|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे
पञ्चमोऽध्यायः
देवकृतकुमाराभिषेकः
ब्रह्मोवाच
एतस्मिन्नन्तरे तत्र ददर्श रथमुत्तमम् । अद्भुतं शोभितं शश्वद्विश्वकर्मविनिर्मितम् ॥ १ ॥ शतचक्रं सुविस्तीर्णं मनोयायि मनोहरम् । प्रस्थापितं च पार्वत्या वेष्टितं पार्षदैर्वरैः ॥ २ ॥ समारोहत्ततोऽनन्तो हृदयेन विदूयता । कार्त्तिकः परमज्ञानी परमेशानवीर्यजः ॥ ३ ॥ तदैव कृत्तिकाः प्राप्य मुक्तकेश्यः शुचाऽऽतुराः । उन्मत्ता इव तत्रैव वक्तुमारेभिरे वचः ॥ ४ ॥ कृत्तिका ऊचुः विहायाऽस्मान् कृपासिन्धो गच्छसि त्वं हि निर्दयः । नायं धर्मो मातृवर्गान् पालितो यत् सुतस्त्यजेत् ॥ ५ ॥ स्नेहेन वर्द्धितोऽस्माभिः पुत्रोऽस्माकं च धर्मतः । किं कुर्मः क्व च यास्यामो वयं किं करवाम ह ॥ ६ ॥ इत्युक्त्वा कृत्तिकाः सर्वाः कृत्वा वक्षसि कार्त्तिकम् । द्रुतं मूर्च्छामवापुस्ताःसुतविच्छेदकारणात् ॥ ७ ॥ ताः कुमारो बोधयित्वा अध्यात्मवचनेन वै । ताभिश्च पार्षदैः सार्द्धमारुरोह रथं मुने ॥ ८ ॥ दृष्ट्वा श्रुत्वा मंगलानि बहूनि सुखदानि वै । कुमारः पार्षदैः सार्द्धं जगाम पितृमन्दिरम् ॥ ९ ॥ दक्षेण नन्दियुक्तश्च मनोयायिरथेन च । कुमारः प्राप कैलासं न्यग्रोधाऽक्षयमूलके ॥ १० ॥ तत्र तस्थौ कृत्तिकाभिः पार्षदप्रवरैः सह । कुमारः शांकरिः प्रीतो नानालीलाविशारदः ॥ ११ ॥ तदा सर्वे सुरगणा ऋषयः सिद्धचारणाः । विष्णुना ब्रह्मणा सार्द्धं समाचख्युस्तदागमम् ॥ १२ ॥ तदा दृष्ट्वा च गाङ्गेयं ययौ प्रमुदितः शिवः । अन्यैः समेतो हरिणा ब्रह्मणा च सुरर्षिभिः । १३ ॥ शङ्खाश्च बहवो नेदुर्भेरी तूर्याण्यनेकशः । उत्सवस्तु महानासीद्देवानां तुष्टचेतसाम् ॥ १४ ॥ तदानीमेव तं सर्वे वीरभद्रादयो गणाः । कुर्वन्तः स्वन्वयुः केलिं नानातालधरस्वराः ॥ १५ ॥ स्तावकाः स्तूयमानाश्च चक्रुस्ते गुणकीर्त्तनम् । जयशब्दं नमः शब्दं कुर्वाणाः प्रीतमानसाः ॥ १६ ॥ द्रष्टुं ययुस्तं शरजं शिवात्मजमनुत्तमम् । १७ ॥ पार्वती मंगलं चक्रे राजमार्गं मनोहरम् । पद्मरागादिमणिभिः संस्कृतं परितः पुरम् ॥ १८ ॥ पतिपुत्रवतीभिश्च साध्वीभिः स्त्रीभिरन्विताः । लक्ष्म्यादित्रिंशद्देवीश्च पुरः कृत्वा समाययौ ॥ १९ ॥ रम्भाद्यप्सरसो दिव्याः सस्मिता वेषसंयुताः । सङ्गीतनर्तनपरा बभूवुश्च शिवाज्ञया ॥ २० ॥ ये तं समीक्षयामासुर्गागेयं शंकरोपमम् । ददृशुस्ते महत्तेजो व्याप्तमासीज्जगत्त्रये ॥ २१ ॥ तत्तेजसा वृतं बालं तप्तचामीकरप्रभम् । ववन्दिरे द्रुतं सर्वे कुमारं सूर्यवर्चसम् ॥ २२ ॥ जहुर्षुर्विनतस्कन्धा नमः शब्दरतास्तदा । परिवार्योपतस्थुस्ते वामदक्षिणमागताः ॥ २३ ॥ अहं विष्णुश्च शक्रश्च तथा देवादयोऽखिलाः । दण्डवत्पतिता भूमौ परिवार्य कुमारकम् ॥ २४ ॥ एतस्मिन्नन्तरे शम्भुर्गिरिजा च मुदान्विता । महोत्सवं समागम्य ददर्श तनयं मुदा ॥ २५ ॥ पुत्रं निरीक्ष्य च तदा जगदेकबन्धुः प्रीत्यान्वितः परमया परया भवान्या । स्नेहान्वितो भुजगभोगयुतो हि साक्षात् सर्वेश्वरः परिवृतः प्रमथैः परेशः ॥ २६ ॥ अथ शक्तिधरः स्कन्दो दृष्ट्वा तौ पार्वतीशिवौ । अवरुह्य रथात्तूर्णं शिरसा प्रणनाम ह ॥ २७ ॥ उपगुह्य शिवः प्रीत्या कुमारं मूर्ध्नि शंकरः । जघ्रौ प्रेम्णा परमेशानः प्रसन्नः स्नेहकर्तृकः ॥ २८ ॥ उपगुह्य गुहं तत्र पार्वती जातसम्भ्रमा । प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता ॥ २९ ॥ तदा नीराजितो देवैःसकलत्रैर्मुदान्वितैः । जयशब्देन महता व्याप्तमासीन्नभस्तलम् ॥ ३० ॥ ऋषयो ब्रह्मघोषेण गीतेनैव च गायकाः । वाद्यैश्च बहवस्तत्रोपतस्थुश्च कुमारकम् ॥ ३१ ॥ स्वमङ्कमारोप्य तदा महेशः कुमारकं तं प्रभया समुज्ज्वलम् । बभौ भवानीपतिरेव साक्षा- च्छ्रियाऽन्वितः पुत्रवतां वरिष्ठः ॥ ३२ ॥ कुमारः स्वगणैः सार्द्धमाजगाम शिवालयम् । शिवाज्ञया महोत्साहैः सह देवैर्महासुखी ॥ ३३ ॥ दम्पती तौ तदा तत्रैकपद्येन विरेजतुः । विवन्द्यमानावृषिभिरावृतौ सुरसत्तमैः ॥ ३४ ॥
कुमारः क्रीडयामास शिवोत्सङ्गे मुदान्वितः । वासुकिं शिवकण्ठस्थं पाणिभ्यां समपीडयत् ॥ ३५ ॥ प्रहस्य भगवान् शम्भुः शशंस गिरिजां तदा । निरीक्ष्य कृपया दृष्ट्या कृपालुर्लीलयाकृतिम् ॥ ३६ ॥ मदस्मितेन च तदा भगवान्महेशः प्राप्तो मुदं च परमां गिरिजासमेतः । प्रेम्णा स गद्गदगिरो जगदेकबन्धु- र्नोवाच किञ्चन विभुर्भुवनैकभर्त्ता ॥ ३७ ॥ अथ शम्भुर्जगन्नाथो हृष्टो लौकिकवृत्तवान् । रत्नसिंहासने रम्ये वासयामास कार्त्तिकम् ॥ ३८ ॥ वेदमन्त्राभिपूतैश्च सर्वतीर्थोदपूर्णकैः । सद्रत्नकुम्भशतकैः स्नापयामास तं मुदा ॥ ३९ ॥ सद्रत्नसाररचितकिरीटमुकुटाङ्गदम् । वैजयन्ती स्वमालां च तस्मै चक्रं ददौ हरिः ॥ ४० ॥ शूलं पिनाकं परशुं शक्ति पाशुपतं शरम् । संहारास्त्रं च परमां विद्यां तस्मै ददौ शिवः ॥ ४१ ॥ अदामहं यज्ञसूत्रं वेदांश्च वेदमातरम् । कमण्डलुं च ब्रह्मास्त्रं विद्यां चैवाऽरिमर्दिनीम् ॥ ४२ ॥ गजेन्द्रं चैव वज्रं च ददौ तस्मै सुरेश्वरः । श्वेतच्छत्रं रत्नमालां ददौ वस्तुं जलेश्वरः ॥ ४३ ॥ मनोयायिरथं सूर्यः सन्नाहं च महाचयम् । यमदण्डं यमश्चैव सुधाकुंभं सुधानिधिः ॥ ४४ ॥ हुताशनो ददौ प्रीत्या महाशक्तिं स्वसूनवे । ददौ स्वशस्त्रं निर्ऋतिर्वायव्यास्त्रं समीरणः ॥ ४५ ॥ गदां ददौ कुबेरश्च शूलमीशो ददौ मुदा । नानाशस्त्राण्युपायांश्च सर्वे देवा ददुर्मुदा ॥ ४६ ॥ कामास्त्रं कामदेवोऽथ ददौ तस्मै मुदान्वितः । गदां ददौ स्वविद्याश्च तस्मै च परया मुदा ॥ ४७ ॥ क्षीरोदोऽमूल्यरत्नानि विशिष्टं रत्ननूपुरम् । हिमालयो हि दिव्यानि भूषणान्यंशुकानि च ॥ ४८ ॥ चित्रबर्हणनामानं स्वपुत्रं गरुडो ददौ । अरुणस्ताम्रचूडाख्यं बलिनं चरणायुधम् ॥ ४९ ॥ पार्वती सस्मिता हृष्टा परमैश्वर्यमुत्तमम् । ददौ तस्मै महाप्रीत्या चिरञ्जीवित्वमेव च ॥ ५० ॥ लक्ष्मीश्च संपदं दिव्यां महाहारं मनोहरम् । सावित्री सिद्धविद्यां च समस्तां प्रददौ मुदा ॥ ५१ ॥ अन्याश्चापि मुने देव्यो यायास्तत्र समागताः । स्वात्मवत्सु ददुस्तस्मै तथैव शिशुपालिकाः ॥ ५२ ॥ महामहोत्सवस्तत्र बभूव मुनिसत्तम । सर्वे प्रसन्नतां याता विशेषाच्च शिवाशिवौ ॥ ५३ ॥ एतस्मिन्नन्तरे काले प्रोवाच प्रहसन् मुदा । मुने ब्रह्मादिकान् देवान् रुद्रो भर्गः प्रतापवान् ॥ ५४ ॥ शिव उवाच हे हरे हे विधे देवाः सर्वे शृणुत मद्वचः । सर्वथाहं प्रसन्नोस्मि वरान्वृणुत ऐच्छिकान् ॥ ५५ ॥ ब्रह्मोवाच तच्छ्रुत्वा वचनं शंभोर्मुने विष्ण्वादयः सुराः । सर्वे प्रोचुः प्रसन्नास्या देवं पशुपतिं प्रभुम् ॥ ५६ ॥ कुमारेण हतो ह्येष तारको भविता प्रभो । तदर्थमेव सञ्जातमिदं चरितमुत्तमम् ॥ ५७ ॥ तस्मादद्यैव यास्यामस्तारकं हन्तुमुद्यता । आज्ञां देहि कुमाराय स तं हन्तुं सुखाय नः ॥ ५८ ॥ ब्रह्मोवाच तथेति मत्वा स विभुर्दत्तवांस्तनयं तदा । देवेभ्यस्तारकं हन्तुं कृपया परिभावितः ॥ ५९ ॥ शिवाज्ञया सुराः सर्वे ब्रह्मविष्णुमुखास्तदा । पुरस्कृत्य गुहं सद्यो निर्जग्मुर्मिलिता गिरेः ॥ ६० ॥ बहिर्निःसृत्य कैलासात्त्वष्टा शासनतो हरेः । विरेचे नगरं रम्यमद्भुतं निकटे गिरेः ॥ ६१ ॥ तत्र रम्यं गृहं दिव्यमद्भुतं परमो ज्ज्वलम् । गुहार्थं निर्ममे त्वष्टा तत्र सिंहासनं वरम् ॥ ६२ ॥ तदा हरिः सुधीर्भक्त्या कारयामास मंगलम् । कार्त्तिकस्याभिषेकं हि सर्वतीर्थजलैः सुरैः ॥ ६३ ॥ सर्वथा समलङ्कृत्य वासयामास सङ्ग्रहम् । कार्त्तिकस्य विधिं प्रीत्या कारयामास चोत्सवम् ॥ ६४ ॥ ब्राह्माण्डाधिपतित्वं हि ददौ तस्मै मुदा हरिः । चकार तिलकं तस्य समानर्च सुरैः सह ॥ ६५ ॥ प्रणम्य कार्त्तिकं प्रीत्या सर्वदेवर्षिभिः सह । तुष्टाव विविधैः स्तोत्रैः शिवरूपं सनातनम् ॥ ६६ ॥ वरसिंहासनस्थो हि शुशुभेऽतीव कार्तिकः । स्वामिभावं समापन्नो ब्रह्माण्डस्यासि पालकः ॥ ६७ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराभिषेकवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥ श्रीगौरीशंकरार्पणमस्तु |