॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे

द्वितीयोऽध्यायः

शरवणे कार्तिकेयोत्पत्तिवर्णनम्


ब्रह्मोवाच
तदाकर्ण्य महादेवो योगज्ञानविशारदः ।
त्यक्तकामो न तत्याज सम्भोगं पार्वतीभयात् ॥ १ ॥
आजगाम गृहद्वारि सुराणां निकटं शिवः ।
दैत्येन पीडितानां च शंकरो भक्तवत्सलः ॥ २ ॥
देवाःसर्वे प्रभुं दृष्ट्‍वा हरिणा च मया शिवम् ।
बभूबुः सुखिनश्चाति तदा वै भक्तवत्सलम् ॥ ३ ॥
इत्याकर्ण्य वचस्तेषां सुराणां भगवान्भवः ।
प्रत्युवाच विषण्णात्मा दूयमानेन चेतसा ॥ ४ ॥
प्रणम्य सुमहाप्रीत्या नतस्कन्धाश्च निर्जराः ।
तुष्टुवुः शंकरं सर्वे मया च हरिणा मुने ॥ ५ ॥
देवा ऊचुः
देवदेव महादेव करुणासागर प्रभो ।
अन्तर्यामी हि सर्वेषां सर्वं जानासि शंकर ॥ ६ ॥
देवकार्यं कुरु विभो रक्ष देवान् महेश्वर ।
जहि दैत्यान् कृपां कृत्वा तारकादीन् महाप्रभून् ॥ ७ ॥
शिव उवाच
हे विष्णो हे विधे देवाः सर्वेषां वो मनोगतिः ।
यद्‌भावि तद्‌भवत्येव कोऽपि नो तन्निवारकः ॥ ८ ॥
यज्जातं तज्जातमेव प्रस्तुतं शृणुतामराः ।
शिरस्तस्खलितं वीर्यं को ग्रहीष्यति मेऽधुना ॥ ९ ॥
स गृह्णीयादिति प्रोच्य पातयामास तद्‌भुवि ।
अग्निर्भूत्वा कपोतो हि प्रेरितःसर्वनिर्जरैः ॥ १० ॥
अभक्षच्छाम्भवं वीर्यं चञ्च्वा तु निखिलं तदा ।
एतस्मिन्नन्तरे तत्राजगाम गिरिजा मुने ॥ ११ ॥
शिवागमविलम्बे च ददर्श सुरपुङ्‌गवान् ॥
ज्ञात्वा तद्वृत्तमखिलं महाक्रोधयुता शिवा ॥ १२ ॥
उवाच त्रिदशान् सर्वान् हरिप्रभृतिकाँस्तदा ॥ १३ ॥
देव्युवाच
रे रे सुरगणाःसर्वे यूयं दुष्टा विशेषतः ।
स्वार्थसंसाधका नित्यं तदर्थं परदुःखदाः ॥ १४ ॥
स्वार्थहेतोर्महेशानमाराध्य परमं प्रभुम् ।
नष्टं चक्रुर्मद्विहारं वन्ध्याऽभवमहं सुराः ॥ १५ ॥
मां विरोध्य सुखं नैव केषाञ्चिदपि निर्जराः ।
तस्माद्दुःखं भवेद्वो हि दुष्टानां त्रिदिवौकसाम् ॥ १६ ॥
ब्रह्मोवाच
इत्युक्त्वा विष्णुप्रमुखान् सुरान् सर्वान् शशाप सा ।
प्रज्वलन्ती प्रकोपेन शैलराजसुता शिवा ॥ १७ ॥
पार्वत्युवाच
अद्यप्रभृति देवानां वन्ध्या भार्या भवन्त्विति ।
देवाश्च दुःखिताःसन्तु निखिला मद्विरोधिनः ॥ १८ ॥
ब्रह्मोवाच
इति शप्त्वाखिलान्देवान् विष्ण्वाद्यान्सकलेश्वरी ।
उवाच पावकं क्रुद्धा भक्षकं शिवरेतसः ॥ १९ ॥
पार्वत्युवाच
सर्वभक्षी भव शुचे पीडितात्मेति नित्यशः ।
शिवतत्त्वं न जानासि मूर्खोऽसि सुरकार्यकृत् ॥ २० ॥
रे रे शठ महादुष्ट दुष्टानां दुष्टबोधवान् ।
अभक्षः शिवीर्यं यन्नाकार्षीरुचितं हि तत् ॥ २१ ॥
ब्रह्मोवाच
इति शप्त्वा शिवा वह्निं सहेशेन नगात्मजा ।
जगाम स्वालयं शीघ्रमसंतुष्टा ततो मुने ॥ २२ ॥
गत्वा शिवा शिवं सम्यक् बोधयामास यत्नतः ।
अजीजनत्परं पुत्रं गणेशाख्यं मुनीश्वर ॥ २३ ॥
तद्वृत्तान्तमशेषं च वर्णयिष्ये मुनेऽग्रतः ।
इदानीं शृणु सुप्रीत्या गुहोत्पत्तिं वदाम्यहम् ॥ २४ ॥
पावकादितमन्नादि भुञ्जते निर्जराः खलु ।
वेदवाण्येति सर्वे ते सगर्भा अभवन्सुराः ॥ २५ ॥
ततोऽसहन्तस्तद्वीर्यं पीडिता ह्यभवन् सुराः ।
विष्ण्वाद्या निखिलाश्चाति शिवाऽऽज्ञा नष्टबुद्धयः ॥ २६ ॥
अथ विष्णुप्रभृतिकाःसर्वे देवा विमोहिताः ।
दह्यमाना ययुः शीघ्रं शरणं पार्वतीपतेः ॥ २७ ॥
शिवालयस्य ते द्वारि गत्वा सर्वे विनम्रकाः ।
तुष्टुवुःसशिवं शम्भुं प्रीत्या साञ्जलयःसुराः ॥ २८ ॥
देवा ऊचुः
देवदेव महादेव गिरिजेश महाप्रभो ।
किं जातमधुना नाथ तव माया दुरत्यया ॥ २९ ॥
सगर्भाश्च वयं जाता दह्यमानाश्च रेतसा ।
तव शम्भो कुरु कृपां निवारय दशामिमाम् ॥ ३० ॥
ब्रह्मोवाच
इत्याकर्ण्याऽमरनुतिं परमेशः शिवापतिः ।
आजगाम द्रुतं द्वारि यत्र देवाः स्थिता मुने ॥ ३१ ॥
आगतं शंकरं द्वारि सर्वे देवाश्च साच्युताः ।
प्रणम्य तुष्टुवुः प्रीत्या नर्तका भक्तवत्सलम् ॥ ३२ ॥
देवा ऊचुः
शम्भो शिव महेशान त्वां नताः स्म विशेषतः ।
रक्ष नः शरणापन्नान् दह्यमानांश्च रेतसा ॥ ३३ ॥
इदं दुःखं हर हर भवामो हि मृता ध्रुवम् ।
त्वां विना कः समर्थोऽद्य देवदुःखनिवारणे ॥ ३४ ॥
ब्रह्मोवाच
इति दीनतरं वाक्यमाकर्ण्य सुरराट् प्रभुः ।
प्रत्युवाच विहस्याऽथ स सुरान् भक्तवत्सलः ॥ ३५ ॥
शिव उवाच
हे हरे हे विधे देवाः सर्वे शृणुत मद्वचः ।
भविष्यति सुखं वोऽद्य सावधाना भवन्तु हि ॥ ३६ ॥
एतद्वमत मद्वीर्यं द्रुतमेवाऽखिलाःसुराः ।
सुखिनस्तद्विशेषेण शासनान्मम सुप्रभो ॥ ३७ ॥
ब्रह्मोवाच
इत्याज्ञां शिरसाऽधाय विष्ण्वाद्याः सकलाः सुराः ।
अकार्षुर्वमनं शीघ्रं स्मरन्तः शिवमव्ययम् ॥ ३८ ॥
तच्छम्भुरेतःस्वर्णाभं पर्वताकारमद्‌भुतम् ।
अभवत्पतितं भूमौ स्पृशद् द्यामेव सुप्रभम् ॥ ३९ ॥
अभवन्सुखिनःसर्वे सुराः सर्वेऽच्युतादयः ।
अस्तुवन् परमेशानं शंकरं भक्तवत्सलम् ॥ ४० ॥
पावकस्त्वभवन्नैव सुखी तत्र मुनीश्वर ।
तस्याज्ञां परमोऽदाद्वै शंकरः परमेश्वरः ॥ ४१ ॥
ततः सवह्निर्विकलः साञ्जलिर्नतको मुने ।
अस्तौच्छिवं सुखी नात्मा वचनं चेदमब्रवीत् ॥ ४२ ॥
अग्निरुवाच
देवदेव महेशान मूढोऽहं तव सेवकः ।
क्षमस्व मेऽपराधं हि मम दाहं निवारय ॥ ४३ ॥
त्वं दीनवत्सल स्वामिन् शंकरः परमेश्वरः ।
प्रत्युवाच प्रसन्नात्मा पावको दीनवत्सलम् ॥ ४४ ॥
ब्रह्मोवाच
इत्याकर्ण्य शुचेर्वाणीं स शम्भुः परमेश्वरः ।
प्रत्युवाच प्रसन्नात्मा पावकं दीनवत्सलः ॥ ४५ ॥
शिव उवाच
कृतं त्वनुचितं कर्म मद्रेतो भक्षितं हि यत् ।
अतोऽनिवृत्तस्ते दाहः पापाधिक्यान्मदाज्ञया ॥ ४६ ॥
इदानीं त्वं सुखी नाम शुचे मच्छरणागतः ।
अतः प्रसन्नो जातोऽहं सर्वं दुःखं विनश्यति ॥ ४७ ॥
कस्याश्चित्सुस्त्रियां योनौ मद्‌रेतस्त्यज यत्नतः ।
भविष्यति सुखी त्वं हि निर्दाहात्मा विशेषतः ॥ ४८ ॥
ब्रह्मोवाच
शम्भुवाक्यं निशम्येति प्रत्युवाच शनैः शुचिः ।
साञ्जलिर्नतकः प्रीत्या शंकरं भक्तशंकरम् ॥ ४९ ॥
दुरासदमिदं तेजस्तव नाथ महेश्वर ।
काचिन्नास्ति विना शक्त्या धर्तुं योनौ जगत्त्रये ॥ ५० ॥
इत्थं यदाऽब्रवीद्वह्निस्तदा त्वं मुनिसत्तम ।
शंकरप्रेरितः प्रात्थ हृदाग्निमुपकारकः ॥ ५१ ॥
नारद उवाच
शृणु मद्वचनं वह्ने तव दाहहरं शुभम् ।
परमानन्ददं रम्यं सर्वकष्टनिवारकम् ॥ ५२ ॥
कृत्वोपायमिमं वह्ने सुखी भव विदाहकः ।
शिवेच्छया मया सम्यगुक्तं तातेदमादरात् ॥ ५३ ॥
तपोमासस्नानकर्त्र्य स्त्रियो याःस्युः प्रगे शुचे ।
तद्देहेषु स्थापय त्वं शिवरेतस्त्विदं महत् ॥ ५४ ॥
ब्रह्मोवाच
तस्मिन्नवसरे तत्रा गताः सप्तमुनिस्त्रियः ।
तपोमासि स्नानकामाः प्रातः सन्नियमा मुने ॥ ५५ ॥
स्नानं कृत्वा स्त्रियस्ता हि महाशीतार्द्दिताश्च षट् ।
गन्तुकामा मुने याता वह्निज्वालासमीपतः ॥ ५६ ॥
विमोहिताश्च ता दृष्ट्‍वारुन्धती गिरिशाज्ञया ।
निषिषेध विशेषेण सुचरित्र सुबोधिनी ॥ ५७ ॥
ताः षड् मुनिस्त्रियो मोहाद्धठात्तत्र गता मुने ।
स्वशीतविनिवृत्त्यर्थं मोहिताः शिवमायया ॥ ५८ ॥
तद्‌रेतःकणिकाः सद्यस्तद्देहान् विविशुर्मुने ।
रोमद्वाराऽखिला वह्निरभूद्दाहविवर्जितः ॥ ५९ ॥
अन्तर्धाय द्रुतं वह्निर्ज्वालारूपो जगाम ह ।
सुखी स्वलोकं मनसा स्मरंस्त्वां शंकरं च तम् ॥ ६० ॥
सगर्भास्ताः स्त्रियः साधोऽभवन् दाहप्रपीडिताः ।
जग्मुःस्वभवनं तातारुन्धती दुःखिताग्निना ॥ ६१ ॥
दृष्ट्‍वा स्वस्त्रीगतिं तात नाथाः क्रोधाकुला द्रुतम् ।
तत्यजुस्ताः स्त्रियस्तात सुसंमंत्र्य परस्परम् ॥ ६२ ॥
अथ ताः षट् स्त्रियःसर्वा दृष्ट्‍वा स्वव्यभिचारकम् ।
महादुःखान्वितास्ताताऽभवन्नाकुलमानसाः ॥ ६३ ॥
तत्यजुः शिवरेतस्तद्‌गर्भरूपं मुनिस्त्रियः ।
ता हिमाचलपृष्ठेऽथाभवन् दाहविवर्जिताः ॥ ६४ ॥
असहन् शिवरेतस्तद्धिमाद्रिः कंपमुद्वहन् ।
गङ्‌गायां प्राक्षिपत्तूर्णमसह्यं दाहपीडितः ॥ ६५ ॥
गङ्‌गयाऽपि च तद्वीर्यं दुःसहं परमात्मनः ।
निःक्षिप्तं हि शरस्तम्बे तरङ्‌गैः स्वैर्मुनीश्वर ॥ ६६ ॥
पतितं तत्र तद्‌रेतो द्रुतं बालो बभूव ह ।
सुन्दरः सुभगः श्रीमांस्तेजस्वी प्रीतिवर्द्धनः ॥ ६७ ॥
मार्गमासे सिते पक्षे तिथौ षष्ठ्यां मुनीश्वर ।
प्रादुर्भावोऽभवत्तस्य शिवपुत्रस्य भूतले ॥ ६८ ॥
तस्मिन्नवसरे ब्रह्मन्नकस्माद्धिमशैलजा ।
अभूतः सुखिनौ तत्र स्वगिरौ गिरिशोऽपि च ॥ ६९ ॥
शिवाकुचाभ्यां सुस्राव पय आनन्दसम्भवम् ।
तत्र गत्वा च सर्वेषां सुखमासीन्मुनेऽधिकम् ॥ ७० ॥
मंगलं चाऽभवत्तात त्रिलोक्यां सुखदं सताम् ।
खलानामभवद्विघ्नो दैत्यानां च विशेषतः ॥ ७१ ॥
अकस्मादभवद् व्योम्नि परमो दुन्दुभिध्वनिः ।
पुष्पवृष्टिः पपाताऽशु बालकोपरि नारद ॥ ७२ ॥
विष्ण्वादीनां समस्तानां देवानां मुनिसत्तम ।
अभूदकस्मात्परम आनन्दः परमोत्सवः ॥ ७३ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे
कुमारखण्डे शिवपुत्रजननवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP