष्टाव वाग्भिरिष्टाभिः शंकरं पुरुषोत्तमः ॥ ५ ॥
विष्णुरुवाच
महेश्वराय देवाय नमस्ते परमात्मने ।
नारायणाय रुद्राय ब्रह्मणे ब्रह्मरूपिणे ॥ ६ ॥
एवं कृत्वा महादेवं दण्डवत्प्रणिपत्य ह ।
जजाप रुद्रमन्त्रं च दक्षिणामूर्तिसम्भवम् ॥ ७ ॥
जले स्थित्वा सार्द्धकोटिप्रमितं तन्मनाः प्रभुः ।
संस्मरन् मनसा शम्भुं स्वप्रभुं परमेश्वरम् ॥ ८ ॥
तावद्देवास्तदा सर्वे तन्मनस्का महेश्वरम् ॥ ९ ॥
देवा ऊचुः
नमःसर्वात्मने तुभ्यं शंकरायार्तिहारिणे ।
रुद्राय नीलकण्ठाय चिद्‌रूपाय प्रचेतसे ॥ १० ॥
गतिर्नः सर्वदा त्वं हि सर्वापद्‌विनिवारकः ।
त्वमेव सर्वदात्माभिर्वन्द्यो देवारिसूदन ॥ ११ ॥
त्वमादिस्त्वमनादिश्च स्वानन्दश्चाक्षयः प्रभुः ।
प्रकृतेः पुरुषस्यापि साक्षात्स्रष्टा जगत्प्रभुः ॥ १२ ॥
त्वमेव जगतां कर्ता भर्ता हर्ता त्वमेव हि ।
ब्रह्मा विष्णुर्हरो भूत्वा रजःसत्त्वतमोगुणैः ॥ १३ ॥
तारकोऽसि जगत्यस्मिन् सर्वेषामधिपोऽव्ययः ।
वरदो वाङ्मयो वाच्यो वाच्यवाचकवर्जितः ॥ १४ ॥
याच्यो मुक्त्यर्थमीशानो योगिभिर्योगवित्तमैः ।
हृत्पुण्डरीकविवरे योगिनां त्वं हि संस्थितः ॥ १५ ॥
वदन्ति वेदास्त्वां सन्तः परब्रह्मस्वरूपिणम् ।
भवन्तं तत्त्वमित्यद्य तेजोराशिं परात्परम् ॥ १६ ॥
परमात्मानमित्याहुररस्मिन् जगति यद्विभो ।
त्वमेव शर्व सर्वात्मन् त्रिलोकाधिपते भव ॥ १७ ॥
दृष्टं श्रुतं स्तुतं सर्वं ज्ञायमानं जगद्‌गुरो ।
अणोरल्पतरं प्राहुर्महतोपि महत्तरम् ॥ १८ ॥
सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रवणघ्राणं त्वां नमामि च सर्वतः ॥ १९ ॥
सर्वज्ञं सर्वतो व्यापिन् सर्वेश्वरमनावृतम् ।
विश्वरूपं विरूपाक्षं त्वां नमामि च सर्वतः ॥ २० ॥
सर्वेश्वरं भवाध्यक्षं सत्यं शिवमनुत्तमम् ।
कोटि भास्करसङ्‌काशं त्वां नमामि च सर्वतः ॥ २१ ॥
विश्वदेवमनाद्यन्तं षट्त्रिंशत्कमनीश्वरम् ।
प्रवर्तकं च सर्वेषां त्वां नमामि च सर्वतः ॥ २२ ॥
प्रवर्तकं च प्रकृतेः सर्वस्य प्रपितामहम् ।
सर्वविग्रहमीशं हि त्वां नमामि च सर्वतः ॥ २३ ॥
एवं वदन्ति वरदं सर्वावासं स्वयम्भुवम् ।
श्रुतयः श्रुतिसारज्ञं श्रुतिसारविदश्च ये ॥ २४ ॥
अदृश्यमस्माभिरनेकभूतं
    त्वया कृतं यद्‌भवताथ लोके ।
त्वामेव देवासुरभूसुराश्च
    अन्ये च वै स्थावरजङ्‌गमाश्च ॥ २५ ॥
पाह्यनन्यगतीन् शम्भो सुरान्नो देववल्लभ ।
नष्टप्रायांस्त्रिपुरतो विनिहत्यासुरान्क्षणात् ॥ २६ ॥
मायया मोहितास्तेऽद्य भवतः परमेश्वर ।
विष्णुना प्रोक्तयुक्त्या त उज्झिता धर्मतः प्रभो ॥ २७ ॥
सन्त्यक्तसर्वधर्माश्च बोद्धागमसमाश्रिताः ।
अस्मद्‌भाग्यवशाज्जाता दैत्यास्ते भक्तवत्सल ॥ २८ ॥
सदा त्वं कार्यकर्त्ता हि देवानां शरणप्रद ।
वयं ते शरणापन्ना यथेच्छसि तथा कुरु ॥ २९ ॥
सनत्कुमार उवाच
इति स्तुत्वा महेशानं देवास्तु पुरतः स्थिताः ।
कृताञ्जलिपुटा दीना आसन् संनतमूर्तयः ॥ ३० ॥
स्तुतश्चैवं सुरेन्द्राद्यैर्विष्णोर्जाप्येन चेश्वरः ।
अगच्छत्तत्र सर्वेशो वृषमारुह्य हर्षितः ॥ ३१ ॥
विष्णुमालिङ्‌ग्य नन्दिशादवरुह्य प्रसन्नधीः ।
ददर्श सुदृशा तत्र नन्दीदत्तकरोऽखिलान् ॥ ३२ ॥
अथ देवान् समालोक्य कृपादृष्ट्या हरिं हरः ।
प्राह गम्भीरया वाचा प्रसन्नः पार्वतीपतिः ॥ ३३ ॥
शिव उवाच
ज्ञातं मयेदमधुना देवकार्यं सुरेश्वर ।
विष्णोर्मायाबलं चैव नारदस्य च धीमतः ॥ ३४ ॥
तेषामधर्मनिष्ठानां दैत्यानां देवसत्तम ।
पुरत्रयविनाशं च करिष्येऽहं न संशयः ॥ ३५ ॥
परन्तु ते महादैत्या मद्‌भक्ता दृढमानसाः ।
अथ वध्या मयैव स्युर्व्याजत्यक्तवृषोत्तमाः ॥ ३६ ॥
विष्णुर्हन्यात्परो वाथ यत्त्याजितवृषाः कृताः ।
दैत्या मद्‌भक्तिरहिताः सर्वे त्रिपुरवासिनः ॥ ३७ ॥
इति शम्भोस्तु वचनं श्रुत्वा सर्वे दिवौकसः ।
विमनस्का बभूवुस्ते हरिश्चापि मुनीश्वर ॥ ३८ ॥
देवान् विष्णुमुदासीनान् दृष्ट्‍वा च भवकृद्विधिः ।
कृताञ्जलिपुरः शम्भुं ब्रह्मा वचनमब्रवीत् ॥ ३९ ॥
ब्रह्मोवाच
न किञ्चिद्विद्यते पापं यस्मात्त्वं योगवित्तमः ।
परमेशः परब्रह्म सदा देवर्षिरक्षकः ॥ ४० ॥
तवैव शासनात्ते वै मोहिताः प्रेरको भवान् ।
त्यक्तस्वधर्मत्वत्पूजाः परवध्यास्तथापि न ॥ ४१ ॥
अतस्त्वया महादेव सुरर्षिप्राणरक्षक ।
साधूनां रक्षणार्थाय हन्तव्या म्लेच्छजातयः ॥ ४२ ॥
राज्ञस्तस्य न तत्पापं विद्यते धर्मतस्तव ।
तस्माद्‌रक्षेद्‌द्विजान् साधून् कंटकाद्वै विशोधयेत् ॥ ४३ ॥
एवमिच्छेदिहान्यत्र राजा चेद्‌राज्यमात्मनः ।
प्रभुत्वं सर्वलोकानां तस्माद्‌‍रक्षस्व मा चिरम् ॥ ४४ ॥
मुनीन्द्रेशास्तथा यज्ञा वेदाः शास्त्रादयोखिलाः ।
प्रजास्ते देवदेवेश ह्ययं विष्णुरपि ध्रुवम् ॥ ४५ ॥
देवता सार्वभौमस्त्वं सम्राट्सर्वेश्वरः प्रभो ।
परिवारस्तवैवैष हर्यादि सकलं जगत् ॥ ४६ ॥
युवराजो हरिस्तेऽज ब्रह्माहं ते पुरोहितः ।
राजकार्यकरः शक्रस्त्वदाज्ञापरिपालकः ॥ ४७ ॥
देवा अन्येपि सर्वेश तव शासनयन्त्रिताः ।
स्वस्वकार्यकरा नित्यं सत्यं सत्यं न संशयः ॥ ४८ ॥
सनत्कुमार उवाच
एतच्छ्रुत्वा वचस्तस्य ब्रह्मणः परमेश्वरः ।
प्रत्युवाच प्रसन्नात्मा शंकरःसुरपो विधिम् ॥ ४९ ॥
शिव उवाच
हे ब्रह्मन् यद्यहं देवराजःसम्राट् प्रकीर्त्तितः ।
तत्प्रकारो न मे कश्चिद्‌ गृह्णीयां यमिह प्रभुः ॥ ५० ॥
रथो नास्ति महादिव्यस्तादृक् सारथिना सह ।
धनुर्बाणादिकं चापि सङ्‌ग्रामे जयकारकम् ॥ ५१ ॥
यमास्थाय धनुर्बाणान् गृहीत्वा योज्य वै मनः ।
निहनिष्याम्यहं दैत्यान् प्रबलानपि सङ्‌गरे ॥ ५२ ॥
सनत्कुमार उवाच
अद्य सब्रह्मका देवाःसेन्द्रोपेन्द्राः प्रहर्षिताः ।
श्रुत्वा प्रभोस्तदा वाक्यं नत्वा प्रोचुर्महेश्वरम् ॥ ५३ ॥
देवा ऊचुः
वयं भवाम देवेश तत्प्रकारा महेश्वर ।
रथादिकाः तव स्वामिन्संनद्धाः सङ्‌गराय हि ॥ ५४ ॥
इत्युक्त्वा संहताः सर्वे शिवेच्छामधिगम्य ह ।
पृथगूचुः प्रसन्नास्ते कृताञ्जलिपुटाःसुराः ॥ ५५ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
पञ्चमे युद्धखण्डे शिवस्तुतिवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP