|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे
नवमोऽध्यायः
तारकेण सह वीरभद्रविष्णोर्घोरयुद्धवर्णनम्
ब्रह्मोवाच
देवदेव गुह स्वामिन् शाङ्करे पार्वतीसुत । न शोभते रणो विष्णु तारकासुरयोर्वृथा ॥ १ ॥ विष्णुना न हि वध्योऽसौ तारको बलवानति । मया दत्तवरस्तस्मात्सत्यं सत्यं वदाम्यहम् ॥ २ ॥ नान्यो हन्तास्य पापस्य त्वां विना पार्वतीसुत । तस्मात्त्वया हि कर्तव्यं वचनं मे महाप्रभो ॥ ३ ॥ सन्नद्धो भव दैत्यस्य वधायाशु परन्तप । तद्वधार्थं समुत्पन्नः शंकरात्त्वं शिवासुत ॥ ४ ॥ रक्ष रक्ष महावीर त्रिदशान् व्यथितान् रणे । न बालस्त्वं युवा नैव किं तु सर्वेश्वरः प्रभुः ॥ ५ ॥ शक्रं पश्य तथा विष्णुं व्याकुलं च सुरान् गणान् । एवं जहि महादैत्यं त्रैलोक्यं सुखिनं कुरु ॥ ६ ॥ अनेन विजितश्चेन्द्रो लोकपालैः पुरा सह । विष्णुश्चापि महावीरो तर्जितस्तपसो बलात् ॥ ७ ॥ त्रैलोक्यं निर्जितं सर्वमसुरेण दुरात्मना । इदानीं तव सान्निध्यात्पुनर्युद्धं कृतं च तैः ॥ ८ ॥ तस्मात्त्वया निहन्तव्यस्तारकः पापपूरुषः । अन्यवध्यो न चैवायं मद्वराच्छङ्करात्मज ॥ ९ ॥ इति श्रुत्वा मम वचः कुमारः शंकरात्मजः । विजहास प्रसन्नात्मा तथास्त्विति वचोऽब्रवीत् ॥ १० ॥ विनिश्चित्यासुरवधं शाङ्करिःस महाप्रभुः । विमानादवतीर्याथ पदातिरभवत्तदा ॥ ११ ॥ पद्भ्यां तदासौ परिधावमानो रेजेऽतिवीरः शिवजः कुमारः । करे समादाय महाप्रभां तां शक्तिं महोल्कामिव दीप्तिदीप्ताम् ॥ १२ ॥ दृष्ट्वा तमायातमतिप्रचण्ड- मव्याकुलं षण्मुखमप्रमेयम् । दैत्यो बभाषे सुरसत्तमान्स कुमार एष द्विषतां प्रहन्ता ॥ १३ ॥ अनेन साकं ह्यहमेकवीरो योत्स्ये च सर्वानहमेव वीरान् । गणांश्च सर्वानपि घातयामि सलोकपालान् हरिनायकांश्च ॥ १४ ॥ इत्येवमुक्त्वा स तदा महाबलः कुमारमुद्दिश्य ययौ च योद्धुम् । जग्राह शक्तिं परमाद्भुतां च स तारको देववरान् बभाषे ॥ १५ ॥ तारक उवाच कुमारो मेऽग्रतश्चाद्य भवद्भिश्च कथं कृतः । यूयं गतत्रपा देवा विशेषाच्छक्रकेश्वौ ॥ १६ ॥ पुरैताभ्यां कृतं कर्म विरुद्धं वेदमार्गतः । तच्छृणुध्वं मया प्रोक्तं वर्णयामि विशेषतः ॥ १७ ॥ तत्र विष्णुश्छली दोषी ह्यविवेकी विशेषतः । बलिर्येन पुरा बद्धश्छलमाश्रित्य पापतः ॥ १६ ॥ तेनैव यत्नतः पूर्वमसुरौ मधुकैटभौ । शिरौहीनौ कृतौ धौर्त्याद्वेदमार्गो विवर्जितः ॥ १९ ॥ मोहिनीरूपतोऽनेन पङ्क्तिभेदः कृतो हि वै । देवासुरसुधापाने वेदमार्गो विगर्हितः ॥ २० ॥ रामो भूत्वा हता नारी वाली विध्वंसितो हि सः । पुनर्वैश्रवणो विप्रो हतो नीतिर्हता श्रुतेः ॥ २१ ॥ पापं विना स्वकीया स्त्री त्यक्ता पापरतेन यत् । तत्रापि श्रुतिमार्गश्च ध्वंसितः स्वार्थहेतवे ॥ २२ ॥ स्वजनन्याः शिवरश्छिन्नमवतारे रसाख्यके । गुरुपुत्रापमानश्च कृतोऽनेन दुरात्मना ॥ २३ ॥ कृष्णो भूत्वान्यनार्यश्च दूषिताः कुलधर्मतः । श्रुतिमार्गं परित्यज्य स्वविवाहाः कृतास्तथा ॥ २४ ॥ पुनश्च वेदमार्गो हि निन्दितो नवमे भवे । स्थापितं नास्तिकमतं वेदमार्गविरोधकृत् ॥ २५ ॥ एवं येन कृतं पापं वेदमार्गं विसृज्य वै । स कथं विजयेद्युद्धे भवेद्धर्मवतां वरः ॥ २६ ॥ भ्राता ज्येष्ठश्च यस्तस्य शक्रः पापी महान्मतः । तेन पापान्यनेकानि कृतानि निजहेतुतः ॥ २७ ॥
निकृत्तो हि दितेर्गर्भः स्वार्थ हेतोर्विशेषतः । धर्षिता गौतमस्त्री वै हतो वृत्रश्च विप्रजः ॥ २८ ॥ विश्वरूपद्विजातेर्वै भागिनेयस्य यद्गुरोः । निकृत्तानि च शीर्षाणि तदध्वाध्वंसितः श्रुतेः ॥ २९ ॥ कृत्वा बहूनि पापानि हरिः शक्रः पुनःपुनः । तेजोभिर्विहतावेव नष्टवीर्यौ विशेषतः ॥ ३० ॥ तयोर्बलेन नो यूयं सङ्ग्रामे जयमाप्स्यथ । किमर्थं मूढतां प्राप्य प्राणांस्त्यक्तुमिहागताः ॥ ३१ ॥ जानन्तौ धर्ममेतौ न स्वार्थलम्पटमानसौ । धर्मं विनाऽमराः कृत्यं निष्फलं सकलं भवेत् ॥ ३२ ॥ महाधृष्टाविमौ मेद्य कृतवन्तौ पुरः शिशुम् । अहं बालं वधिष्यामि तयोः सोऽपि भविष्यति ॥ ३३ ॥ किं बाल इतो यायाद् दूरं प्राणपरीप्सया । इत्युक्तोद्दिश्य च हरी वीरभद्रमुवाच सः ॥ ३४ ॥ पुरा हतास्त्वया विप्रा दक्षयज्ञे ह्यनेकशः । तत्कर्मणः फलं चाद्य दर्शयिष्यामि तेऽनघ ॥ ३९ ॥ ब्रह्मोवाच इत्येवमुक्त्वा तु विधूय पुण्यं निजं स तन्निन्दनकर्मणा वै । जग्राह शक्तिं परमाद्भुतां च स तारको युद्धवतां वरिष्ठः ॥ ३६ ॥ तं बालान्तिकमायातं तारकासुरमोजसा । आजघान च वज्रेण शक्रो गुहपुरःसरः ॥ ३७ ॥ तेन वज्रप्रहारेण तारको जर्जरीकृतः । भूमौ पपात सहसा निन्दाहतबलः क्षणम् ॥ ३८ ॥ पतितोऽपि समुत्थाय शक्त्या तं प्राहरद्रुषा । पुरन्दरं गजस्थं हि पातयामास भूतले ॥ ३९ ॥ हाहाकारो महानासीत्पतिते च पुरन्दरे । सेनायां निर्जराणां हि तद् दृष्ट्वा क्लेश आविशत् ॥ ४० ॥ तारकेणाऽपि तत्रैव यत्कृतं कर्म दुःखदम् । स्वनाशकारणं धर्मविरुदं तन्निबोध मे ॥ ४१ ॥ पतितं च पदाक्रम्य हस्ताद्वज्रं प्रगृह्य वै। पुनरुद्वज्रघातेन शक्रमाताडयद्भृशम् । ४२ ॥ एवं तिरस्कृतं दृष्ट्वा शक्रं विष्णुः प्रतापवान् । चक्रमुद्यस्य भगवांस्तारकं स जघान ह ॥ ४३ ॥ चक्रप्रहाराभितो निपपात क्षितौ हि सः । पुनरुत्थाय दैत्येन्द्रः शक्त्या विष्णुं जघान तम् ॥ ४४ ॥ तेन शक्तिप्रहारेण पतितो भुवि चाच्युतः । करो महानासीच्चुक्रुशुश्चाऽतिनिर्जराः ॥ ४५ ॥ निमेषेण पुनर्विष्णुर्यावदुत्तिष्ठते स्वयम् । तावत्स वीरभद्रो हि तत्क्षणादागतोऽसुरम् ॥ ४६ ॥ त्रिशूलं च समुद्यम्य वीरभद्रः प्रतापवान् । तारकं दितिजाधीशं जघान प्रसभं बली ॥ ४७ ॥ तत्त्रिशूलप्रहारेण स पपात क्षितौ तदा । पतितोऽपि महातेजास्तारकः पुनरुत्थितः ॥ ४८ ॥ कृत्वा क्रोधं महावीरःसकलासुरनायकः । जघान परया शक्त्या वीरभद्रं तदोरसि ॥ ४९ ॥ वीरभद्रोऽपि पतितो भूतले मूर्छितः क्षणम् । तच्छक्त्या परया क्रोधान्निहतो वक्षसि धुवम् ॥ ५० ॥ सगणश्चैव देवास्ते गन्धर्वोरगराक्षसाः । हाहाकारेण महता चुक्रुशुश्च मुहुर्मुहुः ॥ ५१ ॥ निमेषमात्रात्सहसा महौजाः स वीरभद्रो द्विषतां निहन्ता । त्रिशूलमुद्यम्य तडित्प्रकाशं जाज्वल्यमानं प्रभया विरेजे ॥ ५२ ॥ स्वरोचिषा भासितदिग्वितानं सूर्येन्दुबिम्बाग्निसमानमण्डलम् । महाप्रभं वीरभयावहं परं कालाख्यमत्यन्तकरं महोज्ज्वलम् ॥ ५३ ॥ यावत्त्रिशूलेन तदा हन्तुकामो महाबलः । वीरभद्रोऽसुरं यावत्कुमारेण निवारितः ॥ ५४ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे तारकवाक्यशक्रविष्णुवीरभद्रयुद्धवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥ श्रीगौरीशंकरार्पणमस्तु |