|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे
पञ्चदशोऽध्यायः
शिवगणैः सह गणेशयुद्धवर्णनम्
ब्रह्मोवाच
इत्युक्ता विभुना तेन निश्चयं परमं गताः । सन्नद्धास्तु तदा तत्र जग्मुश्च शिवमन्दिरम् ॥ १ ॥ गणेशोऽपि तथा दृष्ट्वा ह्यायातान्गणसत्तमान् । युद्धाऽऽटोपं विधायैव स्थितांश्चैवाब्रवीदिदम् ॥ २ ॥ गणेश उवाच आयान्तु गणपाःसर्वे शिवाज्ञापरिपालकाः । अहमेकश्च बालश्च शिवाज्ञापरिपालकः ॥ ३ ॥ तथापि पश्यतां देवी पार्वती सूनुजं बलम् । शिवश्च स्वगणानां तु बलं पश्यतु वै पुनः ॥ ४ ॥ बलवद्बालयुद्धं च भवानीशिवपक्षयोः । भवद्भिश्च कृतं युद्धं पूर्वं युद्धविशारदैः ॥ ५ ॥ मया पूर्वं कृतं नैव बालोस्मि क्रियतेऽधुना । तथापि भवतां लज्जा गिरिजाशिवयोरिह ॥ ६ ॥ ममैवं तु भवेन्नैव वैपरीत्यं भविष्यति । ममैव भवतां लज्जा गिरिजाशिवयोरिह ॥ ७ ॥ एवं ज्ञात्वा च कर्त्तव्यः समरश्च गणेश्वराः । भवद्भिःस्वामिनं दृष्ट्वा मया च मातरं तदा ॥ ८ ॥ क्रियते कीदृशं युद्धं भवितव्यं भवत्विति । तस्य वै वारणे कोऽपि न समर्थस्त्रिलोकके ॥ ९ ॥ ब्रह्मोवाच इत्येवं भर्त्सितास्ते तु दण्डभूषितबाहवः । विविधान्यायुधान्येवं धृत्वा ते च समाययुः ॥ १० ॥ घर्षयन्तस्तथा दन्तान् हुङ्कृत्य च पुनः पुनः । पश्य पश्य ब्रुवन्तश्च गणास्ते समुपागताः ॥ ११ ॥ नन्दी प्रथममागत्य धृत्वा पादं व्यकर्षयत् । धावन्भृङ्गी द्वितीयं च पादं धृत्वा गणस्य च ॥ १२ ॥ यावत्पादे विकर्षन्तौ तावद्धस्तेन वै गणः । आहत्य हस्तयोस्ताभ्यामुत्क्षिप्तौ पादकौ स्वयम् ॥ १३ ॥ अथ देवीसुतो वीरःसगृह्य परिघं बृहत् । द्वारस्थितो गणपतिः सर्वानापोथयत्तदा ॥ १४ ॥ केषाञ्चित्पाणयो भिन्नाः केषाञ्चित्पृष्ठकानि च । केषाञ्चिच्च शिरांस्येव केषाञ्चिन्मस्तकानि च ॥ १५ ॥ केषाञ्चिजानुनी तत्र केषाञ्चित्स्कन्धकास्तथा । सम्मुखे चागता ये वै ते सर्वे हृदये हताः ॥ १६ ॥ केचिच्च पतिताभूमौ केचिच्च विदिशो गताः । केषाञ्चिच्चरणौ छिन्नौ केचिच्छर्वान्तिकं गताः ॥ १७ ॥ तेषां मध्ये तु कश्चिद्वै सङ्ग्रामे सम्मुखो न हि । सिंहं दृष्ट्वा यथा यान्ति मृगाश्चैव दिशो दश ॥ १८ ॥ तथा ते च गणाः सर्वे गताश्चैव सहस्रशः । परावृत्य तथा सोऽपि सुद्वारि समुपस्थितः ॥ १९ ॥ कल्पान्तकरणे कालो दृश्यते च भयङ्करः । यथा तथैव दृष्टः स सर्वेषां प्रलयङ्करः ॥ २० ॥ एतस्मिन्समये चैव सरमेशसुरेश्वराः । प्रेरिता नारदेनेह देवाःसर्वे समागमन् ॥ २१ ॥ समब्रुवंस्तदा सर्वे शिवस्य हितकाम्यया । पुरः स्थित्वा शिवं नत्वा ह्याज्ञां देहि प्रभो इति ॥ २२ ॥ त्वं परब्रह्म सर्वेशः सर्वे च तव सेवकाः । सृष्टेः कर्ता सदा भर्ता संहर्ता परमेश्वरः ॥ २३ ॥ रजःसत्त्वतमोरूपो लीलया निर्गुणः स्वतः । का लीला रचिता चाद्य तामिदानीं वद प्रभो ॥ २४ ॥ ब्रह्मोवाच इत्याकर्ण्य वचस्तेषां मुनिश्रेष्ठ महेश्वरः । गणान् भिन्नाँस्तदा दृष्ट्वा तेभ्यः सर्वं न्यवेदयत् ॥ २५ ॥ अथ सर्वेश्वरस्तत्र शंकरो मुनिसत्तम । विहस्य गिरिजानाथो ब्रह्माणं मामुवाच ह ॥ २६ ॥ शिव उवाच ब्रह्मञ्छृणु मम द्वारि बाल एकः समास्थितः । महाबलो यष्टिपाणिर्गेहावेशनिवारकः ॥ २७ ॥ महाप्रहारकर्ताऽसौ मत्पार्षदविघातकः । पराजयः कृतस्तेन मद्गणानां बलादिह ॥ २८ ॥ ब्रह्मन् त्वयैव गन्तव्यं प्रसाद्योऽयं महाबलः । यथा ब्रह्मन्नयः स्याद्वै तथा कार्यं त्वया विधे ॥ २९ ॥ ब्रह्मोवाच इत्याकर्ण्य प्रभोर्वाक्यमज्ञात्वाऽज्ञानमोहितः । तदीयनिकटं तात सर्वैर्ऋषिवरैरयाम् ॥ ३० ॥ समायान्तं च मां दृष्ट्वा स गणेशो महाबली । क्रोधं कृत्वा समभ्येत्य मम श्मश्रूण्यवाकिरत् ॥ ३१ ॥ क्षम्यतां क्षम्यतां देव न युद्धार्थं समागतः । ब्राह्मणोहमनुग्राह्यः शान्तिकर्तानुपद्रवः ॥ ३२ ॥ इत्येवं ब्रुवति ब्रह्मंस्तावत्परिघमाददे । स गणेशो महावीरो बालोऽबालपराक्रमः ॥ ३३ ॥ गृहीतपरिघं दृष्ट्वा तं गणेशं महाबलम् । पलायनपरो यातस्त्वहं द्रुततरं तदा ॥ ३४ ॥ यात यात ब्रुवन्तस्ते परिघेन हतास्तदा । स्वयं च पतिताः केचित्केचित्तेन निपातिताः ॥ ३५ ॥ केचिच्च शिवसामीप्यं गत्वा तत्क्षणमात्रतः । शिवं विज्ञापयाञ्चक्रुस्तद्वृत्तान्तमशेषतः ॥ ३६ ॥ तथाविधांश्च तान् दृष्ट्वा तद्वृत्तान्तं निशम्य सः । अपारमादधे कोपं हरो लीलाविशारदः ॥ ३७ ॥
इन्द्रादिकान्देवगणान् षण्मुखप्रवरान् गणान् । भूतप्रेतपिशाचांश्च सर्वानादेशयत्तदा ॥ ३८ ॥ ते सर्वे च यथायोग्यं गतास्ते सर्वतो दिशम् । तं गणं हन्तुकामा हि शिवाज्ञाता उदायुधाः ॥ ३९ ॥ यस्य यस्यायुधं यच्च तत्तत्सर्वं विशेषतः । तद्गणेशोपरि बलात्समागत्य विमोचितम् ॥ ४० ॥ हाहाकारो महानासीत् त्रैलोक्ये सचराचरे । त्रिलोकस्था जनाः सर्वे संशयं परमं गताः ॥ ४१ ॥ न यातं ब्रह्मणोऽप्यायुर्ब्रह्माण्डं क्षयमेति हि । अकाले च तथा नूनं शिवेच्छावशतः स्वयम् ॥ ४२ ॥ ते सर्वे चागतास्तत्र षण्मुखाद्याश्च ये पुनः । देवा व्यर्थायुधा जाता आश्चर्यं परमं गताः ॥ ४३ ॥ एतस्मिन्नन्तरे देवी जगदम्बा विबोधना । ज्ञात्वा तच्चरितं सर्वमपारं क्रोधमादधे ॥ ४४ ॥ शक्तिद्वयं तदा तत्र तया देव्या मुनीश्वर । निर्मितं स्वगणस्यैव सर्वसाहाय्यहेतवे ॥ ४५ ॥ एका प्रचण्डरूपं च धृत्वातिष्ठन्महामुने । श्यामपर्वतसङ्कांशं विस्तीर्य मुखगह्वरम् ॥ ४६ ॥ एका विद्युत्स्वरूपा च बहुहस्तसमन्विता । भयङ्करा महादेवी दुष्टदण्डविधायिनी ॥ ४७ ॥ आयुधानि च सर्वाणि मोचितानि सुरैर्गणैः । गृहीत्वा स्वमुखे तानि ताभ्यां शीघ्रं च चिक्षिपे ॥ ४८ ॥ देवायुधं न दृश्येत परिघः परितः पुनः । एवं ताभ्यां कृतं तत्र चरितं परमाद्भुतम् ॥ ४९ ॥ एको बालोऽखिलं सैन्यं लोडयामास दुस्तरम् । यथा गिरिवरेणैव लोडितः सागरः पुरा ॥ ५० ॥ एकेन निहताः सर्वे शक्राद्या निर्जरास्तथा । शंकरस्य गणाश्चैव व्याकुलाः अभवंस्तदा ॥ ५१ ॥ अथ सर्वे मिलित्वा ते निः श्वस्य च मुहुर्मुहुः । परस्परं समूचुस्ते तत्प्रहारसमाकुलाः ॥ ५२ ॥ देवगणा ऊचुः किं कर्तव्यं क्व गन्तव्यं न ज्ञायन्ते दिशो दश । परिघं भ्रामयत्येष सव्यापसव्यमेव च ॥ ५३ ॥ ब्रह्मोवाच एतत्कालेऽप्सरश्रेष्ठाः पुष्पचन्दनपाणयः । ऋषयश्च त्वदाद्या हि येऽतियुद्धेतिलालसाः ॥ ५४ ॥ ते सर्वे च समाजग्मुर्युद्धसन्दर्शनाय वै । पूरितो व्योम सन्मार्गस्तैस्तदा मुनिसत्तम ॥ ५५ ॥ तास्ते दृष्ट्वा रणं तं वै महाविस्मयमागताः । ईदृशं परमं युद्धं न दृष्टं चैकदापि हि ॥ ५६ ॥ पृथिवी कम्पिता तत्र समुद्रसहिता तदा । पर्वताः पतिताश्चैव चक्रुः सङ्ग्रामसम्भवम् ॥ ५७ ॥ द्यौर्ग्रहर्क्षगणैर्घूर्ण्णा सर्वे व्याकुलतां गताः । देवाः पलायिताःसर्वे गणाश्च सकलास्तदा ॥ ५८ ॥ केवलं षण्मुखस्तत्र नापलायत विक्रमी । महावीरस्तदा सर्वानावार्य पुरतः स्थितः ॥ ५९ ॥ शक्तिद्वयेन तद्युद्धे सर्वे च निष्फलीकृताः । सर्वास्त्राणि निकृत्तानि सङ्क्षिप्तान्यमरैर्गणैः ६० ॥ येऽवस्थिताश्च ते सर्वे शिवस्यान्तिकमागताः । देवाः पलायिताः सर्वे गणाश्च सकलास्तदा ॥ ६१ ॥ ते सर्वे मिलिताश्चैव मुहुर्नत्वा शिवं तदा । अब्रुवन्वचनं क्षिप्रं कोऽयं गणवरः प्रभो ॥ ६२ ॥ पुरा चैव श्रुतं युद्धमिदानीं बहुधा पुनः । दृश्यते न श्रुतं दृष्टमीदृशं तु कदाचन ॥ ६३ ॥ किञ्चिद्विचार्यतां देव त्वन्यथा न जयो भवेत् । त्वमेव रक्षकः स्वामिन्ब्रह्माण्डस्य न संशयः ॥ ६४ ॥ ब्रह्मोवाच इत्येवं तद्वचः श्रुत्वा रुद्रः परमकोपनः । कोपं कृत्वा च तत्रैव जगाम स्वगणैःसह ॥ ६५ ॥ देवसैन्यं च तत्सर्वं विष्णुना चक्रिणा सह । समुत्सवं महत्कृत्वा शिवस्यानुजगाम ह ॥ ६६ ॥ एतस्मिन्नन्तरे भक्त्या नमस्कृत्य महेश्वरम् । अब्रवीन्नारद त्वं वै देवदेवं कृताञ्जलिः ॥ ६७ ॥ नारद उवाच देवदेव महादेव शृणु मद्वचनं विभो । त्वमेव सर्वगःस्वामी नानालीलाविशारदः ॥ ६८ ॥ त्वया कृत्वा महालीलां गणगर्वोऽपहारितः । अस्मै दत्त्वा बलं भूरि देवगर्वश्च शंकर ॥ ६९ ॥ दर्शितं भुवने नाथ स्वमेव बलमद्भुतम् । स्वतन्त्रेण त्वया शम्भो सर्वगर्वप्रहारिणा ॥ ७० ॥ इदानीं न कुरुष्वेश तां लीलां भक्तवत्सलः । स्वगणानमरांश्चापि सुसन्मान्याभिवर्द्धय ॥ ७१ ॥ इमं न खेलयेदानीं जहि ब्रह्मपदप्रद । इत्युक्त्वा नारद त्वं वै ह्यन्तर्द्धानं गतस्तदा ॥ ७२ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां कुमारखण्डे गणेशयुद्धवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥ श्रीगौरीशंकरार्पणमस्तु |