॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे

अष्टमोऽध्यायः

देवदैत्ययुद्धवर्णनम्


ब्रह्मोवाच
इति ते वर्णितस्तात देवदानव सेनयोः ।
सङ्‌ग्रामस्तुमुलोऽतीव तत्प्रभ्वो शृणु नारद ॥ १ ॥
एवं युद्धेऽतितुमुले देवदानवसङ्‌क्षये ।
तारकेणैव देवेन्द्रः शक्त्या रमया सह ॥ २ ॥
सद्यः पपात नागाश्च धरण्यां मूर्च्छितोऽभवत् ।
परं कश्मलमापेदे वज्रधारी सुरेश्वरः ॥ ३ ॥
तथैव लोकपाः सर्वेऽसुरैश्च बलवत्तरैः ।
पराजिता रणे तात महारणविशारदैः ॥ ४ ॥
अन्येऽपि निर्जरा दैत्यैर्युद्ध्यमानाः पराजिताः ।
असहन्तो हि तत्तेजः पलायनपरायणाः ॥ ५ ॥
जगर्जुरसुरास्तत्र जयिनः सुकृतोद्यमाः ।
सिंहनादं प्रकुर्वन्तः कोलाहलपरायणाः ॥ ६ ॥
एतस्मिन्नन्तरे तत्र वीरभद्रो रुषान्वितः ।
आससाद गणैर्वीरैस्तारकं वीरमानिनम् ॥ ७ ॥
निर्जरान् पृष्ठतः कृत्वा शिवकोपोद्‌भवो बली ।
तत्सम्मुखो बभूवाथ योद्धुकामो गणाग्रणीः ॥ ८ ॥
तदा ते प्रमथाः सर्वे दैत्याश्च परमोत्सवाः ।
युयुधुः संयुगेऽन्योन्यं प्रसक्ताश्च महारणे ॥ ९ ॥
त्रिशूलैर्ऋष्टिभिः पाशैः खड्गैः परशुपट्टिशैः ।
निजघ्नुःसमरेऽन्योन्यं रणे रणविशारदाः ॥ १० ॥
तारको वीरभद्रेण स त्रिशूलाहतो भृशम् ।
पपात सहसा भूमौ क्षणं मूर्छापरिप्लुतः ॥ ११ ॥
उत्थाय स द्रुतं वीरस्तारको दैत्यसत्तमः ।
लब्धसञ्ज्ञो बलाच्छक्त्या वीरभद्रं जघान ह ॥ १२ ॥
वीरभद्रस्तथा वीरो महातेजा हि तारकम् ।
जघान त्रिशिखेनाशु घोरेण निशितेन तम् ॥ १३ ॥
सोपि शक्त्या वीरभद्रं जघान समरे ततः ।
तारको दितिजाधीशः प्रबलो वीरसंमतः ॥ १४ ॥
एवं संयुद्ध्यमानौ तौ जघ्नतुश्चेतरेतरम् ।
नानास्त्रशस्त्रैः समरे रणविद्याविशारदौ ॥ १५ ॥
तयोर्महात्मनोस्तत्र द्वन्द्वयुद्धमभूत्तदा ।
सर्वेषां पश्यतामेव तुमुलं रोमहर्षणम् ॥ १६ ॥
ततो भेरीमृदङ्‌गाश्च पटहानकगोमुखाः ।
विनेदुर्विहता वीरैः शृण्वतां सुभयानकाः ॥ १७ ॥
युयुधातेतिसन्नद्धौ प्रहारैर्जर्जरीकृतौ ।
अन्योन्यमतिसंरब्धौ तौ बुधाङ्‌गारकाविव ॥ १८ ॥
एवं दृष्ट्‍वा तदा युद्धं वीरभद्रस्य तेन च ।
तत्र गत्वा वीरभद्रमवोचस्त्वं शिवप्रियः ॥ १९ ॥
नारद उवाच
वीरभद्र महावीर गणानामग्रणीर्भवान् ।
निवर्तस्व रणादस्माद्‌रोचते न वधस्त्वया ॥ २० ॥
एवं निशम्य त्वद्वाक्यं वीरभद्रो गणाग्रणीः ।
अवदत्स रुषाविष्टस्त्वां तदा तु कृताञ्जलिः ॥ २१ ॥
वीरभद्र उवाच
मुनिवर्य महाप्राज्ञ शृणु मे परमं वचः ।
तारकं च वधिष्यामि पश्य मेऽद्य पराक्रमम् ॥ २२ ॥
आनयन्ति च ये वीराःस्वामिनं रणसंसदि ।
ते पापिनो महाक्लीबा विनश्यन्ति रणं गताः ॥ २३ ॥
असद्‌गतिं प्राप्नुवन्ति तेषां च निरयो ध्रुवम् ।
वीरभद्रो हि विज्ञेयो न वाच्यस्ते कदाचन ॥ २४ ॥
शस्त्रास्त्रैर्भिन्नगात्रा ये रणं कुर्वन्ति निर्भयाः ।
इहामुत्र प्रशंस्यास्ते लभ्यन्ते सुखमद्‌भुतम् ॥ २५ ॥
शृण्वन्तु मम वाक्यानि देवा हरिपुरोगमाः ।
अतारकां महीमद्य करिष्ये स्वामिवर्जिताम् ॥ २६ ॥
इत्युक्त्वा प्रमर्थैः सार्द्धं वीरभद्रो हि शूलधृक् ।
विचिन्त्य मनसा शम्भुं युयुधे तारकेण हि ॥ २७ ॥
वृषारूढैरनेकैश्च त्रिशूलवरधारिभिः ।
महावीरस्त्रिनेत्रैश्च स रेजे रणसङ्‌गतः ॥ २८ ॥
कोलाहलं प्रकुर्वन्तो निर्भयाः शतशो गणाः ।
वीरभद्रं पुरस्कृत्य युयुधुर्दानवैः सह ॥ २९ ॥
असुरास्तेऽपि युयुधुः तारकासुरजीविनः ।
बलोत्कटा महावीरा मर्दयन्तो गणान् रुषा ॥ ३० ॥
पुनः पुनश्चैव बभूव सङ्‌गरो
    महोत्कटो दैत्यवरैर्गणानाम् ।
प्रहर्षमाणाः परमास्त्रकोविदाः
    तदा गणास्ते जयिनो बभूवुः ॥ ३१ ॥
गणैर्जितास्ते प्रबलैरसुरा विमुखा रणे ।
पलायनपरा जाता व्यथिता व्यग्रमानसाः ॥ ३२ ॥
एवं भ्रष्टं स्वसैन्यं तद् दृष्ट्‍वा तत्पालकोऽसुरः ।
तारको हि रुषाविष्टो हन्तुं देवगणान् ययौ ॥ ३३ ॥
भुजानामयुतं कृत्वा सिंहमारुह्य वेगतः ।
पातयामास तान्देवान् गणांश्च रणमूर्द्धनि ॥ ३४ ॥
स दृष्ट्‍वा तस्य तत्कर्म वीरभद्रो गणाग्रणीः ।
चकार सुमहत्कोपं तद्वधाय महाबली ॥ ३५८ ॥
स्मृत्वा शिवपदाम्भोजं जग्राह त्रिशिखं परम् ।
जज्वलुस्तेजसा तस्य दिशः सर्वा नभस्तथा ॥ ३६ ॥
एतस्मिन्नन्तरे स्वामी वारयामास तं रणम् ।
वीरबाहुमुखान्सद्यो महाकौतुकदर्शकः ॥ ३७ ॥
तदाज्ञया वीरभद्रो निवृत्तोऽभूद्‌रणात्तदा ।
कोपं चक्रे महावीरस्तारकोऽसुरनायकः ॥ ३८ ॥
चकार बाणवृष्टिं च सुरोपरि तदाऽसुरः ।
तप्तोऽह्वासीत्सुरान्सद्यो नानास्त्ररणकोविदः ॥ ३९ ॥
एवं कृत्वा महत्कर्म तारकोऽसुरपालकः ।
सर्वेषामपि देवानामशक्यो बलिनां वरः ॥ ४० ॥
एवं निहन्यमानांस्तान् दृष्ट्‍वा देवान् भयाकुलान् ।
कोपं कृत्वा रणायाशु संनद्धोऽभवदच्युतः ॥ ४१ ॥
चक्रं सुदर्शनं शार्ङ्‌गं धनुरादाय सायुधः ।
अभ्युद्ययौ महादैत्यं रणाय भगवान् हरिः ॥ ४२ ॥
ततःसमभवद्युद्धं हरितारकयोर्महत् ।
लोमहर्षणमत्युग्रं सर्वेषां पश्यतां मुने ॥ ४३ ॥
गदामुद्यम्य स हरिर्जघानासुरमोजसा ।
द्विधा चकार तां दैत्यस्त्रिशिखेन महाबली ॥ ४४ ॥
ततः स क्रुद्धो भगवान्देवानामभयङ्‌करः ।
शार्ङ्‌गच्युतैः शरव्यूहैर्जघानासुरनायकम् ॥ ४६ ॥
सोऽपि दैत्यो महावीरस्तारकः परवीरहा ।
चिच्छेद सकलान्बाणान्स्वशरैर्निशितैर्द्रुतम् ॥ ४६ ॥
अथ शक्त्या जघानाशु मुरारिं तारकासुरः ।
भूमौ पपात स हरिस्तत्प्रहारेण मूर्च्छितः ॥ ४७ ॥
जग्राह स रुषा चक्रमुत्थितः क्षणतोऽच्युतः ।
सिंहनादं महत्कृत्वा ज्वलज्ज्वालासमाकुलम् ॥ ४८ ॥
तेन तञ्च जघानासौ दैत्यानामधिपं हरिः ।
तत्प्रहारेण महता व्यथितो न्यपतद्‌भुवि ॥ ४९ ॥
पुनश्चोत्थाय दैत्येन्द्रस्तारकोऽसुरनायकः ।
चिच्छेद त्वरितं चक्रं स्वशक्त्यातिबलान्वितः ॥ ५० ॥
पुनस्तया महाशक्त्या जघानामरवल्लभम् ।
अच्युतोऽपि महावीरा नन्दकेन जघान तम् ॥ ५१ ॥
एवमन्योऽन्यमसुरो विष्णुश्च बलवानुभौ ।
युयुधाते रणे भूरि तत्राक्षतबलौ मुने ॥ ५२ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे
कुमारखण्डे देव दैत्यसामान्ययुद्धवर्णनं नामाष्टमोऽध्यायः ॥ ८



श्रीगौरीशंकरार्पणमस्तु


GO TOP