॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे

दशमोऽध्यायः

तारकासुरवधः देवोत्सववर्णनञ्च


ब्रह्मोवाच
निवार्य वीरभद्रं तं कुमारः परवीरहा ।
समैच्छत्तारकवधं स्मृत्वा शिवपदाम्बुजौ ॥ १ ॥
जगर्जाथ महातेजाः कार्तिकेयो महाबलः ।
सन्नद्धः सोऽभवत्क्रुद्धः सैन्येन महता वृतः ॥ २ ॥
तदा जय जयेत्युक्तं सर्वैर्देर्वेर्गणैस्तथा ।
संस्तुतो वाग्भिरिष्टाभिस्तदैव च सुरर्षिभिः ॥ ३ ॥
तारकस्य कुमारस्य सङ्‌ग्रामोऽतीव दुःसहः ।
जातस्तदा महाघोरः सर्वभूत भयङ्‌करः ॥ ४ ॥
शक्तिहस्तौ च तौ वीरौ युयुधाते परस्परम् ।
सर्वेषां पश्यतां तत्र महाश्चर्यवतां मुने ॥ ५ ॥
शक्तिनिर्भिन्नदेहौ तौ महासाधनसंयुतौ ।
परस्परं वञ्चयन्तौ सिंहाविव महाबलौ ॥ ६ ॥
वैतालिकं समाश्रित्य तथा खेचरकं मतम् ।
पापं तं च समाश्रित्य शक्त्या शक्तिं विजघ्नतुः ॥ ७ ॥
एभिर्मन्त्रैर्महावीरौ चक्रतुर्युद्धमद्‌भुतम् ।
अन्योन्यं साधकौ भूत्वा महाबलपराक्रमौ ॥ ८ ॥
महाबलं प्रकुर्वन्तौ परस्परवधैषिणौ ।
जघ्नतुः शक्तिधाराभी रणे रणविशारदौ ॥ ९ ॥
मूर्ध्नि कण्ठे तथा चोर्वोर्जान्वोश्चैव कटीतटे ।
वक्षस्युरसि पृष्ठे च चिच्छिदुश्च परस्परम् ॥ १० ॥
तदा तौ युध्यमानौ च हन्तुकामौ महाबलौ ।
वल्गन्तौ वीरशब्दैश्च नानायुद्धविशारदौ ॥ ११ ॥
अभवन्प्रेक्षकाः सर्वे देवा गन्धर्वकिन्नराः ।
ऊचुः परस्परं तत्र कोस्मिन् युद्धे विजेष्यते ॥ १२ ॥
तदा नभोगता वाणी जगौ देवांश्च सान्त्वयन् ।
असुरं तारकं चात्र कुमारोऽयं हनिष्यति ॥ १३ ॥
मा शोच्यतां सुरैः सर्वै सुखेन स्थीयतामिति ।
युष्मदर्थं शंकरो हि पुत्ररूपेण संस्थितः ॥ १४ ॥
श्रुत्वा तदा तां गगने समीरितां
    वाचं शुभां स प्रमथेःसमावृतः ।
निहन्तुकामः सुखितः कुमारको
    दैत्याधिपं तारकमाश्वभूत्तदा ॥ १५ ॥
शक्त्या तया महाबाहुराजघान स्तनान्तरे ।
कुमारः स्म रुषाविष्टस्तारकासुरमोजसा ॥ १६ ॥
तं प्रहारमनादृत्य तारको दैत्यपुङ्‌गवः ।
कुमारं चापि सङ्‌क्रुद्धः स्वशक्त्या सञ्जघान सः ॥ १७ ॥
तेन शक्तिप्रहारेण शाङ्‌करिर्मूच्छितोऽभवत् ।
मुहूर्ताच्चेतनां प्राप स्तूयमानो महर्षिभिः ॥ १८ ॥
यथा सिंहो मदोन्मत्तो हन्तुकामस्तथासुरम् ।
कुमारस्तारकं शक्त्या स जघान प्रतापवान् ॥ १९ ॥
एवं परस्परं तौ हि कुमारश्चापि तारकः ।
युयुधातेऽतिसंरब्धौ शक्तियुद्धविशारदौ ॥ २० ॥
अभ्यासपरमावास्तामन्योन्यं विजिगीषया ।
पदातिनौ युध्यमान्नौ चित्ररूपौ तरस्विनौ ॥ २१ ॥
विविधैर्घातपुञ्जैस्तावन्योन्यं विनिजघ्नतुः ।
नानामार्गान्प्रकुर्वन्तौ गर्जन्तौ सुपराक्रमौ ॥ २२ ॥
अवलोकपराः सर्वे देवगन्धर्वकिन्नराः ।
विस्मयं परमं जग्मुर्नोचुः किञ्चन तत्र ते ॥ २३ ॥
न ववौ पवमानश्च निष्प्रभोऽभूद्दिवाकरः ।
चचाल वसुधा सर्वा सशैलवनकानना ॥ २४ ॥
एतस्मिन्नन्तरे तत्र हिमालयमुखा धराः ।
स्नेहार्दितास्तदा जग्मुः कुमारं च परीप्सवः ॥ २५ ॥
ततः स दृष्ट्‍वा तान्सर्वान्भयभीतांश्च शाङ्‌करिः ।
पर्वतान्गिरिजापुत्रो बभाषे परिबोधयन् ॥ २६ ॥
कुमार उवाच
मा खिद्यतां महाभागा मा चिन्तां कुर्वतां नगाः ।
घातयाम्यद्य पापिष्ठं सर्वेषां वः प्रपश्यताम् ॥ २७ ॥
एवं समाश्वास्य तदा पर्वतान् निर्जरान् गणान् ।
प्रणम्य गिरिजां शम्भुमाददे शक्तिमुत्प्रभाम् ॥ २८ ॥
तं तारकं हन्तुमनाः करशक्तिर्महाप्रभुः ।
विरराज महावीरः कुमारः शम्भुबालकः ॥ २९ ॥
शक्त्या तया जघानाथ कुमारस्तारकासुरम् ।
तेजसाढ्यः शंकरस्य लोकक्लेशकरं च तम् ॥ ३० ॥
पपात सद्यः सहसा विशीर्णाङ्‌गोऽसुरः क्षितौ ।
तारकाख्यो महावीरःसर्वासुरगणाधिपः ॥ ३१ ॥
कुमारेण हतः सोऽतिवीरः स खलु तारकः ।
लयं ययौ च तत्रैव सर्वेषां पश्यतां मुने ॥ ३२ ॥
तथा तं पतितं दृष्ट्‍वा तारकं बलवत्तरम् ।
न जघान पुनर्वीरः स गत्वा व्यसुमाहवे ॥ ३३ ॥
हते तस्मिन्महादैत्ये तारकाख्ये महाबले ।
क्षयं प्रणीता बहवोऽसुरा देवगणैस्तदा ॥ ३४ ॥
केचिद्‌भीताः प्राञ्जलयो बभूवुस्तत्र चाहवे ।
छिन्नभिन्नाङ्‌गकाः केचिन्मृता दैत्याःसहस्रशः ॥ ३५ ॥
केचिज्जाताः कुमारस्य शरणं शरणार्थिनः ।
वदन्तः पाहि पाहीति दैत्याः साञ्जलयस्तदा ॥ ३६ ॥
कियन्तश्च हतास्तत्र कियन्तश्च पलायिताः ।
पलायमाना व्यथिता स्ताडिता निर्ज्जरैर्गणैः ॥ ३७ ॥
सहस्रशः प्रविष्टास्ते पाताले च जिजीषवः ।
पलायमानास्ते सर्वे भग्नाशा दैन्यमागताः ॥ ३८ ॥
एवं सर्वं दैत्यसैन्यं भ्रष्टं जातं मुनीश्वर ।
न केचित्तत्र सन्तस्थुर्गणदेवभयात्तदा ॥ ३९ ॥
आसीन्निष्कंटकं सर्वं हते तस्मिन्दुरात्मनि ।
ते देवाः सुखमापन्नाः सर्वे शक्रादयस्तदा ॥ ४० ॥
एवं विजयमापन्नं कुमारं निखिलाः सुराः ।
बभूवुर्युगपद् हृष्टास्त्रिलोकाश्च महासुखा ॥ ४१ ॥
तदा शिवोऽपि तं ज्ञात्वा विजयं कार्तिकस्य च ।
तत्राजगाम स मुदा सगणः प्रियया सह ॥ ४२ ॥
स्वात्मजं स्वाङ्‌कमारोप्य कुमारं सूर्यवर्चसम् ।
लालयामास सुप्रीत्या शिवा च स्नेहसङ्‌कुला ॥ ४३ ॥
हिमालयस्तदागत्य स्वपुत्रैः परिवारितः ।
सबन्धुःसानुगः शम्भुं तुष्टाव च शिवां गुहम् ॥ ४४ ॥
ततो देवगणाः सर्वे मुनयः सिद्धचारणाः ।
तुष्टुवुः शाङ्‌करिं शम्भुं गिरिजां तुषितां भृशम् ॥ ४५ ॥
पुष्पवृष्टिं सुमहतीं चक्रुश्चोपसुरास्तदा ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ४६ ॥
वादित्राणि तथा नेदुस्तदानीं च विशेषतः ।
जयशब्दो नमः शब्दो बभूवोच्चैर्मुहुर्मुहुः ॥ ४७ ॥
ततो मयाच्युतश्चापि सन्तुष्टोभूद्विशेषतः ।
शिवं शिवां कुमारं च सन्तुष्टाव समादरात् ॥ ४८ ॥
कुमारमग्रतः कृत्वा हरिकेन्द्रमुखाः सुराः ।
चक्रुर्नीराजनं प्रीत्या मुनयश्चापरे तथा ॥ ४९ ॥
गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ।
तदोत्सवो महानासीत्कीर्तनं च विशेषतः ॥ ५० ॥
गीतवाद्यैः सुप्रसन्नैस्तथा साञ्जलिभिर्मुने ।
स्तूयमानो जगन्नाथः सर्वैर्दैवैर्गणैरभूत ॥ ५१ ॥
ततःस भगवान् रुद्रो भवान्या जगदम्बया ।
सर्वैः स्तुतो जगामाथ स्वगिरिं स्वगणैर्वृतः ॥ ५२ ॥
इति श्री शिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे
तारका सुरवधदेवोत्सववर्णनं नाम दशमोऽध्यायः ॥ १० ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP