॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे

प्रथमोऽध्यायः

तारकार्दितसुराणां शङ्करसन्निधौ दुःखनिवेदनम्


वन्दे वन्दनतुष्टमानसमतिप्रेमप्रियं प्रेमदं
पूर्णं पूर्णकरं प्रपूर्णनिखिलैश्वर्यैकवासं शिवम् ।
सत्यं सत्यमयं त्रिसत्यविभवं सत्यप्रियं सत्यदं
विष्णुब्रह्मनुतं स्वकीयकृपयोपात्ताकृतिं शंकरम् ॥ १ ॥
नारद उवाच
विवाहयित्वा गिरिजां शंकरो लोकशंकरः ।
गत्वा स्वपर्वतं ब्रह्मन् किमकार्षिद्धि तद्वद ॥ २ ॥
कथं हि तनयो जज्ञे शिवस्य परमात्मनः ।
यदर्थमात्मारामोऽपि समुवाह शिवां प्रभुः ॥ ३ ॥
तारकस्य कथं ब्रह्मन् वधोऽभूद्देवशंकरः ।
एतत्सर्वमशेषेण वद कृत्वा दयां मयि ॥ ४ ॥
सूत उवाच
इत्याकर्ण्य वचस्तस्य नारदस्य प्रजापतिः ।
सुप्रसन्नमनाः स्मृत्वा शंकरं प्रत्युवाच ह ॥ ५ ॥
ब्रह्मोवाच
चरितं शृणु वक्ष्यामि शशिमौलेस्तु नारद ।
गुहजन्मकथां दिव्यां तारकासुरसद्वधम् ॥ ६ ॥
श्रूयतां कथयाम्यद्य कथां पापप्रणाशिनीम् ।
यां श्रुत्वा सर्वपापेभ्यो मुच्यते मानवो ध्रुवम् ॥ ७ ॥
इदमाख्यानमनघं रहस्यं परमाद्‌भुतम् ।
पापसन्तापहरणं सर्वविघ्नविनाशनम् ॥ ८ ॥
सर्वमंगलदं सारं सर्वश्रुतिमनोहरम् ।
सुखदं मोक्षबीजं च कर्ममूलनिकृन्तनम् ॥ ९ ॥
कैलासमागत्य शिवां विवाह्य
शोभां प्रपेदे नितरां शिवोऽपि ।
विचारयामास च देवकृत्यं
पीडां जनस्यापि च देवकृत्ये ॥ १० ॥
शिवःस भगवान् साक्षात्कैलासमगमद्यदा ।
सौख्यं च विविधं चक्रुर्गणाः सर्वे सुहर्षिताः ॥ ११ ॥
महोत्सवो महानासीच्छिवे कैलासमागते ।
देवाः स्वविषयं प्राप्ता हर्षनिर्भरमानसाः ॥ १२ ॥
अथ शम्भुर्महादेवो गृहीत्वा गिरिजां शिवाम् ।
जगाम निर्जनं स्थानं महादिव्यं मनोहरम् ॥ १३ ॥
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ।
अद्‌भुतां तत्र परमां भोगवस्त्वन्वितां शुभाम् ॥ १४ ॥
स रेमे तत्र भगवान् शम्भुर्गिरिजया सह ।
सहस्रवर्षपर्यन्तं देवमानेन मानदः ॥ १५ ॥
दुर्गाङ्‌गस्पर्शमात्रेण लीलया मूर्च्छितः शिवः ।
मूर्च्छिता सा शिवस्पर्शाद्‌बुबुधे न दिवानिशम् ॥ १६ ॥
हरे भोगप्रवृत्ते तु लोकधर्मप्रवर्तिनि ।
महान् कालो व्यतीयाय तयोः क्षण इवानघ ॥ १७ ॥
अथ सर्वे सुरास्तात एकत्रीभूय चैकदा ।
मन्त्रयाञ्चक्रुरागत्य मेरौ शक्रपुरोगमाः ॥ १८ ॥
सुरा ऊचुः
विवाहं कृतवाञ्छम्भुरस्मत्कार्यार्थमीश्वरः ।
योगीश्वरो निर्विकारो स्वात्मारामो निरञ्जनः ॥ १९ ॥
नोत्पन्नस्तनयस्तस्य न जानीमोऽत्र कारणम् ।
विलम्बः क्रियते तेन कथं देवेश्वरेण ह ॥ २० ॥
ब्रह्मोवाच
एतस्मिन्नन्तरे देवा नारदाद्देवदर्शनात् ।
बुबुधुस्तन्मितं भोगं तयोश्च रममाणयोः ॥ २१ ॥
चिरं ज्ञात्वा तयोर्भोगं चिन्तामापुः सुराश्च ते ।
ब्रह्माणं मां पुरस्कृत्य ययुर्नारायणान्तिकम् ॥ २२ ॥
तं नत्वा कथितं सर्वं मया वृत्तान्तमीप्सितम् ।
सन्तस्थिरे सर्वदेवाः चित्रे पुत्तलिका यथा ॥ २३ ॥
सहस्रवर्षपर्यन्तं देवमानेन शंकरः ।
रतौ रतश्च निश्चेष्टो योगी विरमते न हि ॥ २४ ॥
श्रीभगवानुवाच
चिन्ता नास्ति जगद्धातः सर्वं भद्रं भविष्यति ।
शरणं व्रज देवेश शंकरस्य महाप्रभोः ॥ २५ ॥
महेशशरणापन्ना ये जना मनसा मुदा ।
तेषां प्रजेश भक्तानां न कुतश्चिद्‌भयं क्वचित् ॥ २६ ॥
शृङ्‌गारभङ्‌गः समये भविता नाधुना विधे ।
कालप्रयुक्तं कार्यं च सिद्धिं प्राप्नोति नान्यथा ॥ २७ ॥
शम्भोः सम्भोगमिष्टं को भद्रां कर्तुमिहेश्वरः ।
पूर्णे वर्षसहस्रे च स्वेच्छया हि विरंस्यति ॥ २८ ॥
स्त्रीपुंसो रतिविच्छेदमुपायेन करोति यः ।
तस्य स्त्रीपुत्रयोर्भेदो भवेज्जन्मनि जन्मनि ॥ २९ ॥
भ्रष्टज्ञानो नष्टकीर्त्तिरलक्ष्मीको भवेदिह ।
प्रयात्यन्ते कालसूत्र वर्षलक्षं स पातकी ॥ ३० ॥
रम्भायुक्तं शक्रमिमं चकार विरतं रतौ ।
महामुनीन्द्रो दुर्वासास्तत्स्त्रीभेदो बभूव ह ॥ ३१ ॥
पुनरन्यां स सम्प्राप्य विषेव्य शुभपाणिकाम् ।
दिव्यं वर्षसहस्रं च विजहौ विरहज्वरम् ॥ ३२ ॥
घृताच्या सह संश्लिष्टं कामं वारितवान् गुरुः ।
षण्मासाभ्यन्तरे चन्द्रस्तस्य पत्नीं जहार ह ॥ ३३ ॥
पुनः शिवं समाराध्य कृत्वा तारामयं रणम् ।
तारां सगर्भां सम्प्राप्य विजहौ विरहज्वरम् ॥ ३४
मोहिनीसहितं चन्द्रं चकार विरतं रतौ ।
महर्षिर्गौतमस्तस्य स्त्रीविच्छेदो बभूव ह ॥ ३५ ॥
हरिश्चन्द्रो हालिकं च वृषल्यासह संयुतम् ।
चारयामास निश्चेष्टं निर्जने तत्फलं शृणु ॥ ३६ ॥
भ्रष्टः स्त्रीपुत्रराज्येभ्यो विश्वामित्रेण ताडितः ।
ततः शिवं समाराध्य मुक्तो भूतो हि कश्मलात् ॥ ३७ ॥
अजामिलं द्विजश्रेष्ठं वृषल्या सह संयुतम् ।
न भिया वारयामासुः सुरास्तां चापि केचन ॥ ३८ ॥
सर्वं निषेकसाध्यं च निषेको बलवान् विधे ।
निषेकफलदो वै स निषेकः केन वार्यते ॥ ३९ ॥
दिव्यं वर्षसहस्रं च शम्भोः सम्भोगकर्म तत् ।
पूर्णे वर्षसहस्रे च गत्वा तत्र सुरेश्वराः ॥ ४० ॥
येन वीर्यं पतेद्‌भूमौ तत् करिष्यथ निश्चितम् ।
तत्र वीर्ये च भविता स्कन्दनामा प्रभोः सुतः ॥ ४१ ॥
अधुना स्वगृहं गच्छ विधे सुरगणैः सह ।
करोतु शम्भुः सम्भोगं पार्वत्या सह निर्जने ॥ ४२ ॥
ब्रह्मोवाच
इत्युक्त्वा कमलाकान्तः शीघ्रं स्वान्तः पुरं ययौ ।
स्वालयं प्रययुर्देवा मया सह मुनीश्वर ॥ ४३ ॥
शक्तिशक्तिमतोश्चाऽथ विहारेणाऽति च क्षितिः ।
भाराक्रान्ता चकम्पे सा सशेषाऽपि सकच्छपा ॥ ४४ ॥
कच्छपस्य हि भारेण सर्वाधारः समीरणः ।
स्तम्भितोऽथ त्रिलोकाश्च बभूवुर्भयविह्वलाः ॥ ४५ ॥
अथ सर्वे मया देवा हरेश्च शरणं ययुः ।
सर्वं निवेदयाञ्चक्रुस्तद्वृत्तं दीनमानसाः ॥ ४६ ॥
देवा ऊचुः
देवदेव रमानाथ सर्वावनकर प्रभोः ।
रक्ष नः शरणापन्नान् भयव्याकुलमानसान् ॥ ४७ ॥
स्तम्भितस्त्रिजगत्प्राणो न जाने केन हेतुना ।
व्याकुलं मुनिभिर्लेखैस्त्रैलोक्यं सचराचरम् ॥ ४८ ॥
ब्रह्मोवाच
इत्युक्त्वा सकला देवा मया सह मुनीश्वर ।
दीनास्तस्थुः पुरो विष्णोर्मौनीभूताः सुदुःखिताः ॥ ४९ ॥
तदाकर्ण्य समादाय सुरान्नः सकलान् हरिः ।
जगाम पर्वतं शीघ्रं कैलासं शिवल्लभम् ॥ ५० ॥
तत्र गत्वा हरिर्देवैर्मया च सुरवल्लभः ।
ययौ शिवरस्थानं शंकरं द्रष्टुकाम्यया ॥ ५१ ॥
तत्र दृष्ट्‍वा शिवं विष्णुर्न सुरैर्विस्मितोऽभवत् ।
तत्र स्थितान् शिवगणान् पप्रच्छ विनयान्वितः ॥ ५२ ॥
विष्णुरुवाच
हे शंकराः शिवः कुत्र गतः सर्वप्रभुर्गणाः ।
निवेदयत नः प्रीत्या दुःखितान्वै कृपालवः ॥ ५३ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्य सामरस्य हरेर्गुणाः ।
प्रोचुः प्रीत्या गणास्ते हि शंकरस्य रमापतिम् ॥ ५४ ॥
शिवगणा ऊचुः
हरे शृणु शिवप्रीत्या यथार्थं ब्रूमहे वयम् ।
ब्रह्मणा निर्जरैः सार्द्धं वृत्तान्तमखिलं च यत् ॥ ५५ ॥
सर्वेश्वरो महादेवो जगाम गिरिजालयम् ।
संस्थाप्य नोऽत्र सुप्रीत्या रानालीलाविशारदः ॥ ५६ ॥
तद्‌गुहाभ्यन्तरे शम्भुः किं करोति महेश्वरः ।
न जानीमो रमानाथ व्यतीयुर्बहवः समाः ॥ ५७ ॥
ब्रह्मोवाच
श्रुत्वेति वचनं तेषां स विष्णुः सामरो मया ।
विस्मितोऽति मुनिश्रेष्ठ शिवद्वारं जगाम ह ॥ ५८ ॥
तत्र गत्वा मया देवैः स हरिर्देववल्लभः ।
आर्तवाण्या मुने प्रोचे तारस्वरतया तदा ॥ ५९ ॥
शम्भुमस्तौन्महाप्रीत्या सामरो हि मया हरिः ।
तत्र स्थितो मुनिश्रेष्ठ सर्वलोकप्रभुं हरम् ॥ ६० ॥
विष्णुरुवाच
किं करोषि महादेवाऽभ्यन्तरे परमेश्वर ।
तारकार्तान्सुरान्सर्वान् पाहि नः शरणागतान् ॥ ६१ ॥
इत्यादि संस्तुवन् शम्भुं बहुधा सोऽमरैर्मया ।
रुरोदाति हरिस्तत्र तारकार्तैर्मुनीश्वर ॥ ६२ ॥
दुःखकोलाहलस्तत्र बभूव त्रिदिवौकसाम् ।
मिश्रितः शिव संस्तुत्याऽसुरार्त्तानां मुनीश्वर ॥ ६३ ॥
इति श्रीशिवमहापुराणे रुद्रसंहितायां चतुर्थे
कुमारखण्डे शिविहारवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP