|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे
सप्तमोऽध्यायः
तारकेण सहेन्द्रादिदेवानां युद्धवर्णनम्
ब्रह्मोवाच
हर्यादयःसुरास्ते च दृष्ट्वा तच्चरितं विभोः । सुप्रसन्ना बभूवुर्हि विश्वासासक्तमानसाः ॥ १ ॥ वल्गन्तः कुर्वतो नादं भाविताः शिवतेजसा । कुमारन्ते पुरस्कृत्य तारकं हन्तुमाययुः ॥ २ ॥ देवानामुद्यमं श्रुत्वा तारकोऽपि महाबलः । सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ॥ ३ ॥ देवा दृष्ट्वा समायान्तं तारकस्य महाबलम् । बलेन बहुकुर्वन्तः सिंहनादं विसिस्मियुः ॥ ४ ॥ तदा नभोऽऽङ्गना वाणीं जगादोपरि सत्वरम् । शङ्करप्रेरिता सद्यो हर्यादीनखिलान् सुरान् ॥ ५ ॥ व्योमवाण्युवाच कुमारं च पुरस्कृत्य सुरा यूयं समुद्यताः । दैत्यान्विजित्य सङ्ग्रामे जयिनोऽथ भविष्यथ ॥ ६ ॥ ब्रह्मोवाच वाचं तु खेचरीं श्रुत्वा देवाः सर्वे समुत्सुकाः । वीरशब्दान् प्रकुर्वन्तो निर्भया ह्यभवंस्तदा ॥ ७ ॥ कुमारं च पुरस्कृत्य सर्वे ते जातसाध्वसाः । योद्धुकामाः सुरा जग्मुर्महीसागरसङ्गमम् ॥ ८ ॥ आजगाम द्रुतं तत्र यत्र देवाः स तारकः । सैन्येन महता सार्द्धं असुरैर्बहुभिरावृत् ॥ ९ ॥ रणदुन्दुभयो नेदुः प्रलयाम्बुदनिःस्वनाः । कर्कशानि च वाद्यानि पराणि च तदागमे ॥ १० ॥ गर्जमानास्तदा दैत्यास्तारकेणसुरेण ह । कम्पयन्तो भुवं पादक्रमैर्वल्गुनकारकाः ॥ ११ ॥ तच्छ्रुत्वा रवमत्युग्रं सर्वे देवा विनिर्भयाः । ऐकपद्येन चोत्तस्थुर्योद्धुकामाश्च तारकम् ॥ १२ ॥ गजमारोप्य देवेन्द्रः कुमारं ह्यग्रतोऽभवत् । सुरसैन्येन महता लोकपालैः समावृतः ॥ १३ ॥ तदा दुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः । वीणावेणुमृदङ्गानि तथा गन्धर्वनिःस्वनाः ॥ १४ ॥ गजं दत्त्वा महेन्द्राय कुमारो यानमारुहत् । अनेकाश्चर्यसम्भूतं नानारत्नसमन्वितम् ॥ १५ ॥ विमानमारुह्य तदा महायशाः स शाङ्करिःसर्वगुणैरुपेतः । श्रिया समेतः परया बभौ महान् संवीज्यमानश्चमरैर्महाग्रभैः ॥ १६ ॥ प्राचेतसं छत्रमतीवसुप्रभं रत्नैरुपेतं विविधैर्विराजितम् । धृतं तदा तच्च कुमारमूर्ध्नि वै ह्यनन्तचान्द्रैः किरणैर्महाप्रभैः ॥ १७ ॥ मिलितास्ते तदा सर्वे देवाः शक्रपुरोगमा । स्वैः स्वैर्बलैः परिवृता युद्धकामा महाबलाः ॥ १८ ॥ एवं देवाश्च दैत्याश्च योद्धुकामाः स्थिता भुवि । सैन्येन महता तेन व्यूहं कृत्वा पृथक् पृथक् ॥ १९ ॥ ते सेने सुरदैत्यानां शुशुभाते परस्परम् । हन्तुकामे तदान्योन्यं स्तूयमाने च बन्दिभिः ॥ २० ॥ उभे सेनं तदा तेषामगर्जेतां वनोपमे । भयङ्करेऽत्यवीराणामितरेषां सुखावहे ॥ २१ ॥
एतस्मिन्नन्तरे तत्र बलोन्मत्ताः परस्परम् । दैत्या देवा महावीरा युयुधुः क्रोधविह्वलाः ॥ २२ ॥ आसीत्सुतुमुलं युद्धं देवदैत्यसमाकुलम् । रुण्डमुण्डाङ्कितं सर्वं क्षणेन समपद्यत ॥ २३ ॥ भूमौ निपतितास्तत्र शतशोऽथ सहस्रशः । निकृत्ताङ्गा महाशस्त्रैर्निहता वीरसंमताः ॥ २४ ॥ केषाञ्चिद्बाहवश्छिन्ना खड्पातैःसुदारुणैः । केषाञ्चिदूरवश्छिन्ना वीराणां मानिनां मृधे ॥ २५ ॥ केचिन्मथितसर्वाङ्गा गदाभिर्मुद्गरैस्तथा । केचिन्निर्भिन्नहृदयाः पाशैर्भल्लैश्च पातिताः ॥ २६ ॥ केचिद्विदारिताः पृष्ठे कुन्तैर्ऋष्टिभिरङ्कुशैः । छिन्नान्यपि शिरांस्येव पतितानि च भूतले ॥ २७ ॥ बहूनि च कबन्धानि नृत्यमानानि तत्र वै । वल्गमानानि शतशो उद्यतास्त्रकराणि च ॥ २८ ॥ नद्यः प्रवर्तितास्तत्र शतशोऽसृङ्वहास्तदा । भूतप्रेतादयस्तत्र शतशश्च समागताः ॥ २९ ॥ गोमायवः शिवा तत्र भक्षयन्तः पलं बहु । तथा गृध्रवटा श्येना वायसा मांसभक्षकाः ॥ बुभुजुः पतितानां च पलानि सुबहूनि वै । ३० ॥ एतस्मिन्नन्तरे तत्र तारकाख्यो महाबलः । सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ॥ ३१ ॥ देवा दृष्ट्वा समायान्तं तारकं युद्धदुर्मदम् । योद्धुकामं तदा सद्यो ययुः शक्रादयस्तदा । बभूवाथ महोन्नादःसेनयोरुभयोरपि ॥ ३२ ॥ अथाभूद् द्वन्द्वयुद्धं हि सुरासुरविमर्दनम् । यं दृष्ट्वा हर्षिता वीराः क्लीबाश्च भयमागता ॥ ३३ ॥ तारको युयुधे युद्धे शक्रेण दितिजो बली । अग्निना सह संह्रादो जम्भेनैव यमः स्वयम् ॥ ३४ ॥ महाप्रभुर्नैर्ऋतेन पाशी सह बलेन च । सुवीरो वायुना सार्धं पवमानेन गुह्यराट् ॥ ३५ ॥ ईशानेन समं शम्भुर्युयुधे रणवित्तमः । शुम्भः शेषेण युयुधे कुम्भश्चन्द्रेण दानवः ॥ ३६ ॥ कुम्बरो मिहिरेणाजौ महाबल पराक्रमः । युयुधे परमास्त्रैश्च नानायुद्धविशारदः ॥ ३७ ॥ एवं द्वन्द्वेन युद्धेन महता च सुरासुराः । सङ्गरे युयुधुःसर्वे बलेन कृतनिश्चयाः ॥ ३८ अन्योन्यं स्पर्द्धमानास्तेऽमरा दैत्या महाबलाः । तस्मिन्देवासुरे युद्धे दुर्जया अभवन्मुने ॥ ३९ ॥ तदा च तेषां सुरदानवानां बभूव युद्धं तुमुलं जयैषिणाम् । सुखावहं वीरमनस्विनां वै भयावहं चैव तथेतरेषाम् ॥ ४० ॥ मही महारौद्रतरा विनष्टकैः सुरासुरैर्वै पतितैरनेकशः । तस्मिन्नगम्यातिभयानका तदा जाता महासौख्यवहा मनस्विनाम् ॥ ४१ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे युद्धप्रारम्भवर्णनं नाम सप्तमोऽध्यायः ॥ ७ श्रीगौरीशंकरार्पणमस्तु |