|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
पञ्चपञ्चाशत्तमोऽध्यायः
शिवयोः कैलासगमनवर्णनम्
ब्रह्मोवाच
अथ सा ब्राह्मणी देव्यै शिक्षयित्वा व्रतं च तत् । तथास्त्विति च सम्प्रोच्य प्रेमवश्या बभूव सा । धृतिं धृत्वाहूय कालीं विश्लेषविरहा कुला ॥ २ ॥ अत्युच्चै रोदनं चक्रे संश्लिष्य च पुनः पुनः । पार्वत्यपि रुरोदोच्चैरुच्चरन्ती कृपावचः ॥ ३ ॥ शैलप्रिया शिवा चापि मूर्च्छामाप शुचार्दिता । मूर्च्छाम्प्रापुर्देवपत्न्यः पार्वत्या रोदनेन च ॥ ४ ॥ सर्वाश्च रुरुदुर्नार्यःसर्वमासीदचेतनम् । स्वयं रुरोद योगीशो गच्छन्कोन्य परः प्रभुः ॥ ५ ॥ एतस्मिन्नन्तरे शीघ्रमाजगाम हिमालयः । ससर्वतनयस्तत्र सचिवैश्च द्विजैः परैः ॥ ६ ॥ स्वयं रुरोद मोहेन वत्सां कृत्वा स्ववक्षसि । क्व यासीत्येवमुच्चार्य शून्यं कृत्वा मुहुर्मुहुः ॥ ७ ॥ ततः पुरोहितो विप्रैरध्यात्मविद्यया सुखम् । सर्वान्प्रबोधयामास कृपया ज्ञानवत्तरः ॥ ८ ॥ ननाम पार्वती भक्त्या मातरं पितरं गुरुम् । महामाया भवाचाराद्रुरोदोच्चैर्मुहुर्मुहुः ॥ ९ ॥ पार्वत्या रोदनेनैव रुरुदुः सर्वयोषितः । नितरां जननी मेना यामयो भ्रातरस्तथा ॥ १० ॥ पुनः पुनः शिवामाता यामयोऽन्याश्च योषितः । भ्रातरो जनकः प्रेम्णा रुरुदुर्बद्धसौहृदाः ॥ ११ ॥ तदा विप्राः समागत्य बोधयामासुरादरात् । लग्नन्निवेदयामासुर्यात्रायाः सुखदं परम् ॥ १२ ॥ ततो हिमालयो मेनां धृत्वा धैर्यं विवेकतः । शिबिकामानयामास शिवारोहणहेतवे ॥ १३ ॥ शिवामारोहयामासुस्तत्र विप्राङ्गनाश्च ताम् । आशिषं प्रददुःसर्वाः पिता माता द्विजास्तथा ॥ १४ ॥ महाराज्ञ्युपचाराँश्च ददौ मेना गिरिस्तथा । नानाद्रव्यसमूहं च परेषान्दुर्लभं शुभम् ॥ १५ ॥ शिवा नत्वा गुरून्सर्वान् जनकं जननीं तथा । द्विजान्पुरोहितं यामीस्त्रीस्तथान्या ययौ मुने ॥ १६ ॥ हिमाचलोऽपि ससुतोऽगच्छत्स्नेहवशी बुधः । प्राप्तस्तत्र प्रभुर्यत्र सामरः प्रीतिमावहन् ॥ १७ ॥ प्रीत्याभिरेभिरे सर्वे महोत्सवपुरःसरम् । प्रभुं प्रणेमुस्ते भक्त्या प्रशंसन्तोऽविशन्पुरीम् ॥ १८ ॥ जातिस्मरां स्मारयामि नित्यं स्मरसि चेद्वद । लीलया त्वाञ्च देवेशि सदा प्राणप्रिया मम ॥ १९ ॥ ब्रह्मोवाच इत्याकर्ण्य महेशस्य स्वनाथस्याथ पार्वती । शङ्करस्य प्रिया नित्यं सस्मितोवाच सा सती ॥ २० ॥
पार्वत्युवाच सर्वं स्मरामि प्राणेश मौनी भूतो भवेति च । प्रस्तावोचितमद्याशु कार्यं कुरु नमोऽस्तु ते ॥ २१ ॥ ब्रह्मोवाच इत्याकर्ण्य प्रियावाक्यं सुधाधाराशतोपमम् । मुमुदेऽतीव विश्वेशो लौकिकाचारतत्परः ॥ २२ ॥ शिवः सम्भृतसम्भारो नानावस्तुमनोहरम् । भोजयामास देवांश्च नारायणपुरोगमान् ॥ २३ ॥ तथान्यान्निखिलान्प्रीत्या स्वविवाहसमागतान् । भोजयामास सुरसमन्नं बहुविधं प्रभुः ॥ २४ ॥ ततो भुक्त्वा च ते देवा नानारत्नविभूषिताः । सस्त्रीकाः सगणाः सर्वे प्रणेमुश्चन्द्रशेखरम् ॥ २५ ॥ संस्तुत्य वाग्भिरिष्टाभिः परिक्रम्य मुदान्विताः । प्रशंसन्तो विवाहञ्च स्वधामानि ययुस्ततः ॥ २६ ॥ नारायणं मुने मां च प्रणनाम शिवःस्वयम् । लौकिकाचारमाश्रित्य यथा विष्णुश्च कश्यपम् ॥ २७ ॥ मयाश्लिष्याशिषं दत्त्वा शिवस्य पुनरग्रतः । मत्वा वै तं परं ब्रह्म चक्रे च स्तुतिरुत्तमा ॥ २८ ॥ तमामन्त्र्य मया विष्णुःसाञ्जलिः शिवयोर्मुदा । प्रशंसंस्तद्विवाहं च जगाम स्वालयं परम् ॥ २९ ॥ शिवोऽपि स्वगिरौ तस्थौ पार्वत्या विहरन् मुदा । सर्वे गणाःसुखं प्रापुरतीव स्वभजन् शिवौ ॥ ३० ॥ इत्येवं कथितस्तात शिवोद्वाहः सुमंगलः । शोकघ्नो हर्षजनक आयुष्यो धनवर्द्धनः ॥ ३१ ॥ य इमं शृणुयान्नित्यं शुचिस्तद्गतमानसः । श्रावयेद्वाथ नियमाच्छिवलोकमवाप्नुयात् ॥ ३२ ॥ इदमाख्यानमाख्यातमद्भुतं मंगलायनम् । सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् ॥ ३३ ॥ यशस्यं स्वर्ग्यमायुष्यं पुत्रपौत्रकरं परम् । सर्वकामप्रदं चेह भुक्तिदं मुक्तिदं सदा ॥ ३४ ॥ अपमृत्युप्रशमनं महाशान्तिकरं शुभम् । सर्वदुःस्वप्नप्रशमनं बुद्धिप्रज्ञादिसाधनम् ॥ ३५ ॥ शिवोत्सवेषु सर्वेषु पठितव्यम्प्रयत्नतः । शुभेप्सुभिर्जनैः प्रीत्या शिवसन्तोषकारणम् ॥ ३६ ॥ पठेत्प्रतिष्ठाकाले तु देवादीनां विशेषतः । शिवस्य सर्वकार्यस्य प्रारम्भे च सुप्रीतितः ॥ ३७ ॥ शृणुयाद्वा शुचिर्भूत्वा चरितं शिवयोः शिवम् । सिध्यन्ति सर्वकार्याणि सत्यं सत्यं न संशयः ॥ ३८ ॥ इति श्रीशिवमहापुराणे ब्रह्मनारदसंवादे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवकैलासगमनवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥ समाप्तोऽयं तृतीयः पार्वतीखण्डः ॥ ३ ॥ श्रीगौरीशंकरार्पणमस्तु |