॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे

चतुर्थोऽध्यायः

कार्तिकेयान्वेषणनन्दिसंवादवर्णनम्


नारद उवाच
देवदेव प्रजानाथ ततः किमभवद्विधे ।
वदेदानीं कृपातस्तु शिवलीलासमन्वितम् ॥ १ ॥
ब्रह्मोवाच
कृत्तिकाभिर्गृहीते वै तस्मिन् शम्भुसुते मुने ।
कश्चित्कालो व्यतीयाय बुबुधे न हिमाद्रिजा ॥ २ ॥
तस्मिन्नवसरे दुर्गा स्मेराननसरोरुहा ।
उवाच स्वामिनं शम्भुं देवदेवेश्वरं प्रभुम् ॥ ३ ॥
पार्वत्युवाच
देवदेव महादेव शृणु मे वचनं शुभम् ।
पूर्वपुण्यातिभारेण त्वं मया प्राप्त ईश्वर ॥ ४ ॥
कृपया योगिषु श्रेष्ठो विहारैस्तत्परोऽभवः ।
रतिभङ्‌गः कृतो देवैस्तत्र मे भवता भव ॥ ५ ॥
भूमौ निपतितं वीर्यं नोदरे मम ते विभो ।
कुत्र यातं च तद्देव केन दैवेन निह्नुतम् ॥ ६ ॥
कथं मत्स्वामिनो वीर्यममोघं ते महेश्वर ।
मोघं यातं च किं किं वा शिशुर्जातश्च कुत्रचित् ॥ ७ ॥
ब्रह्मोवाच
पार्वतीवचनं श्रुत्वा प्रहस्य जगदीश्वरः ।
उवाच देवानाहूय मुनींश्चापि मुनीश्वर ॥ ८ ॥
महेश्वर उवाच
देवाः शृणुत मद्वाक्यं पार्वतीवचनं श्रुतम् ।
अमोघं कुत्र मे वीर्यं यातं केन च निह्नुतम् ॥ ९ ॥
सभयं नाप तत्क्षिप्रं स चेद्दण्डं न चार्हति ।
शक्तौ राजा न शास्ता यः प्रजाबाध्यश्च भक्षकः ॥ १० ॥
शम्भोस्तद्वचनं श्रुत्वा समालोच्य परस्परम् ।
ऊचुःसर्वे क्रमेणैव त्रस्तास्तु पुरतः प्रभोः ॥ ११ ॥
विष्णुरुवाच
ते मिथ्यावादिनःसन्तु भारते गुरुदारिकाः ।
गुरुनिन्दारताः शश्वत्त्वद्वीर्यं यैश्च निह्नुतम् ॥ १२ ॥
ब्रह्मोवाच
त्वद्वीर्यं निह्नुतं येन पुण्यक्षेत्रे च भारते ।
स नाऽन्वितो भवेत्तत्र सेवने पूजने तव ॥ १३ ॥
लोकपाला ऊचुः
त्वदवीर्यं निह्नुतं येन पापिना पतितभ्रमात् ।
भाजनं तस्य सोत्यन्तं तत्तापं कर्म सन्ततम् ॥ १४ ॥
देवा ऊचुः
कृत्वा प्रतिज्ञां यो मूढो नाऽऽपादयति पूर्णताम् ।
भाजनं तस्य पापस्य त्वद्वीर्यं येन निह्नुतम् ॥ १५ ॥
देवपत्न्य ऊचुः
या निन्दति स्वभर्तारं परं गच्छति पूरुषम् ।
मातृबन्धुविहीना च त्वद्वीर्यं निह्नुतं यया ॥ १६ ॥
ब्रह्मोवाच
देवानां वचनं श्रुत्वा देवदेवेश्वरो हरः ।
कर्मणां साक्षिणश्चाह धर्मादीन्सभयं वचः ॥ १७ ॥
श्रीशिव उवाच
देवैर्न निह्नुतं केन तद्वीर्यं निह्नुतं ध्रुवम् ।
तदमोघं भगवतो महेशस्य मम प्रभोः ॥ १८ ॥
यूयं च साक्षिणो विश्वे सततं सर्वकर्मणाम् ।
युष्माकं निह्नुतं किं वा किं ज्ञातुं वक्तुमर्हथ ॥ १९ ॥
ब्रह्मोवाच
ईश्वरस्य वचः श्रुत्वा सभायां कम्पिताश्च ते ।
परस्परं समालोक्य क्रमेणोचुः पुरः प्रभोः ॥ २० ॥
ब्रह्मोवाच
रते तु तिष्ठतो वीर्यं पपात वसुधातले ।
मया ज्ञातममोघं तच्छङ्‌करस्य प्रकोपतः ॥ २१ ॥
क्षितिरुवाच
वीर्यं सोढुमशक्ताहं तद्वह्नो न्यक्षिपं पुरा ।
अतोऽत्र दुर्वहं ब्रह्मन्नबलां क्षन्तुमर्हसि ॥ २२ ॥
वह्निरुवाच
वीर्यं सोढुमशक्तोऽहं तव शंकर पर्वते ।
कैलासे न्यक्षिपं सद्यः कपोतात्मा सुदुःसहम् ॥ २३ ॥
गिरिरुवाच
वीर्यं सोढुमशक्तोऽहं तव शंकर लोकप ।
गङ्‌गायां प्राक्षिपं सद्यो दुःसहं परमेश्वर ॥ २४ ॥
गङ्‌गोवाच
वीर्यं सोढुमशक्ताहं तव शंकर लोकप ।
व्याकुलाऽति प्रभो नाथ न्यक्षिपं शरकानने ॥ २५ ॥
वायुरुवाच
शरेषु पतितं वीर्यं सद्यो बालो बभूव ह ।
अतीव सुन्दरः शम्भो स्वर्नद्याः पावने तटे ॥ २६ ॥
सूर्य उवाच
रुदन्तं बालकं दृष्ट्‍वागममस्ताचलं प्रभो ।
प्रेरितः कालचक्रेण निशायां स्थातुमक्षमः ॥ २७ ॥
चन्द्र उवाच
रुदन्तं बालकं प्राप्य गृहीत्वा कृत्तिकागणः ।
जगाम स्वालयं शम्भो गच्छन्बदरिकाश्रमम् ॥ २८ ॥
जलमुवाच
अमुं रुदन्तमानीय स्तन्यपानेन ताः प्रभो ।
वर्द्धयामासुरीशस्य सुतं तव रविप्रभम् ॥ २९ ॥
सन्ध्योवाच
अधुना कृत्तिकानां च वनं तं पोष्य पुत्रकम् ।
तन्नाम चक्रुस्ताः प्रेम्णा कार्त्तिकश्चेति कौतुकात् ॥ ३० ॥
रात्रिरुवाच
न चक्रुर्बालकं ताश्च लोचनानामगोचरम् ।
प्राणेभ्योपि प्रीतिपात्रं यः पोष्टा तस्य पुत्रकः ॥ ३१ ॥
दिनमुवाच
यानि यानि च वस्त्राणि भूषणानि वराणि च ।
प्रशंसितानि स्वादूनि भोजयामासुरेव तम् ॥ ३२ ॥
ब्रह्मोवाच
तेषां तद्वचनं श्रुत्वा सन्तुष्टः पुरसूदनः ।
मुदं प्राप्य ददौ प्रीत्या विप्रेभ्यो बहुदक्षिणाम् ॥ ३३ ॥
पुत्रस्य वार्त्तां सम्प्राप्य पार्वती हृष्टमानसा ।
कोटिरत्नानि विप्रेभ्यो ददौ बहुधनानि च ॥ ३४ ॥
लक्ष्मी सरस्वती मेना सावित्री सर्वयोषितः ।
विष्णुः सर्वे च देवाश्च ब्राह्मणेभ्यो ददुर्धनम् ॥ ३५ ॥
प्रेरितः स प्रभुर्देवैर्मुनिभिः पर्वतैरथ ।
दूतान् प्रस्थापयामास स्वपुत्रो यत्र तान् गणान् ॥ ३६ ॥
वीरभद्रं विशालाक्षं शङ्‌कुकर्णं कराक्रमम् ।
नन्दीश्वरं महाकालं वज्रदंष्ट्रं महोन्मदम् ॥ ३७ ॥
गोकर्णास्यं दधिमुखं ज्वलदग्निशिखोपमम् ।
लक्षं च क्षेत्रपालानां भूतानां च त्रिलक्षकम् ॥ ३८ ॥
रुद्रांश्च भैरवांश्चैव शिवतुल्यपराक्रमान् ।
अन्यांश्च विकृताकारानसंख्यानपि नारद ॥ ३९ ॥
ते सर्वे शिवदूताश्च नानाशस्त्रास्त्रपाणयः ।
कृत्तिकानां च भवनं वेष्टयामासुरुद्धताः ॥ ४० ॥
दृष्ट्‍वा तान् कृत्तिकाःसर्वा भयविह्नलमानसाः ।
कार्त्तिकं कथयामासुर्ज्वलन्तं ब्रह्मतेजसा ॥ ४१ ॥
कृत्तिका ऊचुः
वत्स सैन्यान्यसंख्यानि वेष्टयामासुरालयम् ।
किं कर्तव्यं क्व गन्तव्यं महाभयमुपस्थितम् ॥ ४२ ॥
कार्तिकेय उवाच
भयं त्यजत कल्याण्यो भयं किं वा मयि स्थिते ।
दुर्निवार्योऽस्मि बालश्च मातरः केन वार्यते ॥ ४३ ॥
ब्रह्मोवाच
एतस्मिन्नन्तरे तत्र सैन्येन्द्रो नन्दिकेश्वरः ।
पुरतः कार्तिकेयस्योपविष्टः समुवाच ह ॥ ४४ ॥
नन्दीश्वर उवाच
भ्रातः प्रवृत्तिं शृणु मे मातरश्च शुभावहाम् ।
प्रेरितोऽहं महेशेन संहर्त्रा शंकरेण च ॥ ४५ ॥
कैलासे सर्वदेवाश्च ब्रह्मविष्णुशिवादयः ।
सभायां संस्थितास्तात महत्युत्सवमंगले ॥ ४६ ॥
तदा शिवा सभायां वै शंकरं सर्व शंकरम् ।
सम्बोध्य कथयामास तवान्वेषणहेतुकम् ॥ ४७ ॥
पप्रच्छ तान् शिवो देवान् क्रमात्त्वत्प्राप्तिहेतवे ।
प्रत्युत्तरं ददुस्ते तु प्रत्येकं च यथोचितम् ॥ ४८ ॥
त्वामत्र कृत्तिकास्थाने कथयामासुरीश्वरम् ।
सर्वे धर्मादयो धर्माधर्मस्य कर्मसाक्षिणः ॥ ४९ ॥
प्रबभूव रहः क्रीडा पार्वतीशिवयोः पुरा ।
दृष्टस्य च सुरैः शम्भोर्वीर्यं भूमौ पपात ह ॥ ५० ॥
भूमिस्तदक्षिपद्वह्नौ वह्निश्चाद्रौ स भूधरः ।
गङ्‌गायां सोऽक्षिपद्वेगात् तरङ्‌गैः शरकानने ॥ ५१ ॥
तत्र बालोऽभवस्त्वं हि देवकार्यकृतिः प्रभुः ।
तत्र लब्धः कृत्तिकाभिस्त्वं भूमिं गच्छ सांप्रतम् ॥ ५२ ॥
तवाभिषेकं शम्भुस्तु करिष्यति सुरैः सह ।
लप्स्यसे सर्वशस्त्राणि तारकाख्यं हनिष्यसि ॥ ५३ ॥
पुत्रस्त्वं विश्वसंहर्त्तुस्त्वां प्राप्तुं चाऽक्षमा इमाः ।
नाग्निं गोप्तुं यथा शक्तः शुष्कवृक्षः स्वकोटरे ॥ ५४ ॥
दीप्तवांस्त्वं च विश्वेषु नासां गेहेषु शोभसे ।
यथा पतन्महाकूपे द्विजराजो न राजत ॥ ५५ ॥
करोषि च यथाऽऽलोकं नाऽऽच्छन्नोऽस्मासु तेजसा ।
यथा सूर्यः कलाच्छन्नो न भवेन्मानवस्य च ॥ ५६ ॥
विष्णुस्त्वं जगतां व्यापी नान्यो जातोसि शांभव ।
यथा न केषां व्याप्यं च तत्सर्वं व्यापकं नभः ॥ २७ ॥
योगीन्द्रो नाऽनुलिप्तश्च भागी चेत्परिपोषणे ।
नैव लिप्तो यथात्मा च कर्मयोगेषु जीविनाम् ॥ ५८ ॥
विश्वारम्भस्त्वमीशश्च नासु ते सम्भवेत् स्थितिः ।
गुणानां तेजसां राशिर्यथात्मानं च योगिनः ॥ ५९ ॥
भ्रातर्ये त्वां न जानन्ति ते नरा हतबुद्धयः ।
नाद्रियन्ते यथा भेकास्त्वेकवासाश्च पङ्‌कजान् ॥ ६० ॥
कार्त्तिकेय उवाच
भ्रातःसर्वं विजानासि ज्ञानं त्रैकालिकं च यत् ।
ज्ञानी त्वं का प्रशंसा ते यतो मृत्युञ्जयाश्रितः ॥ ६१ ॥
कर्मणां जन्म येषां वा यासु यासु च योनिषु ।
तासु ते निर्वृतिं भ्रातः प्राप्नुवन्तीह साम्प्रतम् ॥ ६२ ॥
कृत्तिकाज्ञानवत्यश्च योगिन्यः प्रकृतेः कलाः ।
स्तन्येनासां वर्द्धितोऽहमुपकारेण सन्ततम् ॥ ६३ ॥
आसामहं पोष्यपुत्रो मदंशा योषितस्त्विमाः ।
तस्याश्च प्रकृतेरंशास्ततस्तत्स्वामिवीर्यजः ॥ ६४ ॥
न मद्‌भङ्‌गो हे शैलेन्द्रकन्यया नन्दिकेश्वर ।
सा च मे धर्मतो माता यथेमाः सर्वसंमताः ॥ ६५ ॥
शम्भुना प्रेषितस्त्वं च शम्भोः पुत्रसमो महान् ।
आगच्छामि त्वया सार्द्धं द्रक्ष्यामि देवताकुलम् ॥ ६६ ॥
इत्येवमुक्त्वा तं शीघ्रं सम्बोध्य कृत्तिकागणम् ।
कार्त्तिकेयः प्रतस्थे हि सार्द्धं शंकरपार्षदैः ॥ ६७ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे
कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP