॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे

विंशोऽध्यायः

गणेशविवाहवर्णनम्


ब्रह्मोवाच
एतस्मिन्नन्तरे तत्र विश्वरूपः प्रजापतिः ।
तदुद्योगं संविचार्य सुखमाप प्रसन्नधीः ॥ १ ॥
विश्वरूपप्रजेशस्य दिव्यरूपे सुते उभे ।
सिद्धिबुद्धिरिति ख्याते शुभे सर्वाङ्‌गशोभने ॥ २ ॥
ताभ्यां चैव गणेशस्य गिरिजा शंकरः प्रभू ।
महोत्सवं विवाहं च कारयामासतुर्मुदा ॥ ३ ॥
सन्तुष्टा देवताःसर्वास्तद्विवाहे समागमन् ।
यथा चैव शिवस्यैव गिरिजाया मनोरथः ॥ ४ ॥
तथा च विश्वकर्माऽसौ विवाहं कृतवांस्तथा ।
तथा च ऋषयो देवा लेभिरे परमां मुदम् ॥ ५ ॥
गणेशोपि तदा ताभ्यां सुखं परमदुर्लभम् ।
प्राप्तवांश्च मुने तत्तु वर्णितुं नैव शक्यते ॥ ६ ॥
कियता चैव कालेन गणेशस्य महात्मनः ।
द्वयोः पत्न्योश्च द्वौ दिव्यौ तस्य पुत्रौ बभूवतुः ॥ ७ ॥
सिद्धेर्गणेशपत्न्यास्तु क्षेमनामा सुतोऽभवत् ।
बुद्धेर्लाभाभिधः पुत्रो ह्यासीत्परभशोभनः ॥ ८ ॥
एवं सुखमचिन्त्यं व भुञ्जाने हि गणेश्वरे ।
आजगाम द्वितीयश्च क्रान्त्वा पृथ्वीं सुतस्तदा ॥ ९ ॥
तावश्च नारदेनैव प्राप्तो गेहे महात्मना ।
यथार्थं वच्मि नोऽसत्यं न छलेन न मत्सरात् ॥ १० ॥
पितृभ्यां तु कृतं यच्च शिवया शंकरेण ते ।
तन्न कुर्यात्परो लोके सत्यं सत्यं ब्रवीम्यहम् ॥ ११ ॥
निष्कास्य त्वां कुक्रमणं मिषमुत्पाद्य यत्नतः ।
गणेशस्य वरोऽकारि विवाहः परशोभनः ॥ १२ ॥
गणेशस्य कृतोद्वाहो लब्धवांस्त्रीद्वयं मुदा ।
विश्वरूपप्रजेशस्य कन्यारत्नं महोत्तमम् ॥ १३ ॥
पुत्रद्वयं ललाभासौ द्वयोः पत्न्योः शुभाङ्‌गयोः ।
सिद्धे क्षेमं तथा बुद्धेर्लाभं सर्वसुखप्रदम् ॥ १४ ॥
पत्न्योर्द्वयोर्गणेशोऽसौ लब्ध्वा पुत्रद्वयं शुभम् ।
मातापित्रोर्मतेनैव सुखं भुङ्‌क्ते निरन्तरम् ॥ १५ ॥
भवता पृथिवी क्रान्ता ससमुद्रा सकानना ।
तच्छलाज्ञावशात्तात तस्य जातं फलं त्विदम् ॥ १६ ॥
पितृभ्यां हि कृतं यत्तु छलं तात विचार्यताम् ।
स्वस्वामिभ्यां विशेषेण ह्यन्यः किन्न करोति वै ॥ १७ ॥
असम्यक्च कृतं ताभ्यां त्वत्पितृभ्यां हि कर्म ह ।
विचार्यतां त्वयाऽपीह मच्चित्ते न शुभं मतम् ॥ १८ ॥
दद्याद्यदि गरं माता विक्रीणीयात्पिता यदि ।
राजा हरति सर्वस्वं कस्मै किं च ब्रवीतु वै ॥ १९ ॥
येनैवेदं कृतं स्याद्वै कर्मानर्थकरं परम् ।
शान्तिकामः सुधीस्तात तन्मुखं न विलोकयेत् ॥ २० ॥
इति नीतिः श्रुतौ प्रोक्ता स्मृतौ शास्त्रेषु सर्वतः ।
निवेदिता च सा तेऽद्य यथेच्छसि तथा कुरु ॥ २१ ॥
ब्रह्मोवाच
इत्युक्त्वा नारद त्वं तु महेश्वरमनोगतिः ।
तस्मै तथा कुमाराय वाक्यं मौनमुपागतः ॥ २२ ॥
स्कन्दोऽपि पितरं नत्वा कोपाग्निज्वलितस्तदा ।
जगाम पर्वतं क्रौञ्चं पितृभ्यां वारितोऽपि सन् ॥ २३ ॥
वारणे च कृते त्वद्य गम्यते च कथं त्वया ।
इत्येवं च निषिद्धोऽपि प्रोच्य नेति जगाम सः ॥ २४ ॥
न स्थातव्यं मया तातौ क्षणमप्यत्र किञ्चन ।
यद्येवं कपटं प्रीतिमपहाय कृतं मयि ॥ २५ ॥
एवमुक्त्वा गतस्तत्र मुने सोऽद्यापि वर्तते ।
दर्शनेनैव सर्वेषां लोकानां पापहारकः ॥ २६ ॥
तद्दिनं हि समारभ्य कार्तिकेयस्य तस्य वै ।
शिवपुत्रस्य देवर्षे कुमारत्वं प्रतिष्ठितम् ॥ २७ ॥
तन्नाम शुभदं लोके प्रसिद्धं भुवनत्रये ।
सर्वपापहरं पुण्यं ब्रह्मचर्यप्रदं परम् ॥ २८ ॥
कार्तिक्यां च सदा देवा ऋषयश्च सतीर्थकाः ।
दर्शनार्थं कुमारस्य गच्छन्ति च मुनीश्वराः ॥ २९ ॥
कार्तिक्यां कृत्तिकासङ्‌गे कुर्याद्यः स्वामिदर्शनम् ।
तस्य पापं दहेत्सर्वं चित्तेप्सित फलं लभेत् ॥ ३० ॥
उमापि दुःखमापन्ना स्कन्दस्य विरहे सति ।
उवाच स्वामिनं दीना तत्र गच्छ मया प्रभो ॥ ३१ ॥
तत्सुखार्थं स्वयं शम्भुर्गतःस्वांशेन पर्वते ।
मल्लिकार्जुननामासीज्ज्योतिर्लिङ्‌गं सुखावहम् ॥ ३२ ॥
अद्यापि दृश्यते तत्र शिवया सहितः शिवः ।
सर्वेषां निजभक्तानां कामपूरः सतां गतिः ॥ ३३ ॥
तमागतं स विज्ञाय कुमारः सशिवां शिवम् ।
स विरज्य ततोऽन्यत्र गन्तुमासीत्समुत्सुकः ॥ ३४ ॥
देवैश्च मुनिभिश्चैव प्रार्थितः सोऽपि दूरतः ।
योजनत्रयमुत्सृज्य स्थितः स्थाने च कार्तिकः ॥ ३५ ॥
पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणि पर्वणि ।
दर्शनार्थं कुमारस्य तस्य नारद गच्छतः ॥ ३६ ॥
अमावास्यादिने शम्भुः स्वयं गच्छति तत्र ह ।
पूर्णमासी दिने तत्र पार्वती गच्छति ध्रुवम् ॥ ३७ ॥
यद्यत्तस्य च वृत्तान्तं भवत्पृष्टं मुनीश्वर ।
कार्तिकस्य गणेशस्य परमं कथितं मया ॥ ३८ ॥
एतच्छ्रुत्वा नरो धीमान् सर्वपापैः प्रमुच्यते ।
शोभनां लभते कामानीप्सितान्सकलान्सदा ॥ ३९ ॥
यः पठेत्पाठयेद्वापि शृणुयाच्छ्रावयेत्तथा ।
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥ ४० ॥
ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् ।
वैश्यो धन समृद्धःस्याच्छूद्रःसत्समतामियात् ॥ ४१ ॥
रोगी रोगात्प्रमुच्येत भयान्मुच्येत भीतियुक् ।
भूतप्रेतादिबाधाभ्यः पीडितो न भवेन्नरः ॥ ४२ ॥
एतदाख्यानमनघं यशस्यं सुखवर्द्धनम् ।
आयुष्यं स्वर्ग्यमतुलं पुत्रपौत्रादिकारकम् ॥ ४३ ॥
अपवर्गप्रदं चापि शिवज्ञानप्रदं परम् ।
शिवाशिवप्रीतिकरं शिवभक्तिविवर्द्धनम् ॥ ४४ ॥
श्रवणीयं सदा भक्तैर्निःकामैश्च मुमुक्षुभिः ।
शिवाद्वैतप्रदं चैतत्सदाशिवमयं शिवम् ॥ ४५ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे
गणेशविवाहवर्णनं नाम विंशोऽध्यायः ॥ २० ॥
समाप्तोयं रुद्रसंहितान्तर्गतः कुमारखण्डश्चतुर्थः ॥ ४ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP