|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
सप्तमोऽध्यायः
देवस्तुतिवर्णनम्
सनत्कुमार उवाच
एतच्छुत्वा तु सर्वेषां देवादीनां वचो हरः । अङ्गीचकार सुप्रीत्या शरण्यो भक्तवत्सलः ॥ १ ॥ एतस्मिन्नन्तरे देवी पुत्राभ्यां संयुता शिवा । आजगाम मुने तत्र यत्र देवान्वितो हरः ॥ २ ॥ अथागतां शिवां दृष्ट्वा सर्वे विष्ण्वादयो द्रुतम् । प्रणेमुरतिनम्रास्ते विस्मिता गतसम्भ्रमाः ॥ ३ ॥ प्रोचुर्जयेति सद्वाक्यं मुने सर्वे सुलक्षणम् । तूष्णीमासन्नजानन्तस्तदागमनकारणम् ॥ ४ ॥ अथ सर्वैः स्तुता देवैर्देव्यद्भुतकुतूहला । उवाच स्वामिनं प्रीत्या नानालीलाविशारदम् ॥ ५ ॥ देव्युवाच क्रीडमानं विभो पश्य षण्मुखं रविसंनिभम् । पुत्रं पुत्रवतां श्रेष्ठ भूषितं भूषणैर्वरैः ॥ ६ ॥ इत्येवं लोकमात्रा च वाग्भिःसम्बोधितः शिवः । न ययौ तृप्तिमीशानः पिबन् स्कन्दाननामृतम् ॥ ७ ॥ न सस्मारागतान् दैत्यान् निजतेजोनिपीडितान् । स्कन्दमालिङ्ग्य चाघ्राय मुमोदाति महेश्वरः ॥ ८ ॥ जगदम्बाथ तत्रैव संमन्त्र्य प्रभुणा च सा । स्थित्वा किञ्चित्समुत्तस्थौ नानालीलाविशारदा ॥ ९ ॥ ततः स नन्दी सह षण्मुखेन तया च सार्द्धं गिरिराजपुत्र्या । विवेश शम्भुर्भवनं सुलीलः सुरैः समस्तैरभिवन्द्यमानः ॥ १० ॥ द्वारस्य पार्श्वतः तस्थुर्देवदेवस्य धीमतः । तेऽथ देवा महाव्यग्रा विमनस्का मुनेऽखिलाः ॥ ११ ॥ किं कर्तव्यं क्व गन्तव्यं कः स्यादस्मत्सुखप्रदः । किं तु किन्त्विति सञ्जातं हा हताः स्मेति वादिनम् ॥ १२ ॥ अन्योन्यं प्रेक्ष्य शक्राद्या बभूवुश्चातिविह्वलाः । प्रोचुर्विकलवाक्यं ते धिक्कुर्वन्तो निजं विधिम् ॥ १३ ॥ पापा वयमिहेत्यन्ये ह्यभाग्याश्चेति चापरे । ते भाग्यवन्तो दैत्येन्द्रा इति चान्येऽब्रुवन् सुराः ॥ १४ ॥ तस्मिन्नेवान्तरे तेषां श्रुत्वा शब्दाननेकशः । कुम्भोदरो महातेजा दण्डेनाताडयत्सुरान् ॥ १५ ॥ दुद्रुवुस्ते भयाविष्टा देवा हाहेति वादिनः । अपतन्मुनयश्चान्ये विह्वलत्वं बभूव ह ॥ १६ ॥ इन्द्रस्तु विकलोऽतीव जानुभ्यामवनीं गतः । अन्ये देवर्षयोऽतीव विकलाः पतिता भुवि ॥ १७ ॥ सर्वे मिलित्वा मुनयः सुराश्च सममाकुलाः । सङ्गता विधिहर्योस्तु समीपं मित्रचेतसोः ॥ १८ ॥ अहो विधिबलं चैतन्मुनयः कश्यपादयः । वदन्ति स्म तदा सर्वे हरि लोकभयापदम् ॥ १९ ॥ अभाग्यान्न समाप्तं तु कार्यमित्यपरे द्विजाः । कस्माद्विघ्नमिदं जातमित्यन्ये ह्यति विस्मिताः ॥ २० ॥ इत्येवं वचनं श्रुत्वा कश्यपाद्युदितं मुने । आश्वासयन्मुनीन्देवान् हरिर्वाक्यमुपाददे ॥ २१ ॥ विष्णुरुवाच हे देवा मुनयःसर्वे मद्वचः शृणुतादरात् । किमर्थं दुःखमापन्ना दुखं तु त्यजताखिलम् ॥ २२ ॥
महदाराधनं देवा न सुसाध्यं विचार्यताम् । महदाराधने पूर्वं भवेद्दुःखमिति श्रुतम् ॥ विज्ञाय दृढतां देवाः प्रसन्नो भवति ध्रुवम् । २३ ॥ शिवःसर्वगणायक्षः सहसा परमेश्वरः । विचार्यतां हृदा सर्वैः कथं वश्यो भवेदिति ॥ २४ ॥ प्रणवं पूर्वमुच्चार्य्य नमः पश्चादुदाहरेत् । शिवायेति ततः पश्चाच्छुभद्वयमतः परम् ॥ २५ ॥ कुरुद्वयं ततः प्रोक्तं शिवाय च ततः पुनः । नमश्च प्रणवश्चैव मन्त्रमेवं सदा बुधाः ॥ २६ ॥ अवर्तध्वं पुनर्यूयं यदि शम्भुकृते तदा । कोटिमेकं तथा जप्त्वा शिवः कार्यं करिष्यति ॥ २७ ॥ इत्युक्ते च तदा तेन हरिणा प्रभविष्णुना । तथा देवाः पुनश्चक्रुर्हरस्याराधनं मुने ॥ २८ ॥ सञ्जजाप हरिश्चापि सविधिः शिवमानसः । देवानां कार्यसिद्ध्यर्थं मुनीनां च विशेषतः ॥ २९ ॥ मुहुः शिवेति भाषन्तो देवा धैर्यसमन्विताः । कोटिसङ्ख्यं तदा कृत्वा स्थितास्ते मुनिसत्तम ॥ ३० ॥ एतस्मिन्नन्तरे साक्षाच्छिवः प्रादुरभूत्स्वयम् । यथोक्तेन स्वरूपेण वचनं चेदमब्रवीत् ॥ ३१ ॥ श्रीशिव उवाच हे हरे हे विधे देवा मुनयश्च शुभव्रताः । प्रसन्नोऽस्मि वरं ब्रूत जयेनानेन चेप्सितम् ॥ ३२ ॥ देवा ऊचुः यदि प्रसन्नो देवेश जगदीश्वर शंकर । सुरान् विज्ञाय विकलान् हन्यन्तां त्रिपुराणि च ॥ ३३ ॥ रक्षास्मान्परमेशान दीनबन्धो कृपाकर । त्वयैव रक्षिता देवाःसदापद्भ्यो मुहुर्मुहुः ॥ ३४ ॥ सनत्कुमार उवाच इत्युक्तं वचनं तेषां श्रुत्वा सहरिवेधसाम् । विहस्यान्तस्तदा ब्रह्मन्महेशः पुनरब्रवीत् ॥ ३५ ॥ महेश उवाच हे हरे हे विधे देवा मुनयश्चाखिला वचः । मदीयं शृणुतादृत्य नष्टं मत्वा पुरत्रयम् ॥ ३६ ॥ रथं च सारथिं दिव्यं कार्मुकं शरमुत्तमम् । पूर्वमङ्गीकृतं सर्वमुपपादयताचिरम् ॥ ३७ ॥ हे विष्णो हे विधे त्वं हि त्रिलोकाधिपतिर्ध्रुवम् । सर्वसम्राट्प्रकारं मे कर्तुमर्हसि यत्नतः ॥ ३८ ॥ नष्टं पुरत्रयं मत्वा देवसाहाय्यमित्युत । करिष्यथः प्रयत्नेनाधिकृतौ सर्गपालने ॥ ३९ ॥ अयं मन्त्रो महापुण्यो मत्प्रीतिजनकः शुभः । भुक्तिमुक्तिप्रदःसर्वकामदः शैवकावहः ॥ ४० ॥ धन्यो यशस्य आयुष्यः स्वर्गकामार्थिनां नृणाम् । अपवर्गो ह्यकामानां मुक्तानां भुक्तिमुक्तिदः ॥ ४१ ॥ य इमं कीर्तयेन्मन्त्रं शुचिर्भूत्वा सदा नरः । शृणुयाच्छ्रावयेद्वापि सर्वान्कामानवाप्नुयात् ॥ ४२ ॥ सनत्कुमार उवाच इति श्रुत्वा वचस्तस्य शिवस्य परमात्मनः । सर्वे देवा मुदं प्रापुर्हरिर्ब्रह्माधिकं तथा ॥ ४३ ॥ सर्वदेवमयं दिव्यं रथं परमशोभनम् । रचयामास विश्वार्थे विश्वकर्मा तदाज्ञया ॥ ४४ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे देवस्तुतिवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥ श्रीगौरीशंकरार्पणमस्तु |