|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे
चतुर्दशोऽध्यायः
गणेशेन सह शिवगणानां विवादवर्णनम्
ब्रह्मोवाच
गणास्ते क्रोधसम्पन्नास्तत्र गत्वा शिवाज्ञया । पप्रच्छुर्गिरिजापुत्रं तं तदा द्वारपालकम् ॥ १ ॥ शिवगणा ऊचुः कोऽसि त्वं कुत आयातः किं वा त्वं च चिकीर्षसि । इतोऽद्य गच्छ दूरं वै यदि जीवितुमिच्छसि ॥ २ ॥ ब्रह्मोवाच तदीयं तद्वचः श्रुत्वा गिरिजातनयः स वै । निर्भयो दण्डपाणिश्च द्वारपानब्रवीदिदम् ॥ ३ ॥ गणेश उवाच यूयं के कुत आयाता भवन्तः सुन्दरा इमे । यात दूरं किमर्थं वै स्थिता अत्र विरोधिनः ॥ ४ ॥ ब्रह्मोवाच एवं श्रुत्वा वचस्तस्य हास्यं कृत्वा परस्परम् । ऊचुःसर्वे शिवगणा महावीरा गतस्मयाः ॥ ५ ॥ परस्परमिति प्रोच्य सर्वे ते शिवपार्षदाः । द्वारपालं गणेशं तं प्रत्यूचुः कुद्धमानसाः ॥ ६ ॥ शिवगणा ऊचुः श्रूयतां द्वारपाला हि वयं शिवगणा वराः । त्वां निवारयितुं प्राप्ताः शंकरस्याज्ञया विभोः ॥ ७ ॥ त्वामपीह गणं मत्वा न हन्यामीन्यथा हतः । तिष्ठ दूरे स्वतः त्वं च किमर्थं मृत्युमीहसे ॥ ८ ॥ ब्रह्मोवाच इत्युक्तोऽपि गणेशश्च गिरिजातनयोऽभयः । निर्भर्त्स्य शंकरगणान्न द्वारं मुक्तवांस्तदा ॥ ९ ॥ ते सर्वेपि गणाः शैवाः तत्रत्या वचनं तदा । श्रुत्वा तत्र शिवं गत्वा तद्वृत्तान्तमथाब्रुवन् ॥ १० ॥ ततश्च तद्वचः श्रुत्वाद्भुतलीलो महेश्वरः । विनिर्भर्त्स्य गणानूचे निजाँल्लोकगतिर्मुने ॥ ११ ॥ महेश्वर उवाच कश्चायं वर्तते किं च ब्रवीत्यरिवदुच्छ्रितः । किं करिष्यत्यसद्बुद्धिः स्वमृत्युं वाञ्छति ध्रुवम् ॥ १२ ॥ दूरतः क्रियतां ह्येष द्रारपालो नवीनकः । क्लीबा इव स्थितास्तस्य वृत्तं वदथ मे कथम् ॥ १३ ॥ स्वामिनोक्ता गणास्ते चाद्भुतलीलेन शम्भुना । पुनरागत्य तत्रैव तमूचुर्द्वारपालकम् ॥ १४ ॥ शिवगणा ऊचुः रे रे द्वारप कस्त्वं हि स्थितश्च स्थापितः कुतः । नैवास्मान्गाणयस्येवं कथं जीवितुमिच्छसि ॥ १५ ॥ द्वारपाला वयं सर्वे स्थितः किं परिभाषसे । सिंहासनगृहीतश्च शृगालः शिवमीहते ॥ १६ ॥ तावद्गर्जसि मूर्ख त्वं यावद्गणपराक्रमः । नानुभूतस्त्वयात्रैव ह्यनुभूतः पतिष्यसि ॥ १७ ॥ इत्युक्तस्तैःसुसङ्कुद्धो हस्ताभ्यां यष्टिकां तदा । गृहीत्वा ताडयामास गणांस्तान्परिभाषिणः ॥ १८ ॥ उवाचाथ शिवापुत्रः परिभर्त्स्य गणेश्वरान् । शंकरस्य महावीरान्निर्भयस्तान्गणेश्वरः ॥ १९ ॥ शिवापुत्र उवाच यात यात ततो दूरे नो चेद्वो दर्शयामि ह । स्वपराक्रममत्युग्रं यास्यथात्युपहास्यताम् ॥ २० ॥ इत्याकर्ण्य वचस्तस्य गिरिजातनयस्य हि । परस्परमथोचुस्ते शंकरस्य गणास्तदा ॥ २१ ॥ शिवगणा ऊचुः किं कर्तव्यं क्व गन्तव्यं क्रियते स न किं पुनः । मर्यादा रक्ष्यतेऽस्माभिरन्यथा किं ब्रवीति च ॥ २२ ॥ ब्रह्मोवाच ततः शम्भुगणाःसर्वे शिवं दूरे व्यवस्थितम् । क्रोशमात्रं तु कैलासाद्गत्वा ते च तथाऽब्रुवन् ॥ २३ ॥ शिवो विहस्य तान्सर्वांस्त्रिशूलकर उग्रधीः । उवाच परमेशो हि स्वगणान् वीरसंमतान् ॥ २४ ॥ शिव उवाच रेरे गणाः क्लीबमता न वीरा वीरमानिनः । मदग्रे नोदितुं योग्या भर्त्सितः किं पुनर्वदेत् ॥ २५ ॥ गम्यतां ताड्यतां चैष यः कश्चित्प्रभवेदिह । बहुनोक्तेन किं चात्र दूरीकर्तव्य एव सः ॥ २६ ॥ ब्रह्मोवाच इति सर्वे महेशेन जग्मुस्तत्र मुनीश्वर । भर्त्सितास्तेन देवेन प्रोचुश्च गणसत्तमाः ॥ २७ ॥ शिवगणा ऊचुः रेरे त्वं शृणु वै बाल बलात्किं परिभाषसे । इतस्त्वं दूरतो याहि नो चेन्मृत्युर्भविष्यति ॥ २८ ॥ ब्रह्मोवाच इति श्रुत्वा वचस्तेषां शिवाज्ञाकारिणां ध्रुवम् । शिवासुतस्तदाभूत्स किं करोमीति दुःखितः ॥ २९ ॥ एतस्मिन्नन्तरे देवी तेषां तस्य च वै पुनः । श्रुत्वा तु कलहं द्वारि सखीं पश्येति साब्रवीत् ॥ ३० ॥
समागत्य सखी तत्र वृत्तान्तं समबुध्यत । क्षणमात्रं तदा दृष्ट्वा गता हृष्टा शिवान्तिकम् ॥ ३१ ॥ तत्र गत्वा तु तत्सर्वं वृत्तं तद्यदभून्मुने । अशेषेण तया सख्या कथितं गिरिजाग्रतः ॥ ३२ ॥ सख्युवाच अस्मदीयो गणो यो हि स्थितो द्वारि महेश्वरि । निर्भर्त्सयति तं वीराः शंकरस्य गणा ध्रुवम् ॥ ३३ ॥ शिवश्चैव गणाः सर्वे विना तेऽवसरं कथम् । प्रविशन्ति हठाद्गेहे नैतच्छुभतरं तव ॥ ३४ ॥ सम्यक् कृतं ह्यनेनैव न हि कोपि प्रवेशितः । दुःखं चैवानुभूयात्र तिरस्कारादिकं तथा ॥ ३५ ॥ अतः परन्तु वाग्वादः क्रियते च परस्परम् । वाग्वादे च कृते नैव तर्ह्यायान्तु सुखेन वै ॥ ३६ ॥ कृतश्चैवात्र वाग्वादस्तं जित्वा विजयेन च । प्रविशन्तु तथा सर्वे नान्यथा कर्हिचित्प्रिये ॥ ३७ ॥ अस्मिन्नेवास्मदीये वै सर्वे सम्भर्त्सिता वयम् । तस्माद्देवि त्वया भद्रे न त्याज्यो मान उत्तमः ॥ ३८ ॥ शिवो मर्कटवत्तेऽद्य वर्तते सर्वदा सति । किं करिष्यत्यहङ्कारमानुकूल्यं भविष्यति ॥ ३९ ॥ ब्रह्मोवाच अहो क्षणं स्थिता तत्र शिवेच्छावशतःसती । ४० ॥ मनस्युवाच सा भूत्वा मानिनी पार्वती तदा । ४१ ॥ शिवोवाच अहो क्षणं स्थितो नैव हठात्कारः कथं कृतः । कथं चैवात्र कर्त्तव्यं विनयेनाथ वा पुनः ॥ ४२ ॥ भविष्यति भवत्येव कृतं नैवान्यथा पुनः । इत्युक्त्वा तु सखी तत्र प्रेषिता प्रियया तदा ॥ ४३ ॥ समागत्याऽब्रवीत्सा च प्रियया कथितं हि यत् । तमाचष्ट गणेशं तं गिरिजातनयं तदा ॥ ४४ ॥ सख्युवाच सम्यक्कृतं त्वया भद्र बलात्ते प्रविशन्तु न । भवदग्रे गणा ह्येते किं जयन्तु भवादृशम् ॥ ४५ ॥ कृतं चेद्वाकृतं चैव कर्त्तव्यं क्रियतां त्वया । जितो यस्तु पुनर्वापि न वैरमथ वा ध्रुवम् ॥ ४६ ॥ ब्रह्मोवाच इति श्रुत्वा वचस्तस्या मातुश्चैव गणेश्वरः । आनन्दं परमं प्राप बलं भूरि महोन्नतिम् ॥ ४७ ॥ बद्धकक्षस्तथोष्णीषं बद्ध्वा जङ्घोरु संस्पृशन् । उवाच तान् गणान् सर्वान् निर्भयं वचनं मुदा ॥ ४८ ॥ गणेश उवाच अहं च गिरिजासूनुर्यूयं शिवगणास्तथा । उभये समतां प्राप्ताः कर्तव्यं क्रियतां पुनः ॥ ४९ ॥ भवन्तो द्वारपालाश्च द्वारपोहं कथं न हि । भवन्तश्च स्थितास्तत्राऽहं स्थितोत्रेति निश्चितम् ॥ ५० ॥ भवद्भिश्च स्थितं ह्यत्र यदा भवति निश्चितम् । तदा भवद्भिः कर्त्तव्यं शिवाज्ञापरिपालनम् ॥ ५१ ॥ इदानीं तु मया चात्र शिवाज्ञापरिपालनम् । सत्यं च क्रियते वीरा निर्णीतं मे यथोचितम् ॥ ५२ ॥ तस्माच्छिवगणाःसर्वे वचनं शृणुतादरात् । हठाद्वा विनयाद्वा न गन्तव्यं मन्दिरे पुनः ॥ ५३ ॥ ब्रह्मोवाच इत्युक्तास्ते गणेनैव सर्वे ते लज्जिता गणाः । ययुः शिवान्तिकं तं वै नमस्कृत्य पुरः स्थिताः ॥ ५४ ॥ स्थित्वा न्यवेदयन्सर्वे वृत्तान्तं च तदद्भुतम् । करौ बद्ध्वा नतस्कन्धाः शिवं स्तुत्वा पुरः स्थिताः ॥ ५५ ॥ तत्सर्वं तु तदा श्रुत्वा वृत्तं तत्स्वगणोदितम् । लौकिकीं वृत्तिमाश्रित्य शंकरो वाक्यमब्रवीत् ॥ ५६ ॥ शंकर उवाच श्रूयतां च गणाःसर्वे युद्धं योग्यं भवेन्नहि । यूयं चात्रास्मदीया वै स च गौरीगणस्तथा ॥ ५७ ॥ विनयः क्रियते चेद्वै वश्यः शम्भुः स्त्रिया सदा । इति ख्यातिर्भवेल्लोके गर्हिता मे गणा धुवम् ॥ ५८ ॥ कृते चैवात्र कर्तव्यमिति नीतिर्गरीयसी । एकाकी स गणो बालः किं करिष्यति विक्रमम् ॥ ५९ ॥ भवन्तश्च गणा लोके युद्धे चाति विशारदाः । मदीयाश्च कथं युद्धं हित्वा यास्यथ लाघवम् ॥ ६० ॥ स्त्रिया ग्रहः कथं कार्यो पत्युरग्रे विशेषतः । कृत्वा सा गिरिजा तस्य नूनं फलमवाप्स्यति ॥ ६१ ॥ तस्मात्सर्वे च मद्वीराः शृणुतादरतो वचः । कर्त्तव्यं सर्वथा युद्धं भावि यत्तद्भवत्विति ॥ ६२ ॥ ब्रह्मोवाच इत्युक्त्वा शंकरो ब्रह्मन् नानालीलाविशारदः । विरराम मुनिश्रेष्ठ दर्शयँल्लौकिकीं गतिम् ॥ ६३ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणविवादवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥ श्रीगौरीशंकरार्पणमस्तु |