|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे
एकोनविंशोऽध्यायः
विवाहोपक्रमे गणेशस्य प्रथमपूज्यत्ववर्णनम्
नारद उवाच
गणेशस्य श्रुता तात सम्यग्जनिरनुत्तमा । चरित्रमपि दिव्यं वै सुपराक्रमभूषितम् ॥ १ ॥ ततः किमभवत्तात तत्त्वं वद सुरेश्वरः । शिवाशिवयशःस्फीतं महानन्दप्रदायकम् ॥ २ ॥ ब्रह्मोवाच साधु पृष्टं मुनिश्रेष्ठ भवता करुणात्मना । श्रूयतां दत्तकर्णं हि वक्ष्येऽहं ऋषिसत्तम ॥ ३ ॥ शिवा शिवश्च विप्रेन्द्र द्वयोश्च सुतयोः परम् । दर्शं दर्शं च तल्लीलां महत्प्रेम समावहत् ॥ ४ ॥ पित्रोर्लालयतोस्तत्र सुखं चाति व्यवर्द्धत । सदा प्रीत्या मुदा चातिखेलनं चक्रतुः सुतौ ॥ ५ ॥ तावेव तनयौ तत्र माता पित्रोर्मुनीश्वर । महाभक्त्या यदा युक्तौ परिचर्यां प्रचक्रतुः ॥ ६ ॥ षण्मुखे च गणेशे च पित्रोस्तदधिकं सदा । स्नेहो व्यवर्द्धत महान् शुक्लपक्षे यथा शशी ॥ ७ ॥ कदाचित्तौ स्थितौ तत्र रहसि प्रेमसंयुतौ । शिवा शिवश्च देवर्षे सुविचारपरायणौ ॥ ८ ॥ शिवा शिवावूचतुः - विवाहयोग्यौ सञ्जातौ सुताविति च तावुभौ ॥ विवाहश्च कथं कार्यः पुत्रयोरुभयोः शुभम् । ९ ॥ षण्मुखश्च प्रियतमो गणेशश्च तथैव च । इति चिन्तासमुद्विग्नौ लीलानन्दौ बभूवतुः ॥ १० ॥ स्वपित्रोर्मतमाज्ञाय तौ सुतावपि संस्पृहौ । तदिच्छया विवाहार्थं बभूवतुरथो मुने ॥ ११ ॥ अहं च परिणेष्यामि ह्यहं चैव पुनः पुनः । परस्परं च नित्यं वै विवादे तत्परावुभौ ॥ १२ ॥ श्रुत्वा तद्वचनं तौ च दम्पती जगतां प्रभू । लौकिकाचारमाश्रित्य विस्मयं परमं गतौ ॥ १३ ॥ किं कर्तव्यं कथं कार्यो विवाहविधिरेतयोः । इति निश्चित्य ताभ्यां वै युक्तिश्च रचिताद्भुता ॥ १४ ॥ कदाचित्समये स्थित्वा समाहूय स्वपुत्रकौ । कथयामासतुस्तत्र पुत्रयोः पितरौ तदा ॥ १५ ॥ अस्माकं नियमः पूर्वं कृतश्च सुखदो हि वाम् ॥ श्रूयतां सुसुतौ प्रीत्या कथयावो यथार्थकम् । १६ ॥ समौ द्वावपि सत्पुत्रौ विशेषो नात्र लभ्यते । तस्मात्पणः कृतः शन्दः पुत्रयोरुभयोरपि ॥ १७ ॥ यश्चैव पृथिवीं सर्वां क्रान्त्वा पूर्वमुपाव्रजेत् । तस्यैव प्रथमं कार्यो विवाहः शुभलक्षणः ॥ १८ ॥ ब्रह्मोवाच तयोरेवं वचः श्रुत्वा शरजन्मा महाबलः । जगाम मन्दिरात्तूर्णं पृथिवीक्रमणाय वै ॥ १९ ॥ गणनाथश्च तत्रैव संस्थितो बुद्धिसत्तमः । सुबुद्ध्या संविचारर्येति चित्त एव पुनः पुनः ॥ २० ॥ किं कर्तव्यं क्व गन्तव्यं लङ्घितुं नैव शक्यते । क्रोशमात्रं गतः स्याद्वै गम्यते न मया पुनः ॥ २१ ॥ किं पुनः पृथिवीमेतां क्रान्त्वा चोपार्जितं सुखम् । विचार्येति गणेशस्तु यच्चकार शृणुष्व तत् ॥ २२ ॥ स्नानं कृत्वा यथान्यायं समागत्य स्वयं गृहम् । उवाच पितरं तत्र मातरं पुनरेव सः ॥ २३ ॥ गणेश उवाच आसने स्थापिते ह्यत्र पूजार्थं भवतोरिह । भवन्तौ संस्थितौ तातौ पूर्यतां मे मनोरथः ॥ २४ ॥ ब्रह्मोवाच इति श्रुत्वा वचस्तस्य पार्वतीपरमेश्वरौ । अस्थातामासने तत्र तत्पूजाग्रहणाय वै ॥ २५ ॥ तेनाथ पूजितौ तौ च प्रक्रान्तौ च पुनः पुनः । एवं च कृतवान् सप्त प्रणामास्तु तथैव सः ॥ २६ ॥ बद्धाञ्जलिरथोवाच गणेशो बुद्धिसागरः । स्तुत्वा बहुतिथस्तात पितरौ प्रेमविह्वलौ ॥ २७ ॥ गणेश उवाच भो मातर्भो पितस्त्वं च शृणु मे परमं वचः । शीघ्रं चैवात्र कर्तव्यो विवाहः शोभनो मम ॥ २८ ॥ ब्रह्मोवाच इत्येवं वचनं श्रुत्वा गणेशस्य महात्मनः । महाबुद्धिनिधिं तं तौ पितरावूचतुस्तदा ॥ २९ ॥
शिवाशिवावूचतुः प्रक्रामेत भवान्सम्यक् पृथिवीं च सकाननाम् । कुमारो गतवांस्तत्र त्वं गच्छ पुर आव्रज ॥ ३० ॥ ब्रह्मोवाच इत्येवं वचनं श्रुत्वा पित्रोर्गणपतिद्रुतम् । उवाच नियतस्तत्र वचनं क्रोधसंयुतः ॥ ३१ ॥ गणेश उवाच भो मातर्भो पितर्धर्मरूपौ प्राज्ञौ युवां मतौ । धर्मतः श्रूयतां सम्यक् वचनं मम सत्तमौ ॥ ३२ ॥ मया तु पृथिवी क्रान्ता सप्तवारं पुनः पुनः । एवं कथं ब्रुवाते वै पुनश्च पितराविह ॥ ३३ ॥ ब्रह्मोवाच तद्वचस्तु तदा श्रुत्वा लौकिकीं गतिमाश्रितौ । महालीलाकरौ तत्र पितरावूचतुश्च तम् ॥ ३४ पितरावूचतुः कदा क्रान्ता त्वया पुत्र पृथिवी सुमहत्तरा । सप्तद्वीपा समुद्रान्ता महद्भिर्गहनैयुता ॥ ३५ ॥ ब्रह्मोवाच तयोरेवं वचः श्रुत्वा शिवाशंकरयोर्मुने । महाबुद्धिनिधिः पुत्रो गणेशो वाक्यमब्रवीत् ॥ ३६ ॥ गणेश उवाच भवतोः पूजनं कृत्वा शिवाशंकरयोरहम् । स्वबुद्ध्या हि समुद्रान्तपृध्वीकृतपरिक्रमः ॥ ३७ ॥ इत्येवं वचनं देवे शास्त्रे वा धर्मसञ्चये । वर्त्तते किं च तत्तथ्यं नहि किं तथ्यमेव वा ॥ ३८ ॥ पित्रोश्च पूजनं कृत्वा प्रक्रान्तिं च करोति यः । तस्य वै पृथिवीजन्यफलं भवति निश्चितम् ॥ ३९ ॥ अपहाय गृहे यो वै पितरौ तीर्थमाव्रजेत् । तस्य पापं तथा प्रोक्तं हनने च तयोर्यथा ॥ ४० ॥ पुत्रस्य च महत्तीर्थं पित्रोश्चरणपङ्कजम् । अन्यतीर्थं तु दूरे वै गत्वा सम्प्राप्यते पुनः ॥ ४१ ॥ इदं संनिहितं तीर्थं सुलभं धर्मसाधनम् । पुत्रस्य च स्त्रियाश्चैव तीर्थं गेहे सुशोभनम् ॥ ४२ ॥ इति शास्त्राणि वेदाश्च भाषन्ते यन्निरन्तरम् । भवद्भ्यां तत्प्रकर्त्तव्यमसत्यं पुनरेव च ॥ ४३ ॥ भवदीयं त्विदं रूपमसत्यं च भवेदिह । तदा वेदोप्यसत्यो वै भवेदिति न संशयः ॥ ४४ ॥ शीघ्रं च भवितव्यो मे विवाहः क्रियतां शुभः । अथ वा वेदशास्त्रञ्च न्यलीकं कथ्यतामिति ॥ ४५ ॥ द्वयोः श्रेष्ठतमं मध्ये यत्स्यात्सम्यग्विचार्य तत् । कर्तव्यं च प्रयत्नेन पितरौ धर्मरूपिणौ ॥ ४६ ॥ ब्रह्मोवाच इत्युक्त्वा पार्वतीपुत्रः स गणेशः प्रकृष्टधीः । विरराम महाज्ञानी तदा बुद्धिमतां वरः ॥ ४७ ॥ तौ दम्पती च विश्वेशौ पार्वतीशंकरौ तदा । इति श्रुत्वा वचस्तस्य विस्मयं परमं गता ॥ ४८ ॥ ततः शिवा शिवश्चैव पुत्रं बुद्धिविचक्षणम् । सुप्रशस्योचतुः प्रीत्या तौ यथार्थप्रभाषिणम् ॥ ४९ ॥ शिवाशिवावूचतुः - पुत्र ते विमला बुद्धिः समुत्पन्ना महात्मनः ॥ त्वयोक्तं यद्वचश्चैव ततश्चैव च नान्यथा ॥ ५० ॥ समुत्पन्ने च दुःखे च यस्य बुद्धिर्विशिष्यते । तस्य दुखं विनश्येत सूर्ये दृष्टे यथा तमः ॥ ५१ ॥ बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् । कूपे सिंहो मदोन्मत्तः शशकेन निपातितः ॥ ५२ ॥ वेदशास्त्रपुराणेषु बालकस्य यथोदितम् । त्वया कृतं तु तत्सर्वं धर्मस्य परिपालनम् ॥ ५३ ॥ सम्यक्कृतं त्वया यच्च तत्केनापि भवेदिह । आवाभ्यां मानितं तच्च नान्यथा क्रियतेऽधुना ॥ ५४ ॥ ब्रह्मोवाच इत्युक्त्वा तौ समाश्वास्य गणेशं बुद्धिसागरम् । विवाहकरणे चास्य मतिं चक्रतुरुत्तमाम् ॥ ५५ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशविवाहोपक्रमोनामैकोनविंशोध्यायः ॥ १९ ॥ श्रीगौरीशंकरार्पणमस्तु |