॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे

षष्ठोऽध्यायः

कुमाराद्भुतचरित्रवर्णनम्


ब्रह्मोवाच
अथ तत्र स गाङ्‌गेयो दर्शयामास सूतिकाम् ।
तामेव शृणु सुप्रीत्या नारद त्वं स्वभक्तिदाम् ॥ १ ॥
द्विज एको नारदाख्य आजगाम तदैव हि ।
तत्राध्वरकरः श्रीमान् शरणार्थं गुहस्य वै ॥ २ ॥
स विप्रः प्राप्य निकटं कार्त्तिकस्य प्रसन्नधीः ।
स्वाभिप्रायं समाचख्यौ सुप्रणम्य शुभैः स्तवैः ॥ ३ ॥
विप्र उवाच
शृणु स्वामिन्वचो मेद्य कष्टं मे विनिवारय ।
सर्वब्रह्माण्डनाथस्त्वमतस्ते शरणं गतः ॥ ४ ॥
अजमेधाध्वरं कर्तुमारम्भं कृतवानहम् ।
सोऽजो गतो गृहान्मे हि त्रोटयित्वा स्वबन्धनम् ॥ ५ ॥
न जाने स गतः कुत्राऽन्वेषणं तत्कृतं बहु ।
न प्राप्तोऽतः स बलवान् भङ्‌गो भवति मे क्रतोः ॥ ६ ॥
त्वयि नाथे सति विभो यज्ञभङ्‌गः कथं भवेत् ।
विचार्यैवाऽखिलेशान काम पूर्णं कुरुष्व मे ॥ ७ ॥
त्वां विहाय शरण्यं कं यायां शिवसुत प्रभो ।
सर्वब्रह्माण्डनाथं हि सर्वामरसुसेवितम् ॥ ८ ॥
दीनबन्धुर्दयासिन्धुः सुसेव्या भक्तवत्सलः ।
हरिब्रह्मादिदेवैश्च सुस्तुतः परमेश्वरः ॥ ९ ॥
पार्वतीनन्दनःस्कन्दः परमेकः परन्तपः ।
परमात्माऽत्मदः स्वामी सतां च शरणार्थिनाम् ॥ १० ॥
दीनानाथ महेश शंकरसुत
    त्रैलोक्यनाथ प्रभो
मायाधीश समागतोऽस्मि शरणं
    मां पाहि विप्रप्रिय ।
त्वं सर्वप्रभुरानताऽखिलविद-
    ब्रह्मादिदेवैः स्तुतः
त्वं मायाकृतिरात्मभक्तसुखदो
    रक्षापरो मायिकः ॥ ११ ॥
भक्तप्राणगुणाकरस्त्रिगुणतो
    भिन्नोसि शम्भुप्रियः
शम्भुः शम्भुसुतः प्रसन्नसुखदः
    सच्चित्स्वरूपो महान् ।
सर्वज्ञस्त्रिपुरघ्नशंकरसुतः
    सत्प्रेमवश्यःसदा
षड्वक्त्रः प्रियसाधुरानतप्रियः
    सर्वेश्वरः शंकरः ॥
साधुद्रोहकरघ्न शंकरगुरो
    ब्रह्माण्डनाथो प्रभुः
सर्वेषाममरादिसेवितपदो
    मां पाहि सेवाप्रिय ॥ १२ ॥
वैरिभयङ्‌कर शंकर जनशरणस्य
    वन्दे तव पदपद्मं सुखकरणस्य ।
विज्ञप्तिं मम कर्णे स्कन्द निधेहि
    निजभक्तिं जनचेतसि सदा विधेहि ॥ १३ ॥
करोति किं तस्य बली विपक्षो
    दक्षोऽपि पक्षोभयापार्श्वगुप्तः ।
किं तक्षकोप्यामिषभक्षको वा
    त्वं रक्षको यस्य सदक्षमानः ॥ १४ ॥
विबुधगुरुरपि त्वां स्तोतुमीशो न हि स्यात्
    कथय कथमहं स्यां मन्दबुद्धिर्वरार्च्यः ।
शुचिरशुचिरनार्यो यादृशस्तादृशो वा
    पदकमल परागं स्कन्द ते प्रार्थयामि ॥ १५ ॥
हे सर्वेश्वर भक्तवत्सल कृपा-
    सिन्धो त्वदीयोऽस्म्यहं
भृत्यःस्वस्य न सेवकस्य गणप-
    स्यागःशतं सत्प्रभो ।
भक्तिं क्वापि कृतां मनागपि विभो
    जानासि भृत्यार्तिहा ॥
त्वत्तो नास्त्यपरोऽविता न भगवन्
    मत्तो नरः पामरः । १६ ॥
कल्याणकर्त्ता कलिकल्मषघ्नः
    कुबेरबन्धुः करुणार्द्रचित्तः ।
त्रिषट्कनेत्रो रसवक्त्रशोभी
    यज्ञं प्रपूर्णं कुरु मे गुह त्वम् ॥ १७ ॥
रक्षकस्त्वं त्रिलोकस्य शरणागतवत्सलः ।
यज्ञकर्त्ता यज्ञभर्त्ता हरसे विघ्नकारिणाम् ॥ १८ ॥
विघ्नवारण साधूनां सर्ग कारण सर्वतः ।
पूर्णं कुरु ममेशान सुतयज्ञ नमोस्तु ते ॥ १९ ॥
सर्वत्राता स्कन्द हि त्वं सर्वज्ञाता त्वमेव हि ।
सर्वेश्वरस्त्वमीशानो निवेशसकलाऽवनः ॥ २० ॥
सङ्‌गीतज्ञस्त्वमेवासि वेदविज्ञः परः प्रभुः ।
सर्वस्थाता विधाता त्वं देवदेवः सतां गतिः ॥ २१ ॥
भवानीनन्दनः शम्भुतनयो वयुनः स्वराट् ।
ध्याता ध्येयः पितॄणां हि पिता योनिः सदात्मनाम् ॥ २२ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्य देवसम्राट् शिवात्मजः ।
स्वगणं वीरबाह्वाख्यं प्रेषयामास तत्कृते ॥ २३ ॥
तदाज्ञया वीरबाहुस्तदन्वेषणहेतवे ।
प्रणम्य स्वामिनं भक्त्या महावीरो द्रुतं ययौ ॥ २४ ॥
अन्वेषणं चकारासौ सर्वब्रह्माण्डगोलके ।
न प्राप तमजं कुत्र शुश्राव तदुपद्रवम् ॥ २५ ॥
जगामाऽथ स वैकुण्ठं तत्राऽजं प्रददर्श तम् ।
उपद्रवं प्रकुर्वन्तं गलयूपं महाबलम् ॥ २६ ॥
धृत्वा तं शृङ्‌गयो वीरो धर्षयित्वातिवेगतः ।
आनिनाय स्वामिपुरो विकुर्वन्तं रवं बहु ॥ २७ ॥
दृष्ट्‍वा तं कार्तिकःसोऽरमारुरोह स तं प्रभुः ।
धृतब्रह्माण्डगरिमा महासूतिकरो गुहः ॥ २८ ॥
मुहूर्तमात्रतःसोऽजो ब्रह्माण्डं सकलं मुने ।
बभ्राम श्रम एवाशु पुनस्तत्स्थानमागतः ॥ २९ ॥
तत उत्तीर्य स स्वामी समुवास स्वमासनम् ।
सोऽजः स्थितस्तु तत्रैव स नारद उवाच तम् ॥ ३० ॥
नारद उवाच
नमस्ते देव देवेश देहि मेऽजं कृपानिधे ।
कुर्यामध्वरमानन्दात्सखायं कुरु मामहो ॥ ३१ ॥
कार्त्तिक उवाच
वधयोग्यो न विप्राऽजः स्वगृहं गच्छ नारद ।
पूर्णोऽस्तु तेऽध्वरः सर्वः प्रसादादेव मे कृतः ॥ ३२ ॥
ब्रह्मोवाच
इत्याकर्ण्य द्विजःस्वामी वचनं प्रीतमानसः ।
जगाम स्वालयं दत्त्वा तस्मा आशिषमुत्तमाम् ॥ ३३ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे
कुमारखण्डे कुमाराऽद्‌भुतचरितवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP