॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

प्रथमोऽध्यायः

त्रिपुरवर्णनम्


नारद उवाच
श्रुतमस्माभिरानन्दप्रदं चरितमुत्तमम् ।
गृहस्थस्यैव शम्भोश्च गणस्कन्दादिसत्कथम् ॥ १ ॥
इदानीं ब्रूहि सुप्रीत्या चरितं वरमुत्तमम् ।
शंकरो हि यथा रुद्रो जघान विहरन् खलान् ॥ २ ॥
कथं ददाह भगवान्नगराणि सुरद्विषाम् ।
त्रीण्येकेन च बाणेन युगपत्केन वीर्यवान् ॥ ३ ॥
एतत्सर्वं समाचक्ष्व चरितं शशिमौलिनः ।
देवर्षिसुखदं शश्वन्मायाविहरतः प्रभोः ॥ ४ ॥
ब्रह्मोवाच
एवमेतत्पुरा पृष्टो व्यासेन ऋषिसत्तमः ।
सनत्कुमारं प्रोवाच तदेव कथयाम्यहम् ॥ ५ ॥
सनत्कुमार उवाच
शृणु व्यास महाप्राज्ञ चरितं शशिमौलिनः ।
यथा ददाह त्रिपुरं बाणेनैकेन विश्वहृत् ॥ ६ ॥
शिवात्मजेन स्कन्देन निहते तारकासुरे ।
तत्पुत्रास्तु त्रयो दैत्याः पर्यतप्यन्मुनीश्वर ॥ ७ ॥
तारकाक्षस्तु तज्जेष्ठो विद्युन्माली च मध्यमः ।
कमलाक्षः कनीयांश्च सर्वे तुल्यबलाः सदा ॥ ८ ॥
जितेन्द्रियाः ससन्नद्धाः संयताः सत्यवादिनः ।
दृढचित्ता महावीरा देवद्रोहिण एव च ॥ ९ ॥
ते तु मेरुगुहां गत्वा तपश्चक्रुर्महाद्‌भुतम् ।
त्रयःसर्वान्सुभोगांश्च विहाय सुमनोहरान् ॥ १० ॥
वसन्ते सर्वकामांश्च गीतवादित्रनिःस्वनम् ।
विहाय सोत्सवं तेपुस्त्रयस्ते तारकात्मजाः ॥ ११ ॥
ग्रीष्मे सूर्यप्रभां जित्वा दिक्षु प्रज्वाल्य पावकम् ।
तन्मध्यसंस्थाः सिद्ध्यर्थं जुहुवुर्हव्यमादरात् ॥ १२ ॥
महाप्रतापपतिताःसर्वेऽप्यासन् सुमूर्छिताः ।
वर्षासु गतसन्त्रासा वृष्टिं मूर्द्धन्यधारयन् ॥ १३ ॥
शरत्काले प्रभूतं तु भोजनं तु बुभुक्षिताः ।
रम्यं स्निग्धं स्थिरं हृद्यं फलं मूलमनुत्तमम् ॥ १४ ॥
संयमात्क्षुत्तृषो जित्वा पानान्युच्चावचान्यपि ।
बुभुक्षितेभ्यो दत्त्वा तु बुभूवुरुपला इव ॥ १५ ॥
संस्थितास्ते महात्मानो निराधाराश्चतुर्दिशम् ।
हेमन्ते गिरिमाश्रित्य धैर्येण परमेण तु ॥ १६ ॥
तुषारदेहसञ्छन्ना जलक्लिन्नेन वाससा ।
आसाद्य देहं क्षौमेण शिशिरे तोयमध्यगाः ॥ १७ ॥
अनिर्विण्णास्ततःसर्वे क्रमशोऽवर्द्धयंस्तपः ।
तेपुस्त्रयस्ते तत्पुत्रा विधिमुद्दिश्य सत्तमाः ॥ १८ ॥
तप उग्रं समास्थाय नियमे परमे स्थिता ।
तपसा कर्षयामासुर्देहान् स्वान् दानवोत्तमाः ॥ १९ ॥
वर्षाणां शतकं चैव पदमेकं निधाय च ।
भूमौ स्थित्वा परं तत्र तेपुस्ते बलवत्तराः ॥ २० ॥
ते सहस्रं तु वर्षाणां वातभक्षाः सुदारुणाः ।
तपस्तेपुर्दुरात्मानः परं तापमुपागताः ॥ २१ ॥
वर्षाणां तु सहस्रं वै मस्तकेनास्थितास्तथा ।
वर्षाणां तु शतेनैव ऊर्ध्वबाहव आसिताः ॥ २२ ॥
एवं दुःखं परं प्राप्ता दुराग्रहपरा इमे ।
ईदृक् ते संस्थिता दैत्या दिवारात्रमतन्द्रिता ॥ २३ ॥
एवं तेषां गतः कालो महान् सुतपतां मुने ।
ब्रह्मात्मनां तारकाणां धर्मेणेति मतिर्मम ॥ २४ ॥
प्रादुरासीत्ततो ब्रह्मा सुरासुरगुरुर्महान् ।
सन्तुष्टस्तपसा तेषां वरं दातुं महायशाः ॥ २५ ॥
मुनिदेवासुरैः सार्द्धं सान्त्वपूर्वमिदं वचः ।
ततस्तानब्रवीत्सर्वान् सर्वभूतपितामहः ॥ २५ ॥
ब्रह्मोवाच
प्रसन्नोऽस्मि महादैत्या युष्माकं तपसा मुने ।
सर्वं दास्यामि युष्मभ्यं वरं ब्रूत यदीप्सितम् ॥ २७ ॥
किमर्थं सुतपस्तप्तं कथयध्वं सुरद्विषः ।
सर्वेषां तपसो दाता सर्वकर्तास्मि सर्वदा ॥ २८ ॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा शनैस्ते स्वात्मनो गतम् ।
ऊचुः प्राञ्जलयः सर्वे प्रणिपत्य पितामहम् ॥ २९ ॥
दैत्या ऊचुः
यदि प्रसन्नो देवेश यदि देयो वरस्त्वया ।
अवध्यत्वं च सर्वेषां सर्वभूतेषु देहिनः ॥ ३० ॥
स्थिरान् कुरु जगन्नाथ पान्तु नः परिपंथिनः ।
जरारोगादयः सर्वे नास्मान्मृत्युरगात् क्वचित् ॥ ३१ ॥
अजराश्चामराः सर्वे भवाम इति नो मतम् ।
समृत्यवः करिष्यामः सर्वानन्यांस्त्रिलोकके ॥ ३२ ॥
लक्ष्म्या किं तद्विपुलया किं कार्यं हि पुरोत्तमैः ।
अन्यैश्च विपुलैर्भोगैः स्थानैश्वर्येण वा पुनः ॥ ३३ ॥
यत्रैव मृत्युना ग्रस्तो नियतं पञ्चभिर्दिनैः ।
व्यर्थं तस्याखिलं ब्रह्मन् निश्चितं न इतीव हि ॥ ३४ ॥
सनत्कुमार उवाच
इति श्रुत्वा वचस्तेषां दैत्यानां च तपस्विनाम् ।
प्रत्युवाच शिवं स्मृत्वा स्वप्रभुं गिरिशं विधिः ॥ ३५ ॥
ब्रह्मोवाच
नास्ति सर्वामरत्वं च निवर्तध्वमतोऽसुराः ।
अन्यं वरं वृणीध्वं वै यादृशो वो हि रोचते ॥ ३६ ॥
जातो हनिष्यते नूनं जन्तुः कोऽप्यसुराः क्वचित् ।
अजरश्चामरो लोके न भविष्यति भूतले ॥ ३७ ॥
ऋते तु खण्डपरशोः कालकालाद्धरेस्तथा ।
तौ धर्माधर्मपरमावव्यक्तौ व्यक्तरूपिणौ ॥ ३८ ॥
सम्पीडनाय जगतो यदि स क्रियते तपः ।
सफलं तद्‌गतं वेद्यं तस्मात्सुविहितं तपः ॥ ३९ ॥
तद्विचार्य स्वयं बुद्ध्या न शक्यं यत्सुरासुरैः ।
दुर्लभं वा सुदुःसाध्यं मृत्युं वञ्चयतानघाः ॥ ४० ॥
तत्किञ्चिन्मरणे हेतुं वृणीध्वं सत्त्वमाश्रिताः ।
येन मृत्युर्नैव वृतो रक्षतस्तत्पृथक् पृथक् ॥ ४१ ॥
सनत्कुमार उवाच
एतद्विधिवचः श्रुत्वा मुहूर्त्तं ध्यानमास्थिताः ।
प्रोचुस्ते चिन्तयित्वाथ सर्वलोकपितामहम् ॥ ४२ ॥
दैत्या ऊचुः
भगवन्नास्ति नो वेश्म पराक्रमवतामपि ।
अधृष्याः शात्रवानां तु यन्न वत्स्यामहे सुखम् ॥ ४३ ॥
पुराणि त्रीणि नो देहि निर्मायात्यद्‌भुतानि हि ।
सर्वसम्पत्समृद्धान्यप्रधृष्याणि दिवौकसाम् ॥ ४४ ॥
वयं पुराणि त्रीण्येवं समास्थाय महीमिमाम् ।
चरिष्यामो हि लोकेश त्वत्प्रसादाज्जगद्‌गुरो ॥ ४५ ॥
तारकाक्षस्ततः प्राह यदभेद्यं सुरैरपि ।
करोति विश्वकर्मा तन्मम हेममयं पुरम् ॥ ४६ ॥
ययाचे कमलाक्षस्तु राजतं सुमहत्पुरम् ।
विद्युन्माली च संहृष्टो वज्रायसमयं महत् ॥ ४७ ॥
पुरेष्वेतेषु भो ब्रह्मन्नेकस्थानस्थितेषु च ।
मध्याह्नाभिजिते काले शीतांशौ पुष्प संस्थिते ॥ ४८ ॥
उपर्युपर्यदृष्टेषु व्योम्नि लीलाभ्रसंस्थिते ।
वर्षत्सु कालमेघेषु पुष्करावर्तनामसु ॥ ४९ ॥
तथा वर्षसहस्रान्ते समेष्यामः परस्परम् ।
एकीभावं गमिष्यन्ति पुराण्येतानि नान्यथा ॥ ५० ॥
सर्वदेवमयो देवः सर्वेषां मे कुहेलया ।
असम्भवे रथे तिष्ठन् सर्वोपस्करणान्विते ॥ ५१ ॥
असम्भाव्यैककाण्डेन भिनत्तु नगराणि नः ।
निर्वैरः कृत्तिवासास्तु योस्माकमिति नित्यशः ॥ ५२ ॥
वन्द्यः पूज्योभिवाद्यश्च सोस्माकं निर्दहेत्कथम् ।
इति चेतसि सन्धाय तादृशो भुवि दुर्लभः ॥ ५३ ॥
सनत्कुमार उवाच
एतच्छ्रुत्वा वचस्तेषां ब्रह्मा लोकपितामहः ।
एवमस्तीति तान् प्राह सृष्टिकर्ता स्मरन् शिवम् ॥ ५४ ॥
आज्ञां ददौ मयस्यापि कुत्र त्वं नगरत्रयम् ।
काञ्चनं राजतं चैव आयसं चेति भो मय ॥ ५५ ॥
इत्यादिश्य मयं ब्रह्मा प्रत्यक्षं प्राविशद्दिवम् ।
तेषां तारकपुत्राणां पश्यतां निजधाम हि ॥ ५६ ॥
ततो मयश्च तपसा चक्रे धीरः पुराण्यथ ।
काञ्चनं तारकाक्षस्य कमलाक्षस्य राजतम् ॥ ५७ ॥
विद्युन्माल्यायसं चैव त्रिविधं दुर्गमुत्तमम् ।
स्वर्गे व्योम्नि च भूमौ च क्रमाज्ज्ञेयानि तानि वै ॥ ५८ ॥
दत्त्वा तेभ्यो सुरेभ्यश्च पुराणि त्रीणि वै मयः ।
प्रविवेश स्वयं तत्र हितकामपरायणः ॥ ५९ ॥
एवं पुत्रत्रयं प्राप्य प्रविष्टास्तारकात्मजाः ।
बुभुजुः सकलान्भोगान्महाबलपराक्रमाः ॥ ६० ॥
कल्पद्रुमैश्च सङ्‌कीर्णं गजवाजिसमाकुलम् ।
नानाप्रासादसङ्‌कीर्णं मणिजालसमावृतम् ॥ ६१ ॥
सूर्यमण्डलसङ्‌काशैर्विमानैः सर्वतोमुखैः ।
पद्मरागमयैश्चैव शोभितं चन्द्रसन्निभैः ॥ ६२ ॥
प्रासादैर्गोपुरैर्दिव्यैः कैलासशिखरोपमैः ।
दिव्यस्त्रीजनसङ्‌कीर्णैर्गन्धर्वैःसिद्धचारणैः ॥ ६३ ॥
रुद्रालयैः प्रतिगृहमग्निहोत्रैः प्रतिष्ठितैः ।
द्विजोत्तमैः शास्त्रविज्ञैः शिवभक्तिरतैः सदा ॥ ६४ ॥
वापीकूपतडागैश्च दीर्घिकाभिःसुशोभितम् ।
उद्यानवनवृक्षैश्च स्वर्गच्युतगुणोत्तमैः ॥ ६५ ॥
नदीनदसरिन्मुख्यपुष्करैः शोभितं सदा ।
सर्वकामफलाद्यैश्चानेकैर्वृक्षैर्मनोहरम् ॥ ६६ ॥
मत्तमातङ्‌गयूथैश्च तुरङ्‌गैश्च सुशोभनैः ।
रथैश्च विविधाकारैः शिबिकाभिरलङ्‌कृतम् ॥ ६७ ॥
समयादिशिकैश्चैव क्रीडास्थानैः पृथक्‌पृथक् ।
वेदाध्ययनशालाभिर्विविधाभिः पृथक्‌पृथक् ॥ ६८ ॥
अदृष्टं मनसा वाचा पापान्वितनरैः सदा ।
महात्मभिः शुभाचारैः पुण्यवद्‌भिः प्रवीक्ष्यते ॥ ६९ ॥
पतिव्रताभिः सर्वत्र पावितं स्थलमुत्तमम् ।
पतिसेवनशीलाभिर्विमुखाभिः कुधर्मतः ॥ ७० ॥
दैत्यशूरैर्महाभागैःसदारैःससुतैर्द्विजैः ।
श्रौतस्मार्तार्थतत्त्वज्ञैः स्वधर्मनिरतैर्युतम् ॥ ७१ ॥
व्यूढोरस्कैर्वृषस्कन्धैः सामयुद्धधरैः सदा ।
प्रशान्तैः कुपितैश्चैव कुब्जैर्वामनकैस्तथा ॥ ७२ ॥
नीलोत्पलदलप्रख्यैर्नीलकुञ्चितमूर्द्धजैः ।
मयेन रक्षितैः सर्वैः शिक्षितैर्युद्धलालसैः ॥ ७३ ॥
वरसमररतैर्युतं समन्ता-
    दजशिवपूजनया विशुद्धवीर्यैः ।
रविमरुतमहेन्द्रसंनिकाशैः
    सुरमथनैः सुदृढैः सुसेवितं यत् ॥ ७४ ॥
शास्त्रवेदपुराणेषु ये ये धर्माः प्रकीर्तिताः ।
शिवप्रियाःसदा देवास्ते धर्मास्तत्र सर्वतः ॥ ७५ ॥
एवं लब्धवरास्ते तु दैतेयास्तारकात्मजाः ।
शैवं मयमुपाश्रित्य निवसन्ति स्म तत्र ह ॥ ७६ ॥
सर्वं त्रैलोक्यमुत्सार्य प्रविश्य नगराणि ते ।
कुर्वन्ति स्म महद्‍राज्यं शिवमार्गरताः सदा ॥ ७७ ॥
ततो महान् गतः कालो वसतां पुण्यकर्मणाम् ।
यथासुखं यथाजोषं सद्‍राज्यं कुर्वतां मुने ॥ ७८ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे
युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP