॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे

द्वादशोऽध्यायः

तारकवधानन्तरं देवैः कृतास्तुतिः


ब्रह्मोवाच
निहतं तारकं दृष्ट्‍वा देवा विष्णुपुरोगमाः ।
तुष्टुवुः शाङ्‌करिं भक्त्या सर्वेऽन्ये मुदिताननाः ॥ १ ॥
देवा ऊचुः
नमः कल्याणरूपाय नमस्ते विश्वमंगल ।
विश्वबन्धो नमस्तेऽस्तु नमस्ते विश्वभावन ॥ २ ॥
नमोस्तु ते दानववर्यहन्त्रे
    बाणासुरप्राणहराय देव ।
प्रलम्बनाशाय पवित्ररूपिणे
नमोनमः शंकरतात तुभ्यम् ॥ ३ ॥
त्वमेव कर्त्ता जगतां च भर्त्ता
    त्वमेव हर्त्ता शुचिज प्रसीद ।
प्रपञ्चभूतस्तव लोकबिम्बः
    प्रसीद शम्भ्वात्मज दीनबन्धो ॥ ४ ॥
देवरक्षाकर स्वामिन् रक्ष नः सर्वदा प्रभो ।
देवप्राणावन कर प्रसीद करुणाकर ॥ ५ ॥
हत्वा ते तारकं दैत्यं परिवारयुतं विभो ।
मोचिताः सकला देवा विपद्‌भ्यः परमेश्वर ॥ ६ ॥
ब्रह्मोवाच
एवं स्तुतः कुमारोऽसौ देवैर्विष्णुमुखैः प्रभुः ।
वरान्ददावभिनवान्सर्वेभ्यः क्रमशो मुने ॥ ७ ॥
शैलान्निरीक्ष्य स्तुवतस्ततःस गिरिशात्मजः ।
सुप्रसन्नतरो भूत्वा प्रोवाच प्रददद्वरान् ॥ ८ ॥
स्कन्द उवाच
यूयं सर्वे पर्वता हि पूजनीयास्तपस्विभिः ।
कर्मिभिर्ज्ञानिभिश्चैव सेव्यमाना भविष्यथ ॥ ९ ॥
शम्भोर्विशिष्टरूपाणि लिङ्‌गरूपाणि चैव हि ।
भविष्यथ न सन्देहः पर्वता वचनान्मम ॥ १० ॥
योऽयं मातामहो मेऽद्य हिमवान्पर्वतोत्तमः ।
तपस्विनां महाभागः फलदो हि भविष्यति ॥ ११ ॥
देवा ऊचुः
एवं दत्त्वा वरान् हत्वा तारकं चासुराधिपम् ।
त्वया कृताश्च सुखिनो वयं सर्वे चराचराः ॥ १२ ॥
इदानीं खलु सुप्रीत्या कैलासं गिरिशालयम् ।
जननी जनकौ द्रष्टुं शिवाशम्भू त्वमर्हसि ॥ १३ ॥
ब्रह्मोवाच
इत्युक्त्वा निखिला देवा विष्ण्वाद्या प्राप्तशासनाः ।
कृत्वा महोत्सवं भूरि सकुमारा ययुर्गिरिम् ॥ १४ ॥
कुमारे गच्छति विभौ कैलासं शंकरालयम् ।
महामंगलमुत्तस्थौ जयशब्दो बभूव ह ॥ १५ ॥
आरुरोह कुमारोऽसौ विमानं परमर्द्धिमत् ।
सर्वतोलङ्‌कृतं रम्यं सर्वोपरि विराजितम् ॥ १६ ॥
अहं विष्णुश्च समुदौ तदा चामरधारिणौ ।
गुह मूर्ध्नि महाप्रीत्या मुनेऽभूव ह्यतन्द्रितौ ॥ १७ ॥
इन्द्राद्या अमराः सर्वे कुर्वन्तो गुहसेवनम् ।
यथोचितं चतुर्दिक्षु जग्मुश्च प्रमुदास्तदा ॥ १८ ॥
शम्भोर्जयं प्रभाषन्तः प्रापुस्ते शम्भुपर्वतम् ।
सानन्दा विविशुस्तत्रोच्चरितो मंगलध्वनिः ॥ १९ ॥
दृष्ट्‍वा शिवं शिवां चैव सर्वे विष्ण्वादयो द्रुतम् ।
प्रणम्य शंकरं भक्त्या करौ बद्ध्वा विनम्रकाः ॥ २० ॥
कुमारोऽपि विनीतात्मा विमानादवतीर्य च ।
प्रणनाम मुदा शम्भुं शिवां सिंहासनस्थिताम् ॥ २१ ॥
अथ दृष्ट्‍वा कुमारं तं तनयं प्राणवल्लभम् ।
तौ दम्पती शिवौ देवौ मुमुदातेऽति नारद ॥ २२ ॥
महाप्रभुःसमुत्थाप्य तमुत्सङ्‌गे न्यवेशयत् ।
मूर्ध्नि जघ्रौ मुदा स्नेहात्तं पस्पर्श करेण ह ॥ २३ ॥
महानन्दभरः शम्भुश्चकार मुखचुम्बनम् ।
कुमारस्य महास्नेहात् तारकारेर्महाप्रभोः ॥ २४ ॥
शिवापि तं समुत्थाप्य स्वोत्सङ्‌गे संन्यवेशयत् ।
कृत्वा मूर्ध्नि महास्नेहात् तन्मुखाब्जं चुचुम्ब हि ॥ २५ ॥
तयोस्तदा महामोदो ववृधेऽतीव नारद ।
दम्पत्योः शिवयोस्तात भवाचारं प्रकुर्वतोः ॥ २६ ॥
तदोत्सवो महानासीन्नानाविधिः शिवालये ।
जयशब्दो नमः शब्दो बभूवातीव सर्वतः ॥ २७ ॥
ततःसुरगणाः सर्वे विष्ण्वाद्या मुनयस्तथा ।
सुप्रणम्य मुदा शम्भुं तुष्टुवुः सशिवं मुने ॥ २८ ॥
देवा ऊचुः
देवदेव महादेव भक्तानामभयप्रद ।
नमो नमस्ते बहुशः कृपाकर महेश्वर ॥ २९ ॥
अद्‌भुता ते महादेव महालीला सुखप्रदा ।
सर्वेषां शंकर सतां दीनबन्धो महाप्रभो ॥ ३० ॥
एवं मूढधियश्चाज्ञाः पूजायां ते सनातनम् ।
आवाहनं न जानीमो गतिं नैव प्रभोद्‌भुताम् ॥ ३१ ॥
गङ्‌गासलिलधाराय ह्याधाराय गुणात्मने ।
नमस्ते त्रिदशेशाय शंकराय नमोनमः ।३२ ॥
वृषाङ्‌काय महेशाय गणानां पतये नमः ।
सर्वेश्वराय देवाय त्रिलोकपतये नमः ॥ ३३ ॥
संहर्त्रे जगतां नाथ सर्वेषां ते नमो नमः ।
भर्त्रे कर्त्रे च देवेश त्रिगुणेशाय शाश्वते ॥ ३४ ॥
विसङ्‌गाय परेशाय शिवाय परमात्मने ।
निष्प्रपञ्चाय शुद्धाय परमायाव्ययाय च ॥ ३५ ॥
दण्डहस्ताय कालाय पाशहस्ताय ते नमः ।
वेदमन्त्रप्रधानाय शतजिह्वाय ते नमः ॥ ३६ ॥
भूतं भव्यं भविष्यं च स्थावरं जङ्‌गमं च यत् ।
तव देहात्समुत्पन्नं सर्वथा परमेश्वर ॥ ३७ ॥
पाहि नःसर्वदा स्वामिन्प्रसीद भगवन्प्रभो ।
वयं ते शरणापन्नाः सर्वथा परमेश्वर ॥ ३८ ॥
शितिकण्ठाय रुद्राय स्वाहाकाराय ते नमः ।
अरूपाय सरूपाय विश्वरूपाय ते नमः ॥ ३९ ॥
शिवाय नीलकण्ठाय चिताभस्माङ्‌गधारिणे ।
नित्यं नीलशिखण्डाय श्रीकण्ठाय नमोनमः ॥ ४० ॥
सर्वप्रणतदेहाय संयमप्रणताय च ।
महादेवाय शर्वाय सर्वार्चितपदाय च ॥ ४१ ॥
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ।
आत्मा च सर्वभूतानां साङ्‌ख्यैः पुरुष उच्यसे ॥ ४२ ॥
पर्वतानां सुमेरुस्त्वं नक्षत्राणां च चन्द्रमा ।
ऋषीणां च वशिष्ठस्त्वं देवानां वासवस्तथा ॥ ४३ ॥
ॐकारः सर्ववेदानां त्राता भव महेश्वर ।
त्वं च लोकहितार्थाय भूतानि परिषिञ्चसि ॥ ४४ ॥
महेश्वर महाभाग शुभाशुभनिरीक्षक ।
आप्यायास्मान्हि देवेश कर्तॄन्वै वचनं तव ॥ ४५ ॥
रूपकोटिसहस्रेषु रूपकोटिशतेषु ते ।
अन्तं गन्तुं न शक्ताः स्म देवदेव नमोस्तु ते ॥ ४६ ॥
ब्रह्मोवाच
इति स्तुत्वाखिला देवा विष्ण्वाद्या प्रमुखस्थिताः ।
मुहुर्मुहुः सुप्रणम्य स्कन्दं कृत्वा पुरःसरम् ॥ ४७ ॥
देवस्तुतिं समाकर्ण्य शिवःसर्वेश्वरः स्वराट् ।
सुप्रसन्नो बभूवाथ विजहास दयापरः ॥ ४८ ॥
उवाच सुप्रसन्नात्मा विष्ण्वादीन्सुरसत्तमान् ।
शंकरः परमेशानो दीनबन्धुःसतां गतिः ॥ ४९ ॥
शिव उवाच
हे हरे हे विधे देवा वाक्यं मे शृणुतादरात् ।
सर्वथाहं सतां त्राता देवानां वः कृपानिधिः ॥ ५० ॥
दुष्टहन्ता त्रिलोकेशः शंकरो भक्तवत्सलः ।
कर्ता भर्ता च हर्ता च सर्वेषां निर्विकारवान् ॥ ५१ ॥
यदा यदा भवेद्दुःखं युष्माकं देवसत्तमाः ।
तदा तदा मां यूयं वै भजन्तु सुखहेतवे ॥ ५२ ॥
ब्रह्मोवाच
इत्याज्ञप्तस्तदा देवा विष्ण्वाद्याः समुनीश्वराः ।
शिवं प्रणम्य सशिवं कुमारं च मुदान्विताः ॥ ५३ ॥
कथयन्तो यशो रम्यं शिवयोः शाङ्‌करेश्च तत् ।
आनन्दं परमं प्राप्य स्वधामानि ययुर्मुने ॥ ५४ ॥
शिवोपि शिवया सार्द्धं सगणः परमेश्वरः ।
कुमारेणयुतः प्रीत्योवास तस्मिन्गिरौ मुदा ॥ ५५ ॥
इत्येवं कथितं सर्वं कौमारं चरितं मुने ।
शैवं च सुखदं दिव्यं किमन्यच्छ्रोतुमिच्छसि ॥ ५६ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे
स्वामिकार्तिकचरितगर्भितशिवाशिवचरितवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP