|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे
त्रयोदशोऽध्यायः
गणेशोत्पत्तिः
सूत उवाच
तारकारेरिति श्रुत्वा वृत्तमद्भुतमुत्तमम् । नारदःसुप्रसन्नोथ पप्रच्छ प्रीतितो विधिम् ॥ १ ॥ नारद उवाच देवदेव प्रजानाथ शिवज्ञाननिधे मया । श्रुतं कार्तिकसद्वृत्तममृतादपि चोत्तमम् ॥ २ ॥ अधुना श्रोतुमिच्छामि गाणेशं वृत्तमुत्तमम् । तज्जन्मचरितं दिव्यं सर्वमंगलमंगलम् ॥ ३ ॥ सूत उवाच इत्याकर्ण्य वचस्तस्य नारदस्य महामुने । प्रसन्नमानसो ब्रह्मा प्रत्युवाच शिवं स्मरन् ॥ ४ ॥ ब्रह्मोवाच कल्पभेदाद्गणेशस्य जनिः प्रोक्ता विधेः परात् । शनिदृष्टं शिरश्छिन्नं सञ्चितं गाजमाननम् ॥ ५ ॥ इदानीं श्वेतकल्पोक्ता गणेशोत्पत्तिरुच्यते । यत्र च्छिन्नं शिरस्तस्य शिवेन च कृपालुना ॥ ६ ॥ सन्देहो नात्र कर्तव्यः शंकरःसूतिकृन्मुने । स हि सर्वाधिपः शम्भुर्निर्गुणः सगुणोऽपि हि ॥ ७ ॥ तल्लीलयाखिलं विश्वं सृज्यते पाल्यते तथा । विनाश्यते मुनिश्रेष्ठ प्रस्तुतं शृणु चादरात् ॥ ८ ॥ उद्वाहिते शिवे चात्र कैलासं च गते सति । कियता चैव कालेन जातो गणपतेर्भवः ॥ ९ ॥ एकस्मिन्नेव काले च जया च विजया सखी । पार्वत्या च मिलित्वा वै विचारे तत्पराभवत् ॥ १० ॥ रुद्रस्य च गणाःसर्वे शिवस्याज्ञापरायणाः । ते सर्वेप्यस्मदीयाश्च नन्दिभृङ्गिपुरःसराः ॥ ११ ॥ प्रमथास्ते ह्यसङ्ख्याता अस्मदीयो न कश्चन । द्वारि तिष्ठन्ति ते सर्वे शंकराज्ञापरायणाः ॥ १२ ॥ ते सर्वेप्यस्मदीयांश्च तथापि न मिलेन्मनः । एकश्चैवास्मदीयो हि रचनीयस्त्वयानघे ॥ १३ ॥ ब्रह्मोवाच इत्युक्त्वा पार्वती देवी सखीभ्यां सुन्दरं वचः । हितं मेने तदा तच्च कर्तुं स्माप्यध्यवस्यति ॥ १४ ॥ ततः कदाचिन्मज्जत्यां पार्वत्यां वै सदाशिवः । नन्दिनं परिभर्त्स्याथ ह्याजगाम गृहान्तरम् ॥ १५ ॥ आयान्तं शंकरं दृष्ट्वाऽसमये जगदम्बिका । उत्तस्थौ मज्जती सा वै लज्जिता सुन्दरी तदा ॥ १६ ॥ तस्मिन्नवसरे देवी कौतुकेनातिसंयुता । तदीयं तद्वचश्चैव हितं मेने सुखावहम् ॥ १७ ॥ एवं जाते सदा काले कदाचित्पार्वती शिवा । विचिन्त्य मनसा चेति परमाया परेश्वरी ॥ १८ ॥ मदीयःसेवकः कश्चिद्भवेच्छुभतरः कृती । मदाज्ञया परं नान्यद्रेखामात्रं चलेदिह ॥ १९ ॥ विचार्येति च सा देवी वपुषो मलसम्भवम् । पुरुषं निर्ममौ सा तु सर्वलक्षणसंयुतम् ॥ २० ॥
सर्वावयवनिर्दोषं सर्वावयव सुन्दरम् । विशालं सर्वशोभाढ्यं महाबलपराक्रमम् ॥ २१ ॥ वस्त्राणि च तदा तस्मै दत्त्वा सा विविधानि हि । नानालङ्करणं चैव बह्वाशिषमनुत्तमाम् ॥ २२ ॥ मत्पुत्रस्त्वं मदीयोऽसि नान्यः कश्चिदिहास्ति मे । एवमुक्तस्य पुरुषो नमस्कृत्य शिवां जगौ ॥ २३ ॥ गणेश उवाच किं कार्यं विद्यते तेऽद्य करवाणि तवोदितम् । इत्युक्ता सा तदा तेन प्रत्युवाच सुतं शिवा ॥ २४ ॥ शिवोवाच हे तात शृणु मद्वाक्यं द्वारपालो भवाद्य मे । मत्पुत्रस्त्वं मदीयोऽसि नान्यथा कश्चिदस्ति मे ॥ २५ ॥ विना मदाज्ञां मत्पुत्र नैवायान्मद्गृहान्तरम् । कोऽपि क्वापि हठात्तात सत्यमेतन्मयोदितम् ॥ २६ ॥ ब्रह्मोवाच इत्युक्त्वा च ददौ तस्मै यष्टिं चातिदृढां मुने । तदीयं रूपमालोक्य सुन्दरं हर्षमागता ॥ २७ ॥ मुखमाचुम्ब्य सुप्रीत्यालिङ्ग्य तं कृपया सुतम् । स्वद्वारि स्थापयामास यष्टिपाणिं गणाधिपम् ॥ २८ ॥ अथ देवीसुतस्तात गृहद्वारि स्थितो गणः । यष्टिपाणिर्महावीरः पार्वतीहितकाम्यया ॥ २९ ॥ स्वद्वारि स्थापयित्वा तं गणेशं स्वसुतं शिवा । स्वयं च मज्जती सा वै संस्थितासीत्सखीयुता ॥ ३० ॥ एतस्मिन्नेव काले तु शिवो द्वारि समागतः । कौतुकी मुनिर्शादूल नानालीलाविशारदः ॥ ३१ ॥ उवाच च शिवेशं तमविज्ञाय गणाधिपः । मातुराज्ञां विना देव गम्यतां न त्वयाधुना ॥ ३२ ॥ मज्जनार्थं स्थिता माता क्व यासीतो व्रजाधुना । इत्युक्त्वा यष्टिकां तस्य रोधनाय तदाग्रहीत् ॥ ३३ ॥ तं दृष्ट्वा तु शिवः प्राह कं निषेधसि मूढधीः । मां न जानास्यसद्बुद्धे शिवोऽहमिति नान्यथा ॥ ३४ ॥ ताडितस्तेन यष्ट्या हि गणेशेन महेश्वरः । प्रत्युवाच स तं पुत्रं बहुलीलश्च कोपितः ॥ ३५ ॥ शिव उवाच मुर्खोसि त्वं न जानासि शिवोऽहं गिरिजापतिः । स्वगृहं यामि रे बाल निषेधसि कथं हि माम् ॥ ३६ ॥ ब्रह्मोवाच इत्युक्त्वा प्रविशन्तं तं महेशं गणनायकः । क्रोधं कृत्वा ततो विप्र दण्डेनाताडयत्पुनः ॥ ३७ ॥ ततः शिवश्च सङ्क्रुद्धो गणानाज्ञापयन्निजान् । को वायं वर्तते किञ्च क्रियते पश्यतां गणाः ॥ ३८ ॥ इत्युक्त्वा तु शिवस्तत्र स्थितः क्रुद्धो गृहाद्बहिः । भवाचाररतःस्वामी बह्वद्भुतसुलीलकः ॥ ३९ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥ श्रीगौरीशंकरार्पणमस्तु |