|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे
अष्टदशोऽध्यायः
गणेशगणाधिपपदवीप्राप्तिः
नारद उवाच
जीविते गिरिजापुत्रे देव्या दृष्टे प्रजेश्वर । ततः किमभवत्तत्र कृपया तद्वदाधुना ॥ १ ॥ ब्रह्मोवाच जीविते गिरिजापुत्रे देव्या दृष्टे मुनीश्वर । यज्जातं तच्छृणुष्वाद्य वच्मि ते महदुत्सवम् ॥ २ ॥ जीवितःस शिवापुत्रो निर्व्यग्रो विकृतो मुने । अभिषिक्तस्तदा देवैर्गणाध्यक्षैर्गजाननः ॥ ३ ॥ दृष्ट्वा स्वतनयं देवी शिवा हर्षसमन्विता । गृहीत्वा बालकं दोर्भ्यां प्रमुदा परिषस्वजे ॥ ४ ॥ वस्त्राणि विविधानीह नानालङ्करणानि च । ददौ प्रीत्या गणेशाय स्वपुत्राय मुदाम्बिका ॥ ५ ॥ पूजयित्वा तया देव्या सिद्धिभिश्चाप्यनेकशः । करेण स्पर्शितः सोऽथ सर्वदुःखहरेण वै ॥ ६ ॥ पूजयित्वा सुतं देवी मुखमाचुम्ब्य शाङ्करी । वरान्ददौ तदा प्रीत्या जातस्त्वं दुःखितोऽधुना ॥ ७ ॥ धन्योसि कृतकृत्योसि पूर्वपूज्यो भवाधुना । सर्वेषाममराणां वै सर्वदा दुःखवर्जितः ॥ ८ ॥ आनने तव सिन्दूरं दृश्यते साम्प्रतं यदि । तस्मात्त्वं पूजनीयोसि सिन्दूरेण सदा नरैः ॥ ९ ॥ पुष्पैर्वा चन्दनैर्वापि गन्धेनैव शुभेन च । नैवेद्ये सुरम्येण नीराजेन विधानतः ॥ १० ॥ तांम्बूलैरथ दानैश्च तथा प्रक्रमणैरपि । नमस्कारविधानेन पूजां यस्ते विधास्यति ॥ ११ ॥ तस्य वै सकला सिद्धिर्भविष्यति न संशयः । विघ्नान्यनेकरूपाणि क्षयं यास्यन्त्यसंशयम् ॥ १२ ॥ ब्रह्मोवाच इत्युक्त्वा च तदा देवी स्वपुत्रं तं महेश्वरी । नानावस्तुभिरुत्कृष्टैः पुनरप्यर्चयत्तथा ॥ १३ ॥ ततःस्वास्थ्यं च देवानां गणानां च विशेषतः । गिरिजाकृपया विप्र जातं तत्क्षणमात्रतः ॥ १४ ॥ एतस्मिंश्च क्षणे देवा वासवाद्याः शिवं मुदा । स्तुत्वा प्रसाद्य तं देवं भक्ता निन्युः शिवान्तिकम् ॥ १५ ॥ संसाद्य गिरिशं पश्चादुत्सङ्गे सन्न्यवेशयन् । बालकं तं महेशान्यास्त्रिजगत्सुखहेतवे ॥ १६ ॥ शिवोपि तस्य शिरसि दत्त्वा स्वकरपङ्कजम् । उवाच वचनं देवान् पुत्रोऽयमिति मेऽपरः ॥ १७ ॥ गणेशोपि तदोत्थाय नमस्कृत्य शिवाय वै । पार्वत्यै च नमस्कृत्य मह्यं वै विष्णवे तथा ॥ १८ ॥ नारादाद्यानृषीन्सर्वान्स त्वास्थाय पुरोऽब्रवीत् । क्षन्तव्यश्चापराधो मे मानश्चैवेदृशो नृणाम् ॥ १९ ॥ अहं च शंकरश्चैव विष्णुश्चैते त्रयः सुराः । प्रत्यूचुर्युगपत्प्रीत्या ददतो वरमुत्तमम् ॥ २० ॥ त्रयो वयं सुरवरा यथा पूज्या जगत्त्रये । तथायं गणनाथश्च सकलैः प्रतिपूज्यताम् ॥ २१ ॥ वयं च प्राकृताश्चायं प्राकृतः पूज्य एव च । गणेशो विघ्नहर्ता हि सर्वकामफलप्रदः ॥ २२ ॥ एतत्पूजां पुरा कृत्वा पश्चात्पूज्या वयं नरैः । वयं च पूजिताः सर्वे नायं चापूजितो यदा ॥ २३ ॥ अस्मिन्नपूजिते देवाः परपूजाकृता यदि । तदा तत्फलहानिः स्यान्नात्र कार्या विचारणा ॥ २४ ॥ ब्रह्मोवाच इत्युक्त्वा स गणेशानो नानावस्तुभिरादरात् । शिवेन पूजितः पूर्वं विष्णुनाऽनु प्रपूजितः ॥ २५ ॥ ब्रह्मणा च मया तत्र पार्वत्या च प्रपूजितः । सर्वैर्देवैर्गणैश्चैव पूजितः परया मुदा ॥ २६ ॥ सवैर्मिलित्वा तत्रैव ब्रह्मविष्णुहरादिभिः । सगणेशः शिवातुष्ट्यै सर्वाध्यक्षो निवेदितः ॥ २७ ॥ पुनश्चैव शिवेनास्मै सुप्रसन्नेन चेतसा । सर्वदा सुखदा लोके वरा दत्ता ह्यनेकशः ॥ २८ ॥ शिव उवाच हे गिरीन्द्रसुतापुत्र सन्तुष्टोऽहं न संशयः । मयि तुष्टे जगत्तुष्टं विरुद्धः कोपि नो भवेत् ॥ २९ ॥ बालरूपोपि यस्मात्त्वं महाविक्रमकारकः । शक्तिपुत्रः सुतेजस्वी तस्माद्भव सदा सुखी ॥ ३० ॥ त्वन्नाम विघ्नहन्तृत्वे श्रेष्ठं चैव भवत्विति । मम सर्वगणाध्यक्षः सम्पूज्यस्त्वं भवाधुना ॥ ३१ ॥ एवमुक्त्वा शंकरेण पूजाविधिरनेकशः । आशिषश्चाप्यनेका हि कृतास्तस्मिंस्तु तत्क्षणात् ॥ ३२ ॥ ततो देवगणाश्चैव गीत वाद्यं च नृत्यकम् । मुदा ते कारयामासुस्तथैवप्सरसां गणाः ॥ ३३ ॥ पुनश्चैव वरो दत्तःसुप्रसन्नेन शम्भुना । तस्मै च गणनाथाय शिवेनैव महात्मना ॥ ३४ ॥ चतुर्थ्यां त्वं समुत्पन्नो भाद्रे मासि गणेश्वर । असिते च तथा पक्षे चन्द्रस्योदयने शुभे ॥ ३५ ॥ प्रथमे च तथा यामे गिरिजायाः सुचेतसः । आविर्बभूव ते रूपं यस्मात्ते व्रतमुत्तमम् ।३६ ॥ तस्मात्तद्दिनमारभ्य तस्यामेव तिथौ मुदा । व्रतं कार्यं विशेषेण सर्वसिद्ध्यै सुशोभनम् ॥ ३७ ॥ यावत्पुनः समायाति वर्षान्ते च चतुर्थिका । तावद्व्रतं च कर्तव्यं तव चैव ममाज्ञया ॥ ३८ ॥ संसारे सुखमिच्छन्ति येऽतुलं चाप्यनेकशः । त्वां पूजयन्तु ते भक्त्या चतुर्थ्यां विधिपूर्वकम् ॥ ३९ ॥
मार्गशीर्षे तथा मासे रमा या वै चतुर्थिका । प्रातः स्नानं तदा कृत्वा व्रतं विप्रान्निवेदयेत् ॥ ४० ॥ दूर्वाभिः पूजनं कार्यमुपवासस्तथाविधः । रात्रेश्च प्रहरे जाते स्नात्वा सम्पूजयेन्नरः ॥ ४१ ॥ मूर्तिं धातुमयीं कृत्वा प्रवालसम्भवां तथा । श्वेतार्कसम्भवां चापि मार्द्दिकां निर्मितां तथा ॥ ४२ ॥ प्रतिष्ठाप्य तदा तत्र पूजयेत्प्रयतः पुमान् । गन्धैर्नानाविधैर्दिव्यैश्चन्दनैः पुष्पकैरिह ॥ ४३ ॥ वितस्तिमात्रा दूर्वा च त्र्यङ्गा वै मूलवर्जिता । ईदृशानां तद्बलानां शतेनैकोत्तरेण ह ॥ ४४ ॥ एकविंशतिकेनैव पूजयेत्प्रतिमां स्थिताम् । धूपैर्दीपैश्च नैवेद्यैर्विविधैर्गणनायकम् ॥ ४५ ॥ ताम्बूलाद्यर्घसद्द्रव्यैः प्रणिपत्य स्तवैस्तथा । त्वां तत्र पूजयित्वेत्थं बालचन्द्रं च पूजयेत् ॥ ४६ ॥ पश्चाद्विप्रांश्च सम्पूज्य भोजयेन्मधुरैर्मुदा । स्वयं चैव ततो भुञ्ज्यान्मधुरं लवणं विना ॥ ४७ ॥ विसर्जयेत्ततः पश्चान्नियमं सर्वमात्मनः । गणेशस्मरणं कुर्यात्सम्पूर्णं स्याद्व्रतं शुभम् ॥ ४८ ॥ एवं व्रतेन सम्पूर्णे वर्षे जाते नरस्तदा । उद्यापनविधिं कुर्याद्व्रतसम्पूर्त्तिहेतवे ॥ ४९ ॥ द्वादश ब्राह्मणास्तत्र भोजनीया मदाज्ञया । कुम्भमेकं च संस्थाप्य पूज्या मूर्तिस्त्वदीयिका ॥ ५० ॥ स्थण्डिलेऽष्टपलं कृत्वा तदा वेदविधानतः । होमश्चैवात्र कर्तव्यो वित्तशाठ्यविवर्जितैः ॥ ५१ ॥ स्त्रीद्वयं च तथा चात्र बटुकद्वयमादरात् । भोजयेत्पूजयित्वा वै मूर्त्यग्रे विधिपूर्वकम् ॥ ५२ ॥ निशि जागरणं कार्यं पुनः प्रातः प्रपूजयेत् । विसर्जनं ततश्चैव पुनरागमनाय च ॥ ५३ ॥ बालकाच्चाशिषो ग्राह्याःस्वस्तिवाचनमेव च । पुष्पाञ्जलिं प्रदद्याच्च व्रतसम्पूर्ण हेतवे ॥ ५४ ॥ नमस्कारांस्ततः कृत्वा नानाकार्यं प्रकल्पयेत् । एवं व्रतं कृतं येन तस्येप्सितफलं भवेत् ॥ ५५ ॥ यो नित्यं श्रद्धया सार्द्धं पूजां चैव स्व शक्तितः । कुर्यात्तव गणेशान सर्वकामफलाप्तये ॥ ५६ ॥ सिन्दूरैश्चन्दनैश्चैव तण्डुलैः केतकैस्तथा । उपचारैरनेकैश्च पूजयेत्त्वां गणेश्वरम् ॥ ५७ ॥ एवं त्वां पूजयेयुर्ये भक्त्या नानोपचारतः । तेषां सिद्धिर्भवेन्नित्यं विघ्ननाशो भवेदिह ॥ ५८ ॥ सर्वैर्वर्णैः प्रकर्त्तव्या स्त्रीभिश्चैव विशेषतः । उदयाभिमुखैश्चैव राजभिश्च विशेषतः ॥ ५९ ॥ यं यं कामयते यो वै तं तमाप्नोति निश्चितम् । अतः कामयमानेन तेन सेव्यः सदा भवान् ॥ ६० ॥ ब्रह्मोवाच शिवेनैव तदा प्रोक्तं गणेशाय महात्मने । तदानीं दैवतैश्चैव सर्वैश्च ऋषिसत्तमैः ॥ ६१ ॥ तथेत्युक्त्वा तु तैःसर्वैर्गणैः शम्भुप्रियैर्मुने । पूजितो हि गणाधीशो विधिना परमेण सः ॥ ६२ ॥ ततश्चैव गणाः सर्वे प्रणेमुस्ते गणेश्वरम् । समानर्चुर्विशेषेण नानावस्तुभिरादरात् ॥ ६३ ॥ गिरिजायाःसमुत्पन्नो यश्च हर्षो मुनीश्वर । चतुर्भिर्वदनैर्वै तमवर्ण्यं च कथं ब्रुवे ॥ ६४ ॥ देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः । जगुर्गन्धर्वमुख्याश्च पुष्पवर्षं पपात ह ॥ ६५ ॥ जगत्स्वास्थ्यं तदा प्राप गणाधीशे प्रतिष्ठिते । महोत्सवो महानासीत् सर्वं दुःखं क्षयं गणम् ॥ ६६ ॥ शिवाशिवौ च मोदेतां विशेषेणाति नारद । आसीत्सुमंगलं भूरि सर्वत्र सुखदायकम् ॥ ६७ ॥ ततो देवगणाः सर्वे ऋषीणां च गणास्तथा । समागताश्च ये तत्र जग्मुस्ते तु शिवाज्ञया ॥ ६८ ॥ प्रशंसन्तः शिवां तत्र गणेशं च पुनः पुनः । शिवं चैव तथा स्तुत्वा कीदृशं युद्धमेव च ॥ ६९ ॥ यदा सा गिरिजा देवी कोपहीना बभूव ह । शिवोऽपि गिरिजां तत्र पूर्ववत्सम्प्रपद्य ताम् ॥ ७० ॥ चकार विविधं सौख्यं लोकानां हितकाम्यया । स्वात्मारामोऽपि परमो भक्तकार्योद्यतः सदा ॥ ७१ ॥ विष्णुश्च शिवमापृच्छ्य ब्रह्माहं तं तथैव हि । आगच्छाव स्वधामं च शिवौ संसेव्य भक्तितः ॥ ७२ ॥ नारद त्वं च भगवन्सङ्गीय शिवयोर्यशः । आगमो भवनं स्वं च शिवौ पृष्ट्वा मुनीश्वर ॥ ७३ ॥ एतत्ते सर्वमाख्यातं मया वै शिवयोर्यशः । भवत्पृष्टेन विघ्नेश यशः संमिश्रमादरात् ॥ ७४ ॥ इदं सुमंगलाख्यानं यः शृणोति सुसंयतः । सर्वमंगल संयुक्तः स भवेन्मंगलालयः ॥ ७५ ॥ अपुत्रो लभते पुत्रं निर्धनो लभते धनम् । भार्यार्थी लभते भार्यां प्रजार्थी लभते प्रजाम् ॥ ७६ ॥ आरोग्यं लभते रोगी सौभाग्यं दुर्भगो लभेत् । नष्टपुत्रं नष्टधनं प्रोषिता च पतिं लभेत् ॥ ७७ ॥ शोकाविष्टः शोकहीनः स भवेन्नात्र संशयः । इदं गाणेशमाख्यानं यस्य गेहे च तिष्ठति ॥ ७८ ॥ सदा मंगलसंयुक्तः स भवेन्नात्र संशयः । यात्राकाले च पुण्याहे यः शृणोति समाहितः । सर्वाभीष्टं स लभते श्रीगणेशप्रसादतः ॥ ७९ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशगणाधिपपदवीवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥ श्रीगौरीशंकरार्पणमस्तु |