|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे
तृतीयोऽध्यायः
कार्तिकेयलीलावर्णनम्
नारद उवाच
देवदेव प्रजानाथ ब्रह्मन् सृष्टिकर प्रभो । ततः किमभवत्तत्र तद्वदाऽद्य कृपां कुरु ॥ १ ॥ ब्रह्मोवाच तस्मिन्नवसरे तात विश्वामित्रः प्रतापवान् । प्रेरितो विधिना तत्रागच्छत्प्रीतो यदृच्छया ॥ २ ॥ स दृष्ट्वाऽलौकिकं धाम तत्सुतस्य सुतेजसः । अभवत्पूर्णकामस्तु सुप्रसन्नो ननाम च ॥ ३ ॥ अकरोत्सुनुतिं तस्य सुप्रसन्नेन चेतसा । विधिप्रेरितवाग्भिश्च विश्वामित्रः प्रभाववित् ॥ ४ ॥ ततःसोऽभूत्सुतस्तत्र सुप्रसन्नो महोतिकृत् । सुप्रहस्याद्भुतमहो विश्वामित्रमुवाच च ॥ ५ ॥ शिवसुत उवाच शिवेच्छया महाज्ञानिन्नकस्मात्त्वमिहागतः । संस्कारं कुरु मे तात यथावद्वेदसंमितम् ॥ ६ ॥ अद्यारभ्य पुरोधास्त्वं भव मे प्रीतिमावहन् । भविष्यसि सदा पूज्यः सर्वेषां नात्र संशयः ॥ ७ ॥ ब्रह्मोवाच इत्याकर्ण्य वचस्तस्य सुप्रसन्नो हि गाधिजः । तमुवाचानुदात्तेन स्वरेण च सुविस्मितः ॥ ८ ॥ विश्वामित्र उवाच शृणु तात न विप्रोऽहं गाधिक्षत्रियबालकः । विश्वामित्रेति विख्यातः क्षत्रियो विप्रसेवकः ॥ ९ ॥ इति स्वचरितं ख्यातं मया ते वरबालक । कस्त्वं स्वचरितं ब्रूहि विस्मितायाखिलं हि मे ॥ १० ॥ ब्रह्मोवाच इत्याकर्ण्य वचस्तस्य तत्स्ववृत्तं जगाद ह । ततश्चोवाच सुप्रीत्या गाधिजं तं महोतिकृत् ॥ ११ ॥ शिवसुत उवाच विश्वामित्र वरान्मे त्वं ब्रह्मर्षिर्नात्र संशयः । वशिष्ठाद्याश्च नित्यं त्वां प्रशंसिष्यन्ति चादरात् ॥ १२ ॥ अतस्त्वमाज्ञया मे हि संस्कारं कर्तुमर्हसि । इदं सर्वं सुगोप्यं ते कथनीयं न कुत्रचित् ॥ १३ ॥ ब्रह्मोवाच ततोकार्षीत्स संस्कारं तस्य प्रीत्याऽखिलं यथा । शिवबालस्य देवर्षे वेदोक्तविधिना परम् ॥ १४ ॥ शिवबालोपि सुप्रीतो दिव्यज्ञानमदात्परम् । विश्वामित्राय मुनये महोतिकारकः प्रभुः ॥ १५ ॥ पुरोहितं चकारासौ विश्वामित्रं शुचेःसुत । तदारभ्य द्विजवरो नानालीलाविशारदः ॥ १६ ॥ इत्थं लीला कृता तेन कथिता सा मया मुने । तल्लीलामपरां तात शृणु प्रीत्या वदाम्यहम् ॥ १७ ॥ तस्मिन्नवसरे तात श्वेतनामा च संप्रति । तत्राऽपश्यत्सुतं दिव्यं निजं परमपावनम् ॥ १८ ॥ ततस्तं पावको गत्वा दृष्ट्वालिङ्ग्य चुचुम्ब च । पुत्रेति चोक्त्वा तस्मै स शस्त्रं शक्तिन्ददौ च सः ॥ १९ ॥
गुहस्तां शक्तिमादाय तच्छृङ्गं चारुरोह ह । तं जघान तया शक्त्या शृङ्गो भुवि पपात सः ॥ २० ॥ दशपद्ममिता वीरा राक्षसाः पूर्वमागताः । तद्वधार्थं द्रुतं नष्टा बभूवुस्तत्प्रहारतः ॥ २१ ॥ हाहाकारो महानासीच्चकम्पे साचला मही । त्रैलोक्यं च सुरेशानःसदेवस्तत्र चागमत् ॥ २२ ॥ दक्षिणे तस्य पार्श्वे च वज्रेण स जघान च । शाखनामा ततो जातः पुमांश्चैको महाबलः ॥ २३ ॥ पुनः शक्रो जघानाशु वामपार्श्वे हि तं तदा । वज्रेणाऽन्यः पुमाञ्जातो विशाखाख्योऽपरो बली ॥ २४ ॥ ततस्तद्धृदयं शक्रो जघान पविना तदा । परोऽभून्नैगमोपाख्यः पुमांस्तद्वन्महाबलः ॥ २५ ॥ तदा स्कन्दादिचत्वारो महावीरा महाबलाः । इन्द्रं हन्तुं द्रुतं जग्मुः सोयं तच्छरणं ययौ ॥ २५ ॥ शक्रः ससामरगणो भयं प्राप्य गुहात्ततः । ययौ स्वलोकं चकितो न भेदं ज्ञातवान्मुने ॥ २७ ॥ स बालकस्तु तत्रैव तस्थाऽऽवानन्दसंयुतः । पूर्ववन्निर्भयस्तात नानालीलाकरः प्रभुः ॥ २८ ॥ तस्मिन्नवसरे तत्र कृत्तिकाख्याश्च षट् स्त्रियः । स्नातुं समागता बालं ददृशुस्तं महाप्रभुम् ॥ २९ ॥ ग्रहीतुं तं मनश्चक्रुःसर्वास्ता कृत्तिकाः स्त्रियः । वादो बभूव तासां तद्ग्रहणेच्छापरो मुने ॥ ३० ॥ तद्वादशमनार्थं स षण्मुखानि चकार ह । पपौ दुग्धं च सर्वासां तुष्टास्ता अभवन्मुने ॥ ३१ । तन्मनोगतिमाज्ञाय सर्वास्ताः कृत्तिकास्तदा । तमादाय ययुर्लोकं स्वकीयं मुदिता मुने ॥ ३२ ॥ तं बालकं कुमाराख्यं स्तनं दत्त्वा स्तनार्थिने । वर्द्धयामासुरीशस्य सुतं सूर्याधिकप्रभम् ॥ ३३ ॥ न चक्रुर्बालकं याश्च लोचनानामगोचरम् । प्राणेभ्योपि प्रेमपात्रं यः पोष्टा तस्य पुत्रकः ॥ ३४ ॥ यानि यानि च वस्त्राणि त्रैलोक्ये दुर्लभानि च । ददुस्तस्मै च ताः प्रेम्णा भूषणानि वराणि वै ॥ ३५ ॥ दिनेदिने ताः पुपुषुर्बालकं तं महाप्रभुम् । प्रसंसितानि स्वादूनि भोजयित्वा विशेषतः ॥ ३६ ॥ अथैकस्मिन् दिने तात स बालः कृत्तिकात्मजः । गत्वा देवसभां दिव्यां सुचरित्रं चकार ह ॥ ३७ ॥ स्वमहो दर्शयामास देवेभ्यो हि महाद्भुतम् । सविष्णुभ्योऽखिलेभ्यश्च महोतिकरबालकः ॥ ३८ ॥ तं दृष्ट्वा सकलास्ते वै साच्युताःसर्षयः सुराः । विस्मयं प्रापुरत्यन्तं पप्रच्छुस्तं च बालकम् ॥ ३९ ॥ को भवानिति तच्छ्रुत्वा न किञ्चित्स जगाद ह । स्वालयं स जगामाऽशु गुप्तस्तस्थौ हि पूर्ववत् ॥ ४० ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥ श्रीगौरीशंकरार्पणमस्तु |