॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

तृतीयोऽध्यायः

त्रिपुरवधोपाख्याने भूतत्रिपुरधर्मवर्णनम्


शिव उवाच
अयं वै त्रिपुराध्यक्ष पुण्यवान्वर्ततेऽधुना ।
यत्र पुण्यं प्रवर्तेत न हन्तव्यो बुधैः क्वचित् ॥ १ ॥
जानामि देवकष्टं च विबुधाः सकलं महत् ।
दैत्यास्ते प्रबला हन्तुमशक्यास्तु सुरासुरैः ॥ २ ॥
पुण्यवन्तस्तु ते सर्वे समयास्तारकात्मजाः ।
दुःसाध्यस्तु वधस्तेषां सर्वेषां पुरवासिनाम् ॥ ३ ॥
मित्रद्रोहं कथं जानन्करोमि रणकर्कशः ।
सुहृद्द्रोहे महत्पापं पूर्वमुक्तं स्वयम्भुवा ॥ ४ ॥
ब्रह्मघ्नं च सुरापे च स्तेये भग्नव्रते तथा ।
निष्कृतिर्विहिता सद्‌भिः कृतघ्ने नास्ति निष्कृतिः ॥ ५ ॥
मम भक्तास्तु ते दैत्या मया वध्या कथं सुराः ।
विचार्यतां भवद्‌भिश्च धर्मज्ञैरेव धर्मतः ॥ ६ ॥
तावत्ते नैव हन्तव्या यावद्‌भक्तिकृतश्च मे ।
तथापि विष्णवे देवा निवेद्यं कारणं त्विदम् ॥ ७ ॥
सनत्कुमार उवाच
इत्येवं तद्वचः श्रुत्वा देवाः शक्रपुरोगमाः ।
न्यवेदयन् द्रुतं सर्वे ब्रह्मणे प्रथमं मुने ॥ ८ ॥
ततो विधिं पुरस्कृत्य सर्वे देवाः सवासवाः ।
वैकुण्ठं प्रययुः शीघ्रं सर्वे शोभासमन्वितम् ॥ ९ ॥
तत्र गत्वा हरिं दृष्ट्‍वा प्रणेमुर्जातसम्भ्रमाः ।
तुष्टुवुश्च महाभक्त्या कृताञ्जलिपुटाः सुराः ॥ १० ॥
स्वदुःखकारणं सर्वं पूर्ववत्तदनन्तरम् ।
न्यवेदयन्द्रुतं तस्मै विष्णवे प्रभविष्णवे ॥ ११ ॥
देवदुःखं ततः श्रुत्वा दत्तं च त्रिपुरालये ।
ज्ञात्वा व्रतं च तेषां तद्विष्णुर्वचनमब्रवीत् ॥ १२ ॥
विष्णुरुवाच
इदं सत्यं वचश्चैव यत्र धर्मः सनातनः ।
तत्र दुःखं न जायेत सूर्ये दृष्टे यथा तमः ॥ १३ ॥
सनत्कुमार उवाच
इत्येतद्वचनं श्रुत्वा देवा दुःखमुपागताः ।
पुनरूचुस्तथा विष्णुं परिम्लानमुखाम्बुजाः ॥ १४ ॥
देवा ऊचुः
कथं चैव प्रकर्त्तव्यं कथं दुःखं निरस्यते ।
कथं भवेम सुखिनः कथं स्थास्यामहे वयम् ॥ १५ ॥
कथं धर्मा भविष्यन्ति त्रिपुरे जीविते सति ।
देवदुःखप्रदा नूनं सर्वे त्रिपुरवासिनः ॥ १६ ॥
किं वा ते त्रिपुरस्येह वधश्चैव विधीयताम् ।
नोचेदकालिकी देवसंहतिः क्रियतां ध्रुवम् ॥ १७ ॥
सनत्कुमार उवाच
इत्युक्त्वा ते तदा देवा दुःखं कृत्वा पुनः पुनः ।
स्थितिं नैव गतिं ते वै चक्रुर्देववरादिह ॥ १८ ॥
तान्वै तथाविधान्दृष्ट्‍वा हीनान्विनयसंयुतान् ।
सोपि नारायणः श्रीमांश्चिन्तयंश्चेतसा तथा ॥ १९ ॥
किं कार्यं देवकार्येषु मया देवसहायिना ।
शिवभक्तास्तु ते दैत्यास्तारकस्य सुता इति ॥ २० ॥
इति सञ्चिन्त्य तत्काले विष्णुना प्रभविष्णुना ।
ततो यज्ञाः स्मृतास्तेन देवकार्यार्थमक्षयाः ॥ २१ ॥
तद्विष्णुस्मृतिमात्रेण यज्ञास्ते तत्क्षणं द्रुतम् ।
आगतास्तत्र यत्रास्ते श्रीपतिः पुरुषोत्तमः ॥ २२ ॥
ततो विष्णुं यज्ञपतिं पुराणं पुरुषं हरिम् ।
प्रणम्य तुष्टुवुस्ते वै कृताञ्जलिपुटास्तदा ॥ २३ ॥
भगवानपि तान्दृष्ट्‍वा यज्ञान्प्राह सनातनम् ।
सनातनस्तदा सेन्द्रान्देवानालोक्य चाच्युतः ॥ २४ ॥
विष्णुरुवाच
अनेनैव सदा देवा यजध्वं परमेश्वरम् ।
पुरत्रयविनाशाय जगत्त्रयविभूतये ॥ २५ ॥
सनत्कुमार उवाच
अच्युतस्य वचः श्रुत्वा देवदेवस्य धीमतः ।
प्रेम्णा ते प्रणतिं कृत्वा यज्ञेशं तेऽस्तुवन्सुराः ॥ २६ ॥
एवं स्तुत्वा ततो देवा अजयन्यज्ञपूरुषम् ।
यज्ञोक्तेन विधानेन सम्पूर्णविधयो मुने ॥ २७ ॥
ततस्तस्माद्यज्ञकुण्डात्समुत्पेतुः सहस्रशः ।
भूतसङ्‌घा महाकायाः शूलशक्तिगदायुधाः ॥ २८ ॥
ददृशुस्ते सुरास्तान् वै भूतसङ्‌घान् सहस्रशः ।
शूल शक्तिगदाहस्तान्दण्डचापशिलायुधान् ॥ २९ ॥
नानाप्रहरणोपेतान् नानावेषधराँस्तथा ।
कालाग्निरुद्रसदृशान्कालसूर्योपमाँस्तदा ॥ ३० ॥
दृष्ट्‍वा तानब्रवीद्विष्णुः प्रणिपत्य पुरःस्थितान् ।
भूतान्यज्ञपतिः श्रीमान् रुद्राज्ञाप्रतिपालकः ॥ ३१ ॥
विष्णुरुवाच
भूताः शृणुत मद्वाक्यं देवकार्यार्थमुद्यताः ।
गच्छन्तु त्रिपुरं सद्यः सर्वे हि बलवत्तराः ॥ ३२ ॥
गत्वा दग्ध्वा च भित्त्वा च भङ्क्त्वा दैत्यपुरत्रयम् ।
पुनर्यथागता भूतागन्तुमर्हथ भूतये ॥ ३३ ॥
सनत्कुमार उवाच
तच्छ्रुत्वा भगवद्वाक्यं ततो भूतगणाश्च ते ।
प्रणम्य देवदेवं तं ययुर्दैत्यपुरत्रयम् ॥ ३४ ॥
गत्वा तत्प्रविशन्तश्च त्रिपुराधिपतेजसि ।
भस्मसादभवन्सद्यः शलभा इव पावके ॥ ३५ ॥
अवशिष्टाश्च ये केचित्पलायनपरायणाः ।
निःसृत्यारं समायाता हरेर्निकटमाकुलाः ॥ ३६ ॥
तान्दृष्ट्‍वा स हरिः श्रुत्वा तच्च वृत्तमशेषतः ।
चिन्तयामास भगवान्मनसा पुरुषोत्तमः ॥ ३७ ॥
किं कृत्यमधुना कार्यमिति सन्तप्तमानसः ।
सन्तप्तानमरान्सर्वानाज्ञाय च सवासवान् ॥ ३८ ॥
कथं तेषां च दैत्यानां बलाद्धत्वा पुरत्रयम् ।
देवकार्यं करिष्यामीत्यासीच्चिन्तासमाकुलः ॥ ३९ ॥
नाशोऽभिचारतो नास्ति धर्मिष्ठानां न संशयः ।
इति प्राह स्वयं चेशः श्रुत्याचारप्रमाणकृत् ॥ ४० ॥
दैत्याश्च ते हि धर्मिष्ठाःसर्वे त्रिपुरवासिनः ।
तस्मादवध्यतां प्राप्ता नान्यथासुरपुङ्‌गवाः ॥ ४१ ॥
कृत्वा तु सुमहत्पापं रुद्रमभ्यर्चयन्ति ते ।
मुच्यन्ते पातकैः सर्वैः पद्मपत्रमिवाम्भसा ॥ ४२ ॥
रुद्राभ्यर्चनतो देवाः सर्वे कामा भवन्ति हि ।
नानोपभोगसम्पत्तिर्वश्यतां याति वै भुवि ॥ ४३ ॥
तस्मात्तद्‌भोगिनो दैत्या लिङ्‌गार्चनपरायणाः ।
अनेकविधसम्पत्तेर्मोक्षस्यापि परत्र च ॥ ४४ ॥
ततः कृत्वा धर्मविघ्नं तेषामेवात्ममायया ।
दैत्यानां देवकार्यार्थं हरिष्ये त्रिपुरं क्षणात् ॥ ४५ ॥
विचार्येत्थं ततस्तेषां भगवान्पुरुषोत्तमः ।
कर्तुं व्यवस्थितः पश्चाद्धर्मविघ्नं सुरारिणाम् ॥ ४६ ॥
यावच्च वेद धर्मास्तु यावद्वै शंकरार्चनम् ।
यावच्च शुचिकृत्यादि तावन्नाशो भवेन्न हि ॥ ४७ ॥
तस्मादेवं प्रकर्तव्यं वेदधर्मस्ततो व्रजेत् ।
त्यक्तलिङ्‌गार्चना दैत्या भविष्यन्ति न संशयः ॥ ४८ ॥
इति निश्चित्य वै विष्णुर्विघ्नार्थमकरोत्तदा ।
तेषां धर्मस्य दैत्यानामुपायं श्रुति खण्डनम् ॥ ४९ ॥
तदैवोवाच देवान्स विष्णुर्देवसहायकृत् ।
शिवाज्ञया शिवेनैवाज्ञप्तस्त्रैलोक्यरक्षणे ॥ ५० ॥
विष्णुरुवाच
हे देवाः सकला यूयं गच्छत स्वगृहान्ध्रुवम् ।
देवकार्यं करिष्यामि यथामति न संशयः ॥ ५१ ॥
तान् रुद्राद्विमुखान्नूनं करिष्यामि सुयत्नतः ।
स्वभक्तिरहितान् ज्ञात्वा तान्करिष्यति भस्मसात् ॥ ५२ ॥
सनत्कुमार उवाच
तदाज्ञां शिरसाधायश्वासितास्तेऽमरा मुने ।
स्वस्वधामानि विश्वस्ता ययुः परममोदिताः ॥ ५३ ॥
ततश्चैवाकरोद्विष्णुर्देवार्थं हितमुत्तमम् ।
तदेव श्रूयतां सम्यक्सर्वपापप्रणाशनम् ॥ ५४ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे
त्रिपुरवधोपाख्याने भूतत्रिपुरधर्मवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP