॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

चतुर्थोऽध्यायः

सनत्कुमारपाराशर्य संवादे त्रिपुरदीक्षाविधानम्


सनत्कुमार उवाच
असृजच्च महातेजाः पुरुषं स्वात्मसम्भवम् ।
एकं मायामयं तेषां धर्मविघ्नार्थमच्युतः ॥ १ ॥
मुण्डिनं म्लानवस्त्रं च गुंफिपात्रसमन्वितम् ।
दधानं पुञ्जिकां हस्ते चालयन्तं पदेपदे ॥ २ ॥
वस्त्रयुक्तं तथा हस्तं क्षीयमाणं मुखे सदा ।
धर्मेति व्याहरन्तं हि वाचा विक्लवया मुनिम् ॥ ३ ॥
स नमस्कृत्य विष्णुं तं तत्पुरः संस्थितोऽथ वै ।
उवाच वचनं तत्र हरिं स प्राञ्जलिस्तदा ॥ ४ ॥
अरिहन्नच्युतं पूज्यं किं करोमि तदादिश ।
कानि नामानि मे देव स्थानं वापि वद प्रभो ॥ ५ ॥
इत्येवं भगवान्विष्णुः श्रुत्वा तस्य शुभं वचः ।
प्रसन्नमानसो भूत्वा वचनं चेदमब्रवीत् ॥ ६ ॥
विष्णुरुवाच
यदर्थं निर्मितोऽसि त्वं निबोध कथयामि ते ।
मदङ्‌गज महाप्राज्ञ मद्‌रूपस्त्वं न संशयः ॥ ७ ॥
ममाङ्‌गाच्च समुत्पन्नो मत्कार्यं कर्तुमर्हसि ।
मदीयस्त्वं सदा पूज्यो भविष्यति न संशयः ॥ ८ ॥
अरिहन्नाम ते स्यात्तु ह्यन्यानि न शुभानि च ।
स्थानं वक्ष्यामि ते पश्चाच्छृणु प्रस्तुतमादरात् ॥ ९ ॥
मायिन्मायामयं शास्त्रं तत्षोडशसहस्रकम् ।
श्रौतस्मार्तविरुद्धं च वर्णाश्रमविवर्जितम् ॥ १० ॥
अपभ्रंशमयं शास्त्रं कर्मवादमयं तथा ।
रचयेति प्रयत्नेन तद्विस्तारो भविष्यति ॥ ११ ॥
ददामि तव निर्माणे सामर्थ्यं तद्‌भविष्यति ।
माया च विविधा शीघ्रं त्वदधीना भविष्यति ॥ १२ ॥
तच्छ्रुत्वा वचनं तस्य हरेश्च परमात्मनः ।
नमस्कृत्य प्रत्युवाच स मायी तं जनार्दनम् ॥ १३ ॥
मुण्ड्युवाच
यत्कर्तव्यं मया देव द्रुतमादिश तत्प्रभो ।
त्वदाज्ञयाखिलं कर्म सफलश्च भविष्यति ॥ १४ ॥
सनत्कुमार उवाच
इत्युक्त्वा पाठयामास शास्त्रं मायामयं तथा ।
इहैव स्वर्गनरकप्रत्ययो नान्यथा पुनः ॥ १५ ॥
तमुवाच पुनर्विष्णुः स्मृत्वा शिवपदाम्बुजम् ।
मोहनीया इमे दैत्याः सर्वे त्रिपुरवासिनः ॥ १६ ॥
कार्यास्ते दीक्षिता नूनं पाठनीयाः प्रयत्नतः ।
मदाज्ञया न दोषस्ते भविष्यति महामते ॥ १७ ॥
धर्मास्तत्र प्रकाशन्ते श्रौतस्मार्त्ता न संशयः ।
अनया विद्यया सर्वे स्फोटनीया ध्रुवं यते ॥ १८ ॥
गन्तुमर्हसि नाशार्थं मुण्डिंस्त्रिपुरवासिनाम् ।
तमोधर्मं सम्प्रकाश्य नाशयस्व पुरत्रयम् ॥ १९ ॥
ततश्चैव पुनर्गत्वा मरुस्थल्यां त्वया विभो ।
स्थातव्यं च स्वधर्मेण कलिर्यावत्समाव्रजेत् ॥ २० ॥
प्रवृत्ते तु युगे तस्मिन्स्वीयो धर्मः प्रकाश्यताम् ।
शिष्यैश्च प्रतिशिष्यैश्च वर्तनीयस्त्वया पुनः ॥ २१ ॥
मदाज्ञया भवद्धर्मो विस्तारं यास्यति ध्रुवम् ।
मदनुज्ञापरो नित्यं गतिं प्राप्स्यसि मामकीम् ॥ २२ ॥
एवमाज्ञा तदा दत्ता विष्णुना प्रभविष्णुना ।
शासनाद्देवदेवस्य हृदा त्वन्तर्दधे हरिः ॥ २३ ॥
ततःस मुण्डी परिपालयन्हरे
    राज्ञां तथा निर्मितवांश्च शिष्यान् ।
यथास्वरूपं चतुरस्तदानीं
    मायामयं शास्त्रमपाठयत्स्वयम् ॥ २४ ॥
यथा स्वयं तथा ते च चत्वारो मुण्डिनः शुभाः ।
नमस्कृत्य स्थितास्तत्र हरये परमात्मने ॥ २५ ॥
हरिश्चापि मुनेस्तत्र चतुरस्तांस्तदा स्वयम् ।
उवाच परमप्रीतः शिवाज्ञापरिपालकः ॥ २६ ॥
यथा गुरुस्तथा यूयं भविष्यथ मदाज्ञया ।
धन्याः स्थ सद्‌गतिमिह सम्प्राप्स्यथ न संशयः ॥ २७ ॥
चत्वारो मुण्डिनस्तेऽथ धर्मं पाषण्डमाश्रिताः ।
हस्ते पात्रं दधानाश्च तुण्डवस्त्रस्य धारकाः ॥ २८ ॥
मलिनान्येव वासांसि धारयन्तो ह्यभाषिणः ।
धर्मो लाभः परं तत्त्वं वदन्तस्त्वतिहर्षतः ॥ २९ ॥
मार्जनीं ध्रियमाणाश्च वस्त्रखण्डविनिर्मिताम् ।
शनैः शनैश्चलन्तो हि जीवहिंसाभयाद्ध्रुवम् ॥ ३० ॥
ते सर्वे च तदा देवं भगवन्तं मुदान्विताः ।
नमस्कृत्य पुनस्तत्र मुने तस्थुस्तदग्रतः ॥ ३१ ॥
हरिणा च तदा हस्ते धृत्वा च गुरवेर्पिताः ।
अभ्यधायि च सुप्रीत्या तन्नामापि विशेषतः ॥ ३२ ॥
यथा त्वं च तथैवैते मदीया वै न संशयः ।
आदिरूपं च तन्नाम पूज्यत्वात्पूज्य उच्यते ॥ ३३ ॥
ऋषिर्यतिस्तथाकीर्य उपाध्याय इति स्वयम् ।
इमान्यपि तु नामानि प्रसिद्धानि भवन्तु वः ॥ ३४ ॥
ममापि च भवद्‌भिश्च नाम ग्राह्यं शुभं पुनः ।
अरिहन्निति तन्नाम ध्येयं पापप्रणाशनम् ॥ ३५ ॥
भवद्‌भिश्चैव कर्तव्यं कार्यं लोकसुखावहम् ।
लोकानुकूलं चरतां भविष्यत्युत्तमा गतिः ॥ ३६ ॥
सनत्कुमार उवाच
ततः प्रणम्य तं मायी शिष्ययुक्तःस्वयं तदा ।
जगाम त्रिपुरं सद्यः शिवेच्छाकारिणं मुमा ॥ ३७ ॥
प्रविश्य तत्पुरं तूर्णं विष्णुना नोदितो वशी ।
महामायाविना तेन ऋषिर्मायां तदाकरोत् ॥ ३८ ॥
नगरोपवने कृत्वा शिष्यैर्युक्तः स्थितिं तदा ।
मायां प्रवर्तयामास मायिनामपि मोहिनीम् ॥ ३९ ॥
शिवार्चनप्रभावेण तन्माया सहसा मुने ।
त्रिपुरे न चचालाशु निर्विण्णोऽभूत्तदा यतिः ॥ ४० ॥
अथ विष्णुं स सस्मार तुष्टाव च हृदा बहु ।
नष्टोत्साहो विचेतस्को हृदयेन विदूयता ॥ ४१ ॥
तत्स्मृतस्त्वरितं विष्णुःसस्मार शंकरं हृदि ।
प्राप्याज्ञां मनसा तस्य स्मृतवान्नारदं द्रुतम् ॥ ४२ ॥
स्मृतमात्रेण विष्णोश्च नारदः समुपस्थितः ।
नत्वा स्तुत्वा पुरस्तस्य स्थितोभूत्साञ्जलिस्तदा ॥ ४३ ॥
अथ तं नारदं प्राह विष्णुर्मनिमतां वरः ।
लोकोपकारनिरतो देवकार्यकरःसदा ॥ ४४ ॥
शिवाज्ञयोच्यते तात गच्छ त्वं त्रिपुरं द्रुतम् ।
ऋषिस्तत्र गतः शिष्यैर्मोहार्थं तत्सुवासिनाम् ॥ ४५ ॥
सनत्कुमार उवाच
इत्याकर्ण्य वचस्तस्य नारदो मुनिसत्तमः ।
गतस्तत्र द्रुतं यत्र स ऋषिर्मायिनां वरः ॥ ४६ ॥
नारदोऽपि तथा मायी नियोगान्मायिनः प्रभोः ।
प्रविश्य तत्पुरं तेन मायिना सह दीक्षितः ॥ ४७ ॥
ततश्च नारदो गत्वा त्रिपुराधीशसन्निधौ ।
क्षेमप्रश्नादिकं कृत्वा राज्ञे सर्वं न्यवेदयत् ॥ ४८ ॥
नारद उवाच
कश्चित्समागतश्चात्र यतिर्धर्मपरायणः ।
सर्वविद्याप्रकृष्टो हि वेदविद्यापरान्वितः ॥ ४९ ॥
दृष्ट्‍वा च बहवो धर्मा नैतेन सदृशाः पुनः ।
वयं सुदीक्षिताश्चात्र दृष्ट्‍वा धर्मं सनातनम् ॥ ५० ॥
तवेच्छा यदि वर्तेत तद्धर्मे दैत्यसत्तम ।
तद्धर्मस्य महाराज ग्राह्या दीक्षा त्वया पुनः ॥ ५१ ॥
सनत्कुमार उवाच
तदीयं स वचः श्रुत्वा महदर्थसुगर्भितम् ।
विस्मितो हृदि दैत्येशो जगौ तत्र विमोहितः ॥ ५२ ॥
नारदो दीक्षितो यस्माद्वयं दीक्षामवाप्‍नुमः ।
इत्येवं च विदित्वा वै जगाम स्वयमेव ह ॥ ५३ ॥
तद्‌रूपं च तदा दृष्ट्‍वा मोहितो मायया तथा ।
उवाच वचनं तस्मै नमस्कृत्य महात्मने ॥ ५४ ॥
त्रिपुराधिप उवाच
दीक्षा देया त्वया मह्यं निर्मलाशय भो ऋषे ।
अहं शिष्यो भविष्यामि सत्यं सत्यं न संशयः ॥ ५५ ॥
इत्येवं तु वचः श्रुत्वा दैत्यराजस्य निर्मलम् ।
प्रत्युवाच सुयत्नेन ऋषिः स च सनातनः ॥ ५६ ॥
मदीया करणीया स्याद्यद्याज्ञा दैत्यसत्तम ।
तदा देया मया दीक्षा नान्यथा कोटियत्नतः ॥ ५७ ॥
इत्येवं तु वचः श्रुत्वा राजा मायामयोऽभवत् ।
उवाच वचनं शीघ्रं यतिं तं हि कृताञ्जलिः ॥ ५८ ॥
दैत्य उवाच
यथाज्ञां दास्यसि त्वं च तत्तथैव न चान्यथा ।
त्वदाज्ञां नोल्लङ्‌घयिष्ये सत्यं सत्यं न संशयः ॥ ५९ ॥
सनत्कुमार उवाच
इत्याकर्ण्य वचस्तस्य त्रिपुराधीशितुस्तदा ।
दूरीकृत्य मुखाद्‌वस्त्रमुवाच ऋषिसत्तमः ॥ ६० ॥
दीक्षां गृह्णीष्व दैत्येन्द्र सर्वधर्मोत्तमोत्तमाम् ।
ददौ दीक्षाविधानेन प्राप्स्यसि त्वं कृतार्थताम् ॥ ६१ ॥
इत्युक्त्वा स तु मायावी दैत्यराजाय सत्वरम् ।
ददौ दीक्षां स्वधर्मोक्तां तस्मै विधिविधानतः ॥ ६२ ॥
दैत्यराजे दीक्षिते च तस्मिन्ससहजे मुने ।
सर्वे च दीक्षिता जातास्तत्र त्रिपुरवासिनः ॥ ६३ ॥
मुनेः शिष्यैः प्रशिष्यैश्च व्याप्तमासीद् द्रुतं तदा ।
महामायाविनस्तत्तु त्रिपुरं सकलं मुने ॥ ६४ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
पञ्चमे युद्धखण्डे सनत्कुमारपाराशर्य संवादे
त्रिपुरदीक्षाविधानं नाम चतुर्थोऽध्यायः ॥ ४ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP