|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
द्वितीयोऽध्यायः
देवस्तुति
व्यास उवाच
ब्रह्मपुत्र महाप्राज्ञ वद मे वदतां वर । ततः किमभवद्देवाः कथं च सुखिनोऽभवन् ॥ १ ॥ ब्रह्मोवाच इत्याकर्ण्य वचस्तस्य व्यासस्यामितधीमतः । सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम् ॥ २ ॥ सनत्कुमार उवाच अथ तत्प्रभया दग्धा देवा हीन्द्रादयस्तथा । संमन्त्र्य दुःखिताः सर्वे ब्रह्माणं शरणं ययुः ॥ ३ ॥ नत्वा पितामहं प्रीत्या परिक्षिप्ताखिलाः सुराः । दुःखं विज्ञापयामासुर्विलोक्यावसरं ततः ॥ ४ ॥ देवा ऊचुः धातस्त्रिपुरनाथेन सतारकसुतेन हि । सर्वे प्रतापिता नूनं मयेन त्रिदिवौकसः ॥ ५ ॥ अतस्ते शरणं याता दुःखिता हि विधे वयम् । कुरु त्वं तद्वधोपायं सुखिनः स्याम तद्यथा ॥ ६ ॥ सनत्कुमार उवाच इति विज्ञापितो देवैर्विहस्य भवकृद्विधिः । प्रत्युवाचाथ तान्सर्वान्मयतो भीतमानसान् ॥ ७ ॥ ब्रह्मोवाच न भेतव्यं सुरास्तेभ्यो दानवेभ्यो विशेषतः । आचक्षे तद्वधोपायं शिवं शर्वः करिष्यति ॥ ८ ॥ मत्तो विवर्धितो दैत्यो वधं मत्तो न चार्हति । तथापि पुण्यं वर्द्धेत नगरे त्रिपुरे पुनः ॥ ९ ॥ शिवं च प्रार्थयध्वं वै सर्वे देवाः सवासवाः । सर्वाधीशः प्रसन्नश्चेत्स वः कार्यं करिष्यति ॥ १० ॥ सनत्कुमार उवाच इत्याकर्ण्य विधेर्वाणीं सर्वे देवाः सवासवाः । दुखितास्ते ययुस्तत्र यत्रास्ते वृषभध्वजः ॥ ११ ॥ प्रणम्य भक्त्या देवेशं सर्वे प्राञ्जलयस्तदा । तुष्टुवुर्विनतस्कन्धाः शंकरं लोकशंकरम् ॥ १२ ॥ देवा ऊचुः नमो हिरण्यगर्भाय सर्वसृष्टिविधायिने । नमः स्थितिकृते तुभ्यं विष्णवे प्रभविष्णवे ॥ १३ ॥ नमो हरस्वरूपाय भूतसंहारकारिणे । निर्गुणाय नमस्तुभ्यं शिवायामित तेजसे ॥ १४ ॥ अवस्थारहितायाथ निर्विकाराय वर्चसे । महाभूतात्मभूताय निर्लिप्ताय महात्मने ॥ १५ ॥ नमस्ते भूतपतये महाभारसहिष्णवे । तृष्णाहराय निर्वैराकृतये भूरितेजसे ॥ १६ ॥ महादैत्यमहारण्यनाशिने दाववह्नये । दैत्यद्रुमकुठाराय नमस्ते शूलपाणये ॥ १७ ॥ महादनुजनाशाय नमस्ते परमेश्वर । अम्बिकापतये तुभ्यं नमः सर्वास्त्रधारक ॥ १८ ॥ नमस्ते पार्वतीनाथ परमात्मन्महेश्वर । नीलकण्ठाय रुद्राय नमस्ते रुद्ररूपिणे ॥ १९ ॥ नमो वेदान्तवेद्याय मार्गातीताय ते नमः । नमोगुणस्वरूपाय गुणिने गुणवर्जिते ॥ २० ॥ महादेव नमस्तुभ्यं त्रिलोकीनन्दनाय च । प्रद्युम्नायानिरुद्धाय वासुदेवाय ते नमः ॥ २१ ॥ सङ्कर्षणाय देवाय नमस्ते कंसनाशिने । चाणूरमर्दिने तुभ्यं दामोदर विषादिने ॥ २२ ॥ हृषीकेशाच्युत विभो मृड शंकर ते नमः । अधोक्षज गजाराते कामारे विषभक्षणः ॥ २३ ॥ नारायणाय देवाय नारायणपराय च । नारायणस्वरूपाय नाराणयतनूद्भव ॥ २४ ॥ नमस्ते सर्वरूपाय महानरकहारिणे । पापापहारिणे तुभ्यं नमो वृषभवाहन ॥ २५ ॥ क्षणादिकालरूपाय स्वभक्तबलदायिने । नानारूपाय रूपाय दैत्यचक्रविमर्दिने ॥ २६ ॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । सहस्रमूर्त्तये तुभ्यं सहस्रावयवाय च ॥ २७ ॥ धर्मरूपाय सत्त्वाय नमः सत्त्वात्मने हर । वेदवेद्यस्वरूपाय नमो वेदप्रियाय च ॥ २८ ॥ नमो वेदस्वरूपाय वेदवक्त्रे नमो नमः । सदाचाराध्वगम्याय सदाचाराध्वगामिने ॥ २९ ॥ विष्टरश्रवसे तुभ्यं नमः सत्यमयाय च । सत्यप्रियाय सत्याय सत्यगम्याय ते नमः ॥ ३० ॥
नमस्ते मायिने तुभ्यं मायाधीशाय वै नमः । ब्रह्मगाय नमस्तुभ्यं ब्रह्मणे ब्रह्मजाय च ॥ ३१ ॥ तपसे ते नमस्त्वीश तपसा फलदायिने । स्तुत्याय स्तुतये नित्यं स्तुतिसम्प्रीतचेतसे ॥ ३२ ॥ श्रुत्याचारप्रसन्नाय स्तुत्याचारप्रियाय च । चतुर्विधस्वरूपाय जलस्थलजरूपिणे ॥ ३३ ॥ सर्वे देवादयो नाथ श्रेष्ठत्वेन विभूतयः । देवानामिन्द्ररूपोऽसि ग्रहाणां त्वं रविर्मतः ॥ ३४ ॥ सत्यलोकोऽसि लोकानां सरितां द्युसरिद्भवान् । श्वेतवर्णोऽसि वर्णानां सरसां मानसं सरः ॥ ३५ ॥ शैलानां गिरिजातातः कामधुक्त्वं च गोषु ह । क्षीरोदधिस्तु सिन्धूनां धातूनां हाटको भवान् ॥ ३६ ॥ वर्णानां ब्राह्मणोऽसि त्वं नृणां राजासि शंकर । मुक्तिक्षेत्रेषु काशी त्वं तीर्थानां तीर्थराड् भवान् ॥ ३७ ॥ उपलेषु समस्तेषु स्फटिकस्त्वं महेश्वर । कमलस्त्वं प्रसूनेषु शैलेषु हिमवांस्तथा ॥ ३८ ॥ भवान्वाग्व्यवहारेषु भार्गवस्त्वं कविष्वपि । पक्षिष्वेवासि शरभः सिंहो हिंस्रेषु संमतः ॥ ३९ ॥ शालग्रामशिला च त्वं शिलासु वृषभध्वज । पूज्य रूपेषु सर्वेषु नर्मदालिङ्गमेव हि ॥ ४० ॥ नन्दीश्वरोऽसि पशुषु वृषभः परमेश्वर । वेदेषूपनिषद्रूपी यज्वनां शीतभानुमान् ॥ ४१ ॥ प्रतापिनां पावकस्त्वं शैवानामच्युतो भवान् । भारतं त्वं पुराणानां मकारोऽस्यक्षरेषु च ॥ ४२ ॥ प्रणवो बीजमन्त्राणां दारुणानां विषं भवान् । व्योमव्याप्तिमतां त्वं वै परमात्मासि चात्मनाम् ॥ ४३ ॥ इन्द्रियाणां मनश्च त्वं दानानामभयं भवान् । पावनानां जलं चासि जीवनानां तथा मतम् ॥ ४४ ॥ लाभानां पुत्रलाभोऽसि वायुर्वेगवतामसि । नित्यकर्मसु सर्वेषु सन्ध्योपास्तिर्भवान्मतः ॥ ४५ ॥ क्रतूनामश्वमेधोऽसि युगानां प्रथमो युगः । पुष्यस्त्वं सर्वधिण्यानाममावास्या तिथिष्वसि ॥ ४६ ॥ सर्वर्तुषु वसन्तस्त्वं सर्वपर्वसु सङ्क्रमः । कुशोऽसि तृणजातीनां स्थूलवृक्षेषु वै वटः ॥ ४७ ॥ योगेषु च व्यतीपातःसोमवल्ली लतासु च । बुद्धीनां धर्मबुद्धिस्त्वं कलत्रं सुहृदां भवान् ॥ ४८ ॥ साधकानां शुचीनां त्वं प्राणायामो महेश्वर । ज्योतिर्लिङ्गेषु सर्वेषु भवान् विश्वेश्वरो मतः ॥ ४९ ॥ धर्मस्त्वं सर्वबन्धूनामाश्रमाणां परो भवान् । मोक्षस्त्वं सर्ववर्णेषु रुद्राणां नीललोहितः ॥ ५० ॥ आदित्यानां वासुदेवो हनूमान्वानरेषु च । यज्ञानां जपयज्ञोऽसि रामः शस्त्रभृतां भवान् ॥ ५१ ॥ गन्धर्वाणां चित्ररथो वसूनां पावको ध्रुवम् । मासानामधिमासस्त्वं व्रतानां त्वं चतुर्दशी ॥ ५२ ॥ ऐरावतो गजेन्द्राणां सिद्धानां कपिलो मतः । अनन्तस्त्वं हि नागानां पितॄणामर्यमा भवान् ॥ ५३ ॥ कालः कलयतां च त्वं दैत्यानां बलिरेव च । किं बहूक्तेन देवेश सर्वं विष्टभ्य वै जगत् ॥ ५४ ॥ एकांशेन स्थितस्त्वं हि बहिःस्थोऽन्वित एव च ॥ ५५ ॥ सनत्कुमार उवाच इति स्तुत्वा सुराः सर्वे महादेवं वृषध्वजम् । स्तोत्रैर्नानाविधैदिंव्यैः शूलिनं परमेश्वरम् ॥ ५६ ॥ प्रत्यूचुः प्रस्तुतं दीनाःस्वार्थं स्वार्थविचक्षणाः । वासवाद्या नतस्कधाः कृताञ्जलि पुटा मुने ॥ ५७ ॥ देवा ऊचुः पराजिता महादेव भ्रातृभ्यां सहितेन तु । भगवंस्तारकोत्पन्नैः सर्वे देवाः सवासवाः ॥ ५८ ॥ त्रैलोक्यं स्ववशं नीतं तथा च मुनिसत्तमाः । विध्वस्ताः सर्वसंसिद्धाः सर्वमुत्सादितं जगत् ॥ ५९ ॥ यज्ञभागान्समग्राँस्तु स्वयं गृह्णाति दारुणः । प्रवर्तितो ह्यधर्मस्तैर्ऋषीणां च निवारितः ॥ ६० ॥ अवध्याःसर्वभूतानां नियतं तारकात्मजाः । तदिच्छया प्रकुर्वन्ति सर्वे कर्माणि शंकर ॥ ६१ ॥ यावन्न क्षीयते दैत्यैर्घोरैस्त्रिपुरवासिभिः । तावद्विधीयतां नीतिर्यया संरक्ष्यते जगत् ॥ ६२ ॥ सनत्कुमार उवाच इत्याकर्ण्य वचस्तेषामिन्द्रादीनां दिवौकसाम् । शिवः सम्भाषमाणानां प्रतिवाक्यमुवाच सः ॥ ६३ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे देवस्तुतिर्नाम द्वितीयोऽध्यायः ॥ २ ॥ श्रीगौरीशंकरार्पणमस्तु |