|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे
षोडशोऽध्यायः
गणेशशिरश्च्छेदनवर्णनम्
ब्रह्मोवाच
इति श्रुत्वा महेशानो भक्तानुग्रहकारकः । त्वद्वाचा युदकामोभूत्तेन बालेन नारद ॥ १ ॥ विष्णुमाहूय संमन्त्र्य बलेन महता युतः । सामरः सम्मुखस्तस्याप्यभूद्देवस्त्रिलोचनः ॥ २ ॥ देवाश्च युयुधुस्तेन स्मृत्वा शिवपदाम्बुजम् । महाबला महोत्साहाः शिवसद्दृष्टिलोकिताः ॥ ३ ॥ युयुधेऽथ हरिस्तेन महाबलपराक्रमः । महादेव्यायुधो वीरः प्रवणः शिवरूपकः ॥ ४ ॥ यष्ट्या गणाधिपः सोऽथ जघानामरपुङ्गवान् । हरिं च सहसा वीरः शक्तिदत्तमहाबलः ॥ ५ ॥ सर्वेऽमरगणास्तत्र विकुण्ठितबला मुने । अभूवन् विष्णुना तेन हता यष्ट्या पराङ्मुखाः ॥ ६ ॥ शिवोपि सह सैन्येन युद्धं कृत्वा चिरं मुने । विकरालं च तं दृष्ट्वा विस्मयं परमं गतः ॥ ७ ॥ छलेनैव च हन्तव्यो नान्यथा हन्यते पुनः । इति बुद्धिं समास्थाय सैन्यमध्ये व्यवस्थितः ॥ ८ ॥ शिवे दृष्टे तदा देवे निर्गुणे गुणरूपिणि । विष्णौ चैवाथ सङ्ग्रामे आयाते सर्वदेवताः ॥ ९ ॥ गणाश्चैव महेशस्य महाहर्षं तदा ययुः । सर्वे परस्परं प्रीत्या मिलित्वा चक्रुरुत्सवम् ॥ १० ॥ अथ शक्तिसुतो वीरो वीरगत्या स्वयष्टितः । प्रथमं पूजयामास विष्णुं सर्वसुखावहम् ॥ ११ ॥ अहं च मोहयिष्यामि हन्यतां च त्वया विभो । छलं विना न वध्योऽयं तामसोयं दुरासदः ॥ १२ ॥ इति कृत्वा मतिं तत्र सुसंमन्त्र्य च शम्भुना । आज्ञां प्राप्याऽभवच्छैवीं विष्णुर्मोहपरायणः ॥ १३ ॥ शक्तिद्वयं तथा लीनं हरिं दृष्ट्वा तथाविधम् । दत्त्वा शक्तिबलं तस्मै गणेशायाभवन्मुने ॥ १४ ॥ शक्तिद्वयेऽथ संलीने यत्र विष्णुः स्थितः स्वयम् । परिघं क्षिप्तवांस्तत्र गणेशो बलवत्तरः ॥ १५ ॥ कृत्वा यत्नं किमप्यत्र वञ्चयामास तद्गतिम् । शिवं स्मृत्वा महेशानं स्वप्रभुं भक्तवत्सलम् ॥ १६ ॥ एकतस्तन्मुखं दृष्ट्वा शंकरोप्याजगाम ह । स्वत्रिशूलं समादाय सुक्रुद्धो युद्धकाम्यया ॥ १७ ॥ स ददर्शागतं शम्भुं शूलहस्तं महेश्वरम् । हन्तुकामं निजं वीरः शिवापुत्रो महाबलः ॥ १८ ॥ शक्त्या जघान तं हस्ते स्मृत्वा मातृपदाम्बुजम् । स गणशो महावीरः शिवशक्तिप्रवर्द्धितः ॥ १९ ॥
त्रिशूलं पतितं हस्ताच्छिवस्य परमात्मनः । दृष्ट्वा सदूतिकस्तं वै पिनाकं धनुराददे ॥ २० ॥ तमप्यपातयद्भूमौ परिघेण गणेश्वरः । हताः पञ्च तथा हस्ताः पञ्चभिः शूलमाददे ॥ २१ ॥ अहो दुःखतरं नूनं सञ्जातमधुना मम । भवेत्पुनर्गणानां किं भवाचारी जगाविति ॥ २२ ॥ एतस्मिन्नन्तरे वीरः परिघेण गणेश्वरः । जघान सगणान् देवान् शक्तिदत्तबलान्वितः ॥ २३ ॥ गता दशदिशो देवाः सगणाः परिघार्दिताः । न तस्थुःसमरे केपि तेनाद्भुतप्रहारिणा ॥ २४ ॥ विष्णुस्तं च गणं दृष्ट्वा धन्योयमिति चाब्रवीत् । महाबलो महावीरो महाशूरो रणप्रियः ॥ २५ ॥ बहवो देवताश्चैव मया दृष्टास्तथा पुनः । दानवा बहवो दैत्या यक्षगन्धर्वराक्षसाः ॥ २६ ॥ नैतेन गणनाथेन समतां यान्ति केपि च । त्रैलोक्येऽप्यखिले तेजो रूपशौर्यगुणादिभिः ॥ २७ ॥ एवं सम्ब्रुवतेऽमुष्मै परिघं भ्रामयन् स च । चिक्षेप विष्णवे तत्र शक्तिपुत्रो गणेश्वरः ॥ २८ ॥ चक्रं गृहीत्वा हरिणा स्मृत्वा शिवपदाम्बुजम् । तेन चक्रेण परिघो द्रुतं खण्डीकृतस्तदा ॥ २९ ॥ खण्डं तु परिघस्यापि हरये प्राक्षिपद्गणः । गृहीत्वा गरुडेनापि पक्षिणा विफलीकृतः ॥ ३० ॥ एवं विचरितं कालं महावीरावुभावपि । विष्णुश्चापि गणश्चैव युयुधाते परस्परम् ॥ ३१ ॥ पुनर्वीरवरः शक्तिसुतःस्मृतशिवो बली । गृहीत्वा यष्टिमतुलां तया विष्णुं जघान ह ॥ ३२ ॥ अविषह्य प्रहारं तं स भूमौ निपपात ह । द्रुतमुत्थाय युयुधे शिवापुत्रेण तेन वै ॥ ३३ ॥ एतदन्तरमासाद्य शूलपाणिस्तथोत्तरे । आगत्य च त्रिशूलेन तच्छिरो निरकृन्तत ॥ ३४ ॥ छिन्ने शिरसि तस्यैव गणनाथस्य नारद । गणसैन्यं देवसैन्यमभवच्च सुनिश्चलम् ॥ ३५ ॥ नारदेन त्वयाऽऽगत्य देव्यै सर्वं निवेदितम् । मानिनि श्रूयतां मानस्त्याज्यो नैव त्वयाधुना ॥ ३६ ॥ इत्युक्त्वाऽन्तर्हितस्तत्र नारद त्वं कलिप्रियः । अविकारी सदा शम्भुर्मनोगतिकरो मुनिः ॥ ३७ ॥ इति श्रीशिवपुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धगणेशशिरश्छेदन वर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥ श्रीगौरीशंकरार्पणमस्तु |