॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे

एकादशोऽध्यायः

बाणप्रलम्बवधपूर्वक कुमारविजयवर्णनं लिङ्‌गस्थापनञ्च


ब्रह्मोवाच
एतस्मिन्नन्तरे तत्र क्रौञ्चनामाचलो मुने ।
आजगाम कुमारस्य शरणं बाणपीडितः ॥ १ ॥
पलायमानो यो युद्धादसोढा तेज ऐश्वरम् ।
तुतोदातीव स क्रौञ्चं कोट्यायुतबलान्वितः ॥ २ ॥
प्रणिपत्य कुमारस्य स भक्त्या चरणाम्बुजम् ।
प्रेमनिर्भरया वाचा तुष्टाव गुहमादरात् ॥ ३ ॥
क्रौञ्च उवाच
कुमार स्कन्द देवेश तारकासुरनाशक ।
पाहि मां शरणापन्नं बाणासुरनिपीडितम् ॥ ४ ॥
सङ्‌गरात्ते महासेन समुच्छिन्नः पलायितः ।
न्यपीडयच्च माऽऽगत्य हा नाथ करुणाकर ॥ ५ ॥
तत्पीडितस्ते शरणमागतोऽहं सुदुःखितः ।
पलायमानो देवेश शरजन्मन् दयां कुरु ॥ ६ ॥
दैत्यं तं नाशय विभो बाणाह्वं मां सुखीकुरु ।
दैत्यघ्नस्त्वं विशेषेण देवावनकरः स्वराट् ॥ ७ ॥
ब्रह्मोवाच
इति क्रौञ्चस्तुतःस्कन्दः प्रसन्नो भक्तपालकः ।
गृहीत्वा शक्तिमतुलां स्वां सस्मार शिवो धिया ॥ ८ ॥
चिक्षेप तां समुद्दिश्य स बाणं शंकरात्मजः ।
महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः ॥ ९ ॥
सबलं भस्मसात्कृत्वासुरं तं क्षणमात्रतः ।
गुहोपकण्ठं शक्तिः सा जगाम परमा मुने ॥ १ ० ॥
ततः कुमार प्रोवाच क्रौञ्चं गिरिवरं प्रभुः ।
निर्भयः स्वगृहं गच्छ नष्टः स सबलोऽसुरः ॥ ११ ॥
तच्छुत्वा स्वामिवचनं मुदितो गिरिराट् तदा ।
स्तुत्वा गुहं तदारातिं स्वधाम प्रत्यपद्यत ॥ १२ ॥
ततः स्कन्दो महेशस्य मुदा स्थापितवान्मुने ।
त्रीणि लिङ्‌गानि तत्रैव पापघ्नानि विधानतः ॥ १३ ॥
प्रतिज्ञेश्वरनामादौ कपालेश्वरमादरात् ।
कुमारेश्वरमेवाथ सर्वसिद्धिप्रदं त्रयम् ॥ १४ ॥
पुनःसर्वेश्वरस्तत्र जयस्तम्भसमीपतः ।
स्तम्भेश्वराभिधं लिङ्‌गं गुहः स्थापितवान्मुदा ॥ १५ ॥
ततः सर्वे सुरास्तत्र विष्णुप्रभृतयो मुदा ।
लिङ्‌गं स्थापितवन्तस्ते देवदेवस्य शूलिनः ॥ १६ ॥
सर्वेषां शिवलिङ्‌गानां महिमाभूत्तदाद्‌भुतः ।
सर्वकामप्रदश्चापि मुक्तिदो भक्तिकारिणाम् ॥ १७ ॥
ततः सर्वे सुरा विष्णुप्रमुखाः प्रीतमानसाः ।
ऐच्छन्गिरिवरं गन्तुं पुरस्कृत्य गुहं मुदा ॥ १८ ॥
तस्मिन्नवसरे शेषपुत्रः कुमुदनामकः ।
आजगाम कुमारस्य शरणं दैत्यपीडितः ॥ १९ ॥
प्रलम्बाख्योऽसुरो यो हि रणादस्मात्पलायितः ।
स तत्रोपद्रवं चक्रे प्रबलस्तारकानुगः ॥ २० ॥
सोऽथ शेषस्य तनयः कुमुदोऽहिपतेर्महान् ।
कुमारशरणं प्राप्तस्तुष्टाव गिरिजात्मजम् ॥ २१ ॥
कुमुद उवाच
देवदेव महादेव वरतात महाप्रभो ।
पीडितोऽहं प्रलम्बेन त्वाऽहं शरणमागतः ॥ २२ ॥
पाहि मां शरणापन्नं प्रलम्बासुरपीडितम् ।
कुमार स्कन्द देवेश तारकारे महाप्रभो ॥ २३ ॥
त्वं दीनबन्धुः करुणासिन्धुरानतवत्सलः ।
खलनिग्रहकर्ता हि शरण्यश्च सतां गतिः ॥ २४ ॥
कुमुदेनस्तुतश्चेत्थं विज्ञप्तस्तद्वधाय हि ।
स्वाश्च शक्तिं स जग्राह स्मृत्वा शिवपदाम्बुजौ ॥ २५ ॥
चिक्षेप तां समुद्दिश्य प्रलम्बं गिरिजासुतः ।
महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः ॥ २६ ॥
तं सायुतबलं शक्तिर्द्रुतं कृत्वा च भस्मसात् ।
गुहोपकण्ठं सहसाजगामाक्लिष्टकारिणी ॥ २७ ॥
ततः कुमारः प्रोवाच कुमुदं नागबालकम् ।
निर्भयः स्वगृहं गच्छ नष्टः स सबलोऽसुरः ॥ २८ ॥
तच्छुत्वा गुहवाक्यं स कुमुदोऽहिपतेः सुतः ।
स्तुत्वा कुमारं नत्वा च पातालं मुदितो ययौ ॥ २९ ॥
एवं कुमारविजयं वर्णितं ते मुनीश्वर ।
चरितं तारकवधं परमाश्चर्यकारकम् ॥ ३० ॥
सर्वपापहरं दिव्यं सर्वकामप्रदं नृणाम् ।
धन्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम् ॥ ३१ ॥
ये कीर्तयन्ति सुयशोऽमितभाग्ययुता नराः ।
कुमारचरितं दिव्यं शिव लोकं प्रयान्ति ते ॥ ३२ ॥
श्रोष्यन्ति ये च तत्कीर्तिं भक्त्या श्रद्धान्विता जनाः ।
मुक्तिं प्राप्स्यन्ति ते दिव्यामिह भुक्त्वा परं सुखम् ॥ ३३ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे
कुमारखण्डे बाणप्रलम्बवध कुमारविजयवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP