|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
पञ्चमोऽध्यायः
त्रिपुरमोहनम्
व्यास उवाच
दैत्यराजे दीक्षिते च मायिना तेन मोहिते । किमुवाच तदा मायी किं चकार स दैत्यपः ॥ १ ॥ सनत्कुमार उवाच दीक्षां दत्त्वा यतिस्तस्मा अरिहन्नारदादिभिः । शिष्यैःसेवितपादाब्जो दैत्यराजानमब्रवीत् ॥ २ ॥ अरिहन्नुवाच शृणु दैत्यपते वाक्यं मम सञ्ज्ञानगर्भितम् । वेदान्तसारसर्वस्वं रहस्यं परमोत्तमम् ॥ ३ ॥ अनादिसिद्धःसंसारः कर्तृकर्मविवर्जितः । स्वयं प्रादुर्भवत्येव स्वयमेव विलीयते ॥ ४ ॥ ब्रह्मादिस्तम्बपर्यन्तं यावद्देहनिबन्धनम् । आत्मैवैकेश्वरस्तत्र न द्वितीयस्तदीशिता ॥ ५ ॥ यद् ब्रह्मविष्णुरुद्राख्यास्तदाख्या देहिनामिमाः । आख्यायथास्मदादीनामरिहन्नादिरुच्यते ॥ ६ ॥ देहो यथास्मदादीनां स्वकालेन विलीयते । ब्रह्मादिमशकान्तानां स्वकालाल्लीयते तथा ॥ ७ ॥ विचार्यमाणे देहेऽस्मिन्न किञ्चिदधिकं क्वचित् । आहारो मैथुनं निद्रा भयं सर्वत्र यत्समम् ॥ ८ ॥ निराहारपरीमाणं प्राप्य सर्वो हि देहभृत् । सदृशीमेव सन्तृप्तिं प्राप्नुयान्नाधिकेतराम् ॥ ९ ॥ यथा वितृषिताः स्याम पीत्वा पेयं मुदा वयम् । तृषितास्तु तथान्येऽपि न विशेषोऽल्पकोधिकः ॥ १ ० ॥ सन्तु नार्यः सहस्राणि रूपलावण्यभूमयः । परं निधुवने काले ह्यैकेवेहोपयुज्यते ॥ ११ ॥ अश्वाः पराः शताःसन्तु सन्त्वेनेकेऽप्यनेकधा । अधिरोहे तथाप्येको न द्वितीयस्तथात्मनः ॥ १२ ॥ पर्यङ्कशायिनां स्वापे सुखं यदुपजायते । तदेव सौख्यं निद्राभिर्भूतभूशायिनामपि ॥ १३ ॥ यथैव मरणाद्भीतिरस्मदादिवपुष्मताम् । ब्रह्मादिकीटकान्तानां तथा मरणतो भयम् ॥ १४ ॥ सर्वे तनुभृतस्तुल्या यदि बुद्ध्या विचार्य्यते । इदं निश्चित्य केनापि नो हिंस्यः कोऽपि कुत्रचित् ॥ १५ ॥ धर्मो जीवदयातुल्यो न क्वापि जगतीतले । तस्मात्सर्वप्रयत्नेन कार्या जीवदया नृभिः ॥ १६ ॥ एकस्मिन् रक्षिते जीवे त्रैलोक्यं रक्षितं भवेत् । घातिते घातितं तद्वत्तस्माद्रक्षेन्न घातयेत् ॥ १७ ॥ अहिंसा परमो धर्मः पापमात्मप्रपीडनम् । अपराधीनता मुक्तिः स्वर्गोऽभिलषिताशनम् ॥ १८ ॥ पूर्वसूरिभिरित्युक्तं सत्प्रमाणतया ध्रुवम् । तस्मान्न हिंसा कर्त्तव्यो नरैर्नरकभीरुभिः ॥ १९ ॥ न हिंसासदृशं पापं त्रैलोक्ये सचराचरे । हिंसको नरकं गच्छेत्स्वर्गं गच्छेदहिंसकः ॥ २० ॥ सन्ति दानान्यनेकानि किं तैस्तुच्छफलप्रदैः । अभीतिसदृशं दानं परमेकमपीह न ॥ २१ ॥ इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः । विचार्य नानाशास्त्राणि शर्मणेऽत्र परत्र च ॥ २२ ॥ भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथोषधम् । देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे ॥ २३ ॥ यानि यानीह दानानि बहु मुन्युदितानि च । जीवाभयप्रदानस्य कलां नार्हन्ति षोडशीम् ॥ २४ ॥ अविचिन्त्य प्रभावं हि मणिमन्त्रौषधं बलम् । तदभ्यस्यं प्रयत्नेन नामार्थोपार्जनाय वै ॥ २९ ॥ अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै । परितः परिपूज्यानि किमन्यैरिह पूजितैः ॥ २६ ॥ पञ्चकर्मेन्द्रियग्रामाः पञ्च बुद्धीन्द्रियाणि च । मनो बुद्धिरिह प्रोक्तं द्वादशायतनं शुभम् ॥ २७ ॥ इहैव स्वर्गनरकौ प्राणिनां नान्यतः क्वचित् । सुखं स्वर्गः समाख्याता दुःखं नरकमेव हि ॥ २८ ॥ सुखेषु भुज्यमानेषु यत्स्याद्देहविसर्जनम् । अयमेव परो मोक्षो विज्ञेयस्तत्त्वचिन्तकैः ॥ २९ ॥ वासनासहिते क्लेशसमुच्छेदे सति ध्रुवम् । अज्ञानो परमो मोक्षो विज्ञेयस्तत्त्वचिन्तकैः ॥ ३० ॥ प्रामाणिकी श्रुतिरियं प्रोच्यते वेदवादिभिः । न हिंस्यात्सर्वभूतानि नान्या हिंसाप्रवर्तिका ॥ ३१ ॥ अग्निष्टोमीयमिति या भ्रामिका साऽसतामिह । न सा प्रमाणं ज्ञातॄणां पश्वालम्भनकारिका ॥ ३२ ॥
वृक्षांश्छित्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । दग्ध्वा वह्नौ तिलाज्यादि चित्रं स्वर्गोऽभिलष्यते ॥ ३३ ॥ इत्येवं स्वमतं प्रोच्य यतिस्त्रिपुरनायकम् । श्रावयित्वाखिलान् पौरानुवाच पुनरादरात् ॥ ३४ ॥ दृष्टार्थप्रत्ययकरान्देहसौख्यैकसाधकान् । बौद्धागम विनिर्दिष्टान्धर्मान्वेदपरांस्ततः ॥ ३५ ॥ आनन्दं ब्रह्मणो रूपं श्रुत्यैवं यन्निगद्यते । तत्तथैव ह मन्तव्यं मिथ्या नानात्वकल्पना ॥ ३६ ॥ यावत्स्वस्थमिदं वर्ष्म यावन्नेन्द्रियविक्लवः । यावज्जरा च दूरेऽस्ति तावत्सौख्यं प्रसाधयेत् ॥ ३७ ॥ अस्वास्थ्येन्द्रियवैकल्ये वार्द्धके तु कुतः सुखम् । शरीरमपि दातव्यमर्थिभ्योऽतःसुखेप्सुभिः ॥ ३८ ॥ याचमानमनोवृत्तिप्रीणने यस्य नो जनिः । तेन भूर्भारवत्येषा समुद्रागद्रुमैर्न हि ॥ ३९ ॥ सत्वरं गत्वरो देहः सञ्चयाः सपरिक्षयाः । इति विज्ञाय विज्ञाता देहसौख्यं प्रसाधयेत् ॥ ४० ॥ श्ववायसकृमीणां च प्रातर्भोज्यमिदं वपुः । भस्मान्तं तच्छरीरं च वेदे सत्यं प्रपठ्यते ॥ ४१ ॥ मुधा जातिविकल्पोऽयं लोकेषु परिकल्प्यते । मानुष्ये सति सामान्ये कोऽधर्मः कोऽथ चोत्तमः ॥ ४२ ॥ ब्रह्मादिसृष्टिरेषेति प्रोच्यते वृद्धपूरुषैः । तस्य जातौ सुतौ दक्षमरीची चेति विश्रुतौ ॥ ४३ ॥ मारीचेन कश्यपेन दक्षकन्याःसुलोचनाः । धर्मेण किल मार्गेण परिणीतास्त्रयोदश ॥ ४४ ॥ अपीदानीन्तनैर्मर्त्यैरल्पबुद्धिपराक्रमैः । अपि गम्यस्त्वगम्योऽयं विचारः क्रियते मुधा ॥ ४५ ॥ मुखबाहूरुसञ्जातं चातुर्वर्ण्यं सहोदितम् । कल्पनेयं कृता पूर्वैर्न घटेत विचारतः ॥ ४६ ॥ एकस्यां च तनौ जाता एकस्माद्यदि वा क्वचित् । चत्वारस्तनयास्तत्किं भिन्नवर्णत्वमाप्नुयुः ॥ ४७ ॥ वर्णावर्णविभागोऽयं तस्मान्न प्रतिभासते । अतो भेदो न मन्तव्यो मानुष्ये केनचित्क्वचित् ॥ ४८ ॥ सनत्कुमार उवाच इत्थमाभाष्य दैत्येशं पौरांश्च स यतिर्मुने । सशिष्यो वेदधर्माश्च नाशयामास चादरात् ॥ ४९ ॥ स्त्रीधर्मं खण्डयामास पातिव्रत्यपरं महत् । जितेन्द्रियत्वं सर्वेषां पुरुषाणां तथैव सः ॥ ५० ॥ देवधर्मान्विशेषेण श्राद्धधर्मांस्तथैव च । मखधर्मान्व्रतादींश्च तीर्थश्राद्धं विशेषतः ॥ ५१ ॥ शिवपूजां विशेषेण लिङ्गाराधनपूर्विकाम् । विष्णुसूर्यगणेशादिपूजनं विधिपूर्वकम् ॥ ५२ ॥ स्नानदानादिकं सर्वं पर्वकाले विशेषतः । खण्डयामास स यतिर्मायी मायाविनां वरः ॥ ५३ ॥ किं बहूक्तेन विप्रेन्द्र त्रिपुरे तेन मायिना । वेदधर्माश्च ये केचित्ते सर्वे दूरतः कृताः ॥ ५४ ॥ पतिधर्माश्रयाः सर्वा मोहितास्त्रिपुराङ्गनाः । भर्तृशुश्रूषणवतीं विजहुर्मतिमुत्तमाम् ॥ ५५ ॥ अभ्यस्याकर्षणीं विद्यां वशीकृत्यमयीमपि । पुरुषाः सफलीचक्रुः परदारेषु मोहिताः ॥ ५६ ॥ अन्तःपुरचरा नार्यस्तथा राजकुमारकाः । पौराः पुराङ्गनाश्चापि सर्वे तैश्च विमोहिताः ॥ ५७ ॥ एवं पौरेषु सर्वेषु निजधर्मेषु सर्वथा । पराङ्मुखेषु जातेषु प्रोल्ललास वृषेतरः ॥ ५८ ॥ माया च देवदेवस्य विष्णोस्तस्याज्ञया प्रभो । अलक्ष्मीश्च स्वयं तस्य नियोगात्त्रिपुरं गता ॥ ५९ ॥ या लक्ष्मीस्तपसा तेषां लब्धा देवेश्वराद्वरात् । बहिर्गता परित्यज्य नियोगाद्ब्रह्मणः प्रभोः ॥ ६० ॥ बुद्धिमोहं तथाभूतं विष्णोर्मायाविनिर्मितम् । तेषां दत्त्वा क्षणादेव कृतार्थोऽभूत्स नारदः ॥ ६१ ॥ नारदोपि तथारूपो यथा मायी तथैव सः । तथापि विकृतो नाभूतपारमेशादनुग्रहात् ॥ ६२ ॥ आसीत्कुण्ठितसामर्थ्यो दैत्यराजोऽपि भो मुने । भ्रातृभ्यां सहितस्तत्र मयेन च शिवेच्छया ॥ ६३ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरमोहनं नाम पञ्चमोऽध्यायः ॥ ५ ॥ श्रीगौरीशंकरार्पणमस्तु |