॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे

सप्तदशोऽध्यायः

गणेशदेहे गजमुखयोजनवर्णनम्


नारद उवाच
ब्रह्मन् वद महाप्राज्ञ तद्वृत्तान्तेखिले श्रुते ।
किमकार्षीन्महादेवी श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥
ब्रह्मोवाच
श्रूयतां मुनिशार्दूल कथयाम्यद्य तद्ध्रुवम् ।
चरितं जगदम्बाया यज्जातं तदनन्तरम् ॥ २ ॥
मृदङ्‌गान्पटहांश्चैव गणाश्चावादयंस्तथा ।
महोत्सवं तदा चक्रुर्हते तस्मिन्गणाधिपे ॥ ३ ॥
शिवोपि तच्छिरश्छित्वा यावद्दुःखमुपाददे ।
तावच्च गिरिजा देवी चुक्रोधाति मुनीश्वर ॥ ४ ॥
किं करोमि क्व गच्छामि हाहा दुःखमुपागतम् ।
कथं दुःखं विनश्येतास्याऽतिदुखं ममाधुना ॥ ५ ॥
मत्सुतो नाशितश्चाद्य देवेःसर्वैर्गणैस्तथा ।
सर्वांस्तान्नाशयिष्यामि प्रलयं वा करोम्यहम् ॥ ६ ॥
इत्येवं दुःखिता सा च शक्तीः शतसहस्रशः ।
निर्ममे तत्क्षणं क्रुद्धा सर्वलोकमहेश्वरी ॥ ७ ॥
निर्मितास्ता नमस्कृत्य जगदम्बां शिवां तदा ।
जाज्वल्यमाना ह्यवदन्मातरादिश्यतामिति ॥ ८ ॥
तच्छुत्वा शम्भुशक्तिःसा प्रकृतिः क्रोधतत्परा ।
प्रत्युवाच तु ताः सर्वा महामाया मुनीश्वर ॥ ९ ॥
देव्युवाच
हे शक्तयोऽधुना देव्यो युष्माभिर्मन्निदेशतः ।
प्रलयश्चात्र कर्त्तव्यो नात्र कार्या विचारणा ॥ १० ॥
देवांश्चैव ऋषींश्चैव यक्षराक्षसकांस्तथा ।
अस्मदीयान्परांश्चैव सख्यो भक्षत वै हठात् ॥ ११ ॥
ब्रह्मोवाच
तदाज्ञप्ताश्च ताः सर्वाः शक्तयः क्रोधतत्पराः ।
देवादीनां च सर्वेषां संहारं कर्तुमुद्यताः ॥ १२ ॥
यथा च तृणसंहारमनलः कुरुते तथा ।
एवं ताः शक्तयः सर्वाः संहारं कर्तुमुद्यताः ॥ १३ ॥
गणपो वाथ विष्णुर्वा ब्रह्मा वा शंकरस्तथा ।
इन्द्रो वा यक्षराजो वा स्कन्दो वा सूर्य एव वा ॥ १४ ॥
सर्वेषां चैव संहारं कुर्वन्ति स्म निरन्तरम् ।
यत्रयत्र तु दृश्येत तत्रतत्रापि शक्तयः ॥ १५ ॥
कराली कुब्जका खञ्जा लम्बशीर्षा ह्यनेकशः ।
हस्ते धृत्वा तु देवांश्च मुखे चैवाक्षिपंस्तदा ॥ १६ ॥
तं संहारं तदा दृष्ट्‍वा हरो ब्रह्मा तथा हरिः ।
इन्द्रादयोऽखिलाः देवा गणाश्च ऋषयस्तथा ॥ १७ ॥
किं करिष्यति सा देवी संहारं वाप्यकालतः ।
इति संशयमापन्ना जीवनाशा हताऽभवत् ॥ १८ ॥
सर्वे च मिलिताश्चेमे कि कर्त्तव्यं विचिन्त्यताम् ।
एवं विचारयन्तस्ते तूर्णमूचुः परस्परम् ॥ १९ ॥
यदा च गिरिजा देवी प्रसन्ना हि भवेदिह ।
तदा चैव भवेत्स्वास्थ्यं नान्यथा कोटियत्नतः ॥ २० ॥
शिवोपि दुःखमापन्नो लौकिकीं गतिमाश्रितः ।
मोहयन्सकलांस्तत्र नानालीलाविशारदः ॥ २१ ॥
सर्वेषां चैव देवानां कटिर्भग्ना यदा तदा ।
शिवा क्रोधमयी साक्षाद्‌ गन्तुं न पुर उत्सहेत् ॥ । २२ ॥
स्वीयो वा परकीयो वा देवो वा दानवोपि वा ।
गणो वापि च दिक्पालो यक्षो वा किन्नरो मुनिः ॥ २३ ॥
विष्णुर्वापि तथा ब्रह्मा शंकरश्च तथा प्रभुः ।
न कश्चिद्‌गिरिजाग्रे च स्थातुं शक्तोऽभवन्मुने ॥ २४ ॥
जाज्वल्यमानं तत्तेजःसर्वतो दाहि तेऽखिलाः ।
दृष्ट्‍वा भीततरा आसन् सर्वे दूरतरं स्थिताः ॥ २५ ॥
एतस्मिन्समये तत्र नारदो दिव्यदर्शनः ।
आगतस्त्वं मुने देवगणानां सुखहेतवे ॥ २६ ॥
ब्रह्माणं मां भवं विष्णुं शंकरं च प्रणम्य साः ।
समागत्य मिलित्वोचे विचार्य कार्यमेव वा ॥ २७ ॥
सर्वे संमन्त्रयां चक्रुस्त्वया देवा महात्मना ।
दुःखशान्तिः कथं स्याद्वै समूचुस्तत एव ते ॥ २८ ॥
यावच्च गिरिजा देवी कृपां नैव करिष्यति ।
तावन्नैव सुखं स्याद्वै नात्र कार्या विचारणा ॥ २९ ॥
ऋषयो हि त्वदाद्याश्च गतास्ते वै शिवान्तिकम् ।
सर्वे प्रसादयामासुः क्रोधशान्त्यै तदा शिवाम् ॥ ३० ॥
पुनः पुनः प्रणेमुश्च स्तुत्वा स्तोत्रैरनेकशः ।
सर्वे प्रसादयन्प्रीत्या प्रोचुर्देवगणाज्ञया ॥ ३१ ॥
सुरर्षय ऊचुः
जगदम्ब नमस्तुभ्यं शिवायै ते नमोस्तु ते ।
चण्डिकायै नमस्तुभ्यं कल्याण्यै ते नमोस्तु ते ॥ ३२ ॥
आदिशक्तिस्त्वमेवाम्ब सर्वसृष्टिकरी सदा ।
त्वमेव पालिनी शक्तिस्त्वमेव प्रलयङ्‌करी ॥ ३३ ॥
प्रसन्ना भव देवेशि शान्तिं कुरु नमोऽस्तु ते ।
सर्वं हि विकलं देवि त्रिजगत्तव कोपतः ॥ ३४ ॥
ब्रह्मोवाच
एवं स्तुता परा देवी ऋषिभिश्च त्वदादिभिः ।
क्रुद्धदृष्ट्या तदा ताश्च किञ्चिन्नोवाच सा शिवा ॥ ३५ ॥
तदा च ऋषयः सर्वे नत्वा तच्चरणाम्बुजम् ।
पुनरूचुः शिवां भक्त्या कृताञ्जलिपुटाः शनैः ॥ ३६ ॥
ऋषय ऊचुः क्षम्यतां देवि संहारो जायतेऽधुना ।
तव स्वामी स्थितश्चात्र पश्य पश्य तमम्बिके ॥ ३७ ॥
वयं के च इमे देवा विष्णुब्रह्मादयस्तथा ।
प्रजाश्च भवदीयाश्च कृताञ्जलिपुटाः स्थिताः ॥ ३८ ॥
क्षन्तव्यश्चापराधो वै सर्वेषां परमेश्वरि ।
सर्वे हि विकलाश्चाद्य शान्तिं तेषां शिवे कुरु ॥ ३९ ॥
ब्रह्मोवाच
इत्युक्त्वा ऋषयःसर्वे सुदीनतरमाकुलाः ।
सन्तस्थिरे चण्डिकाग्रे कृताञ्जलिपुटास्तदा ॥ ४० ॥
एवं श्रुत्वा वचस्तेषां प्रसन्ना चण्डिकाऽभवत् ।
प्रत्युवाच ऋषींस्तान्वै करुणाविष्टमानसा ॥ ४१ ॥
देव्युवाच
मत्पुत्रो यदि जीवेत तदा संहरणं न हि ।
यथा हि भवतां मध्ये पूज्योऽयं च भविष्यति ॥ ४२ ॥
सर्वाध्यक्षो भवेदद्य यूयं कुरुत तद्यदि ।
तदा शान्तिर्भवेल्लोके नान्यथा सुखमाप्स्यथ ॥ ४३ ॥
ब्रह्मोवाच
इत्युक्तास्ते तदा सर्वे ऋषयो युष्मदादयः ।
तेभ्यो देवेभ्य आगत्य सर्वं वृत्तं न्यवेदयन् ॥ ४४ ॥
ते च सर्वे तथा श्रुत्वा शंकराय न्यवेदयन् ।
नत्वा प्राञ्जलयो दीनाः शक्रप्रभृतयः सुराः ॥ ४५ ॥
प्रोवाचेति सुराञ्छ्रुत्वा शिवश्चापि तथा पुनः ।
कर्त्तव्यं च तथा सर्वलोकस्वास्थ्यं भवेदिह ॥ ४६ ॥
उत्तरस्यां पुनर्यात प्रथमं यो मिलेदिह ।
तच्छिरश्च समाहृत्य योजनीयं कलेवरे ॥ ४७ ॥
ब्रह्मोवाच
ततस्तैस्तत्कृतं सर्वं शिवाज्ञाप्रतिपालकैः ।
कलेवरं समानीय प्रक्षाल्य विधिवच्च तत् ॥ ४८ ॥
पूजयित्वा पुनस्ते वै गताश्चोदङ्मुखास्तदा ।
प्रथमं मिलितस्तत्र हस्ती चाप्येकदन्तकः ॥ ४९ ॥
तच्छिरश्च तदा नीत्वा तत्र तेऽयोजयन् ध्रुवम् ।
संयोज्य देवताःसर्वाः शिवं विष्णुं विधिं तदा ॥ ५० ॥
प्रणम्य वचनं प्रोचुर्भवदुक्तं कृतं च नः ।
अनन्तरं च तत्कार्यं भवताद्‌भवशेषितम् ॥ ५१ ॥
ब्रह्मोवाच
ततस्ते तु विरेजुश्च पार्षदाश्च सुराः सुखम् ।
अथ तद्वचनं श्रुत्वा शिवोक्तं पर्यपालयन् ॥ ५२ ॥
ऊचुस्ते च तदा तत्र ब्रह्मविष्णुसुरास्तथा ।
प्रणम्येशं शिवं देवं स्वप्रभुं गुणवर्जितम् ॥ ५३ ॥
यस्मात्त्वत्तेजसःसर्वे वयं जाता महात्मनः ।
त्वत्तेजस्तत्समायातु वेदमन्त्राभियोगतः ॥ ५४ ॥
इत्येवमभिमन्त्रेण मन्त्रितं जलमुत्तमम् ।
स्मृत्वा शिवं समेतास्ते चिक्षिपुस्तत्कलेवरे ॥ ९५ ॥
तज्जलस्पर्शमात्रेण चिद्युतो जीवितो द्रुतम् ।
तदोत्तस्थौ सुप्त इव स बालश्च शिवेच्छया ॥ ५६ ॥
सुभगः सुन्दरतरो गजवक्त्रः सुरक्तकः ।
प्रसन्नवदनश्चाति सुप्रभो ललिताकृतिः ॥ ५७ ॥
तं दृष्ट्‍वा जीवितं बालं शिवापुत्रं मुनीश्वर ।
सर्वे मुमुदिरे तत्र सर्वं दुःखं क्षयं गतम् ॥ ५८ ॥
देव्यै सन्दर्शयामासुः सर्वे हर्षसमन्विताः ।
जीवितं तनयं दृष्ट्‍वा देवी हृष्टतराभवत् ॥ ५९ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे
कुमारखण्डे गणेशजीवनवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP