॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

एकोनपञ्चाशत्तमोऽध्यायः

विवाहसंस्कारकथनं विधिमोहवर्णनञ्च


ब्रह्मोवाच
अथो ममाज्ञया विप्रैःसंस्थाप्यानलमीश्वरः ।
होमं चकार तत्रैवमङ्‌के संस्थाप्य पार्वतीम् ॥ १ ॥
ऋग्यजुःसाममन्त्रैश्चाहुतिं वह्नौ ददौ शिवः ।
लाजाञ्जलिं ददौ कालीभ्राता मैनाकसञ्ज्ञकः ॥ २ ॥
अथ काली शिवश्चोभौ चक्रतुर्विधिवन्मुदा ।
वह्निप्रदक्षिणां तात लोकाचारं विधाय च ॥ ३ ॥
तत्राद्‌भुतमलञ्चक्रे चरितं गिरिजापतिः ।
तदेव शृणु देवर्षे तवस्नेहाद्‌ ब्रवीम्यहम् ॥ ४ ॥
तस्मिन्नवसरे चाहं शिवमायाविमोहितः ।
अपश्यं चरणे देव्या नखेन्दुं च मनोहरम् ॥ ५ ॥
दर्शनात्तस्य च तदाऽभूवं देवमुने ह्यहम् ।
मदनेन समाविष्टोऽतीव क्षुभितमानसः ॥ ६ ॥
मुहुर्मुहुरपश्यं वै तदङ्‌गं स्मरमोहितः ।
ततस्तद्दर्शनात्सद्यो वीर्यं मे प्राच्युतद्‌भुवि ॥ ७ ॥
रेतसा क्षरता तेन लज्जितोहं पितामहः ।
मुने व्यमर्द तच्छिन्नं चरणाभ्यां हि गोपयन् ॥ ८ ॥
तज्ज्ञात्वा च महादेवश्चुकोपातीव नारद ।
हन्तुमैच्छत्तदा शीघ्रं वां विधिं काममोहितम् ॥ ९ ॥
हाहाकारो महानासीत्तत्र सर्वत्र नारद ।
जनाश्च कम्पिरे सर्व्वे भय मायाति विश्वभृत् ॥ १० ॥
ततस्तं तुष्टुवुः शम्भुं विष्ण्वाद्या निर्जरा मुने ।
सकोपम्प्रज्वलन्तं च तेजसा हन्तुमुद्यतम् ॥ ११ ॥
देवा ऊचुः
देवदेव जगद्व्यापिन् परमेश सदाशिव ।
जगदीश जगन्नाथ सम्प्रसीद जगन्मय ॥ १२ ॥
सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः ।
निर्विकारोऽव्ययो नित्यो निर्विकल्पोऽक्षरः परः ॥ १३ ॥
आद्यन्तावस्य यन्मध्यमिदमन्यदहं बहिः ।
यतोऽव्ययः स नैतानि तत्सत्यम्ब्रह्म चिद्‌भवान् । १४ ॥
तवैव चरणाम्भोजं मुक्तिकामा दृढव्रताः ।
विसृज्योभयतः सङ्‌गं मुनयः समुपासते ॥ १५ ॥
त्वं ब्रह्म पूर्णममृतं विशोकं निर्गुणम्परम् ।
आनन्दमात्रमव्यग्रमविकारमनात्मकम् ॥ १६ ॥
विश्वस्य हेतुरुदयस्थितिसंयमनस्य हि ।
तदपेक्षतयात्मेशोऽनपेक्षः सर्वदा विभुः ॥ १७ ॥
एकस्त्वमेव सदसद् वयमद्वयमेव च ।
स्वर्णं कृताकृतमिव वस्तुभेदो न चैव हि ॥ १८ ॥
अज्ञानतस्त्वयि जनैर्विकल्पो विदितो यतः ।
तस्माद्‌ भ्रमप्रतीकारो निरुपाधेर्न हि स्वतः ॥ १९ ॥
धन्या वयं महेशान तव दर्शनमात्रतः ।
दृढभक्तजनानन्दप्रदः शम्भो दयां कुरु ॥ २० ॥
त्वमादिस्त्वमनादिश्च प्रकृतेस्त्वं परः पुमान् ।
विश्वेश्वरो जगन्नाथो निर्विकारः परात्परः ॥ २१ ॥
योऽयं ब्रह्मास्ति रजसा विश्वमूर्तिः पितामहः ।
त्वत्प्रसादात्प्रभो विष्णुः सत्त्वेन पुरुषोत्तमः ॥ २२ ॥
कालाग्निरुद्रस्तमसा परमात्मा गुणः परः ।
सदा शिवो महेशानःसर्वव्यापी महेश्वरः ॥ २३ ॥
व्यक्तं महच्च भूतादिस्तन्मात्राणीन्द्रियाणि च ।
त्वयैवाधिष्ठितान्येव विश्वमूर्ते महेश्वर ॥ २४ ॥
महादेव परेशान करुणाकर शंकर ।
प्रसीद देवदेवेश प्रसीद पुरुषोत्तम । २५ ॥
वासांसि सागराः सप्त दिशश्चैव महाभुजाः ।
द्यौर्मूर्धा ते विभोर्नाभिः खं वायुर्नासिका ततः ॥ २६ ॥
चक्षूंष्यग्नी रविःसोमः केशा मेघास्तव प्रभो ।
नक्षत्रतारकाद्याश्च ग्रहाश्चैव विभूषणम् ॥ २७ ॥
कथं स्तोष्यामि देवेश त्वां विभो परमेश्वर ।
वाचामगोचरोऽसि त्वं मनसा चापि शंकर ॥ २८ ॥
पञ्चास्याय च रुद्राय पञ्चाशत्कोटिमूर्तये ।
त्र्यधिपाय वरिष्ठाय विद्यातत्त्वाय ते नमः ॥ २९ ॥
अनिर्देश्याय नित्याय विद्युज्ज्वालाय रूपिणे ।
अग्निवर्णाय देवाय शंकराय नमोनमः ॥ ३० ॥
विद्युत्कोटिप्रतीकाशमष्टकोणं सुशोभनम् ।
रूपमास्थाय लोकेऽस्मिन् संस्थिताय नमो नमः ॥ ३१ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तेषां प्रसन्नः परमेश्वरः ।
ब्रह्मणो मे ददौ शीघ्रमभयं भक्तवत्सलः ॥ ३२ ॥
अथ सर्वे सुरास्तत्र विष्ण्वाद्या मुनयस्तथा ।
अभवन्सुस्मितास्तात चक्रुश्च परमोत्सवम् ॥ ३३ ॥
मम तद्‌रेतसा तात मर्दितेन मुहुर्मुहुः ।
अभवन्कणकास्तत्र भूरिशः परमोज्ज्वलाः ॥ ३४ ॥
ऋषयो बहवो जाता वालखिल्याः सहस्रशः ।
कणकैस्तैश्च वीर्यस्य प्रज्वलद्‌भिः स्वतेजसा ॥ ३५ ॥
अथ ते ऋषयःसर्वे उपतस्थुस्तदा मुने ।
ममान्तिकं परप्रीत्या तात तातेति चाब्रुवन् ॥ ३६ ॥
ईश्वरेच्छाप्रयुक्तेन प्रोक्तास्ते नारदेन हि ।
वालखिल्यास्तु ते तत्र कोपयुक्तेन चेतसा ॥ ३७ ॥
नारद उवाच
गच्छध्वं सङ्‌गता यूयं पर्वतं गन्धमादनम् ।
न स्थातव्यं भवद्‌भिश्च न हि वोऽत्र प्रयोजनम् ॥ ३८ ॥
तत्र तप्त्वा तपश्चाति भवितारो मुनीश्वराः ।
सूर्यशिष्याः शिवस्यैवाज्ञया मे कथितं त्विदम् ॥ ३९ ॥
ब्रह्मोवाच
इत्युक्तास्ते तदा सर्वे बालखिल्याश्च पर्वतम् ।
सत्वरं प्रययुर्नत्वा शंकरं गन्धमादनम् ॥ ४० ॥
विष्ण्वादिभिस्तदाभूवं श्वासितोऽहं मुनीश्वर ।
निर्भयः परमेशानप्रेरितैस्तैर्महात्मभिः ॥ ४१ ॥
अस्तवं चापि सर्वेशं शंकरं भक्तवत्सलम् ।
सर्वकार्यकरं ज्ञात्वा दुष्टगर्वापहारकम् ॥ ४२ ॥
देवदेव महादेव करुणासागर प्रभो ।
त्वमेव कर्ता सर्वस्य भर्ता हर्त्ता च सर्वथा ॥ ४३ ॥
त्वदिच्छया हि सकलं स्थितं हि सचराचरम् ।
तन्त्यां यथा बलीवर्दा मया ज्ञातं विशेषतः ॥ ४४ ॥
इत्येवमुक्त्वा सोऽहं वै प्रणामं च कृताञ्जलिः ।
अन्येऽपि तुष्टुवुः सर्वे विष्ण्वाद्यास्तं महेश्वरम् ॥ ४५ ॥
अथाकर्ण्य नुतिं शुद्धां मम दीनतया तदा ।
विष्ण्वादीनाञ्च सर्वेषां प्रसन्नोऽभून्महेश्वरः ॥ ४६ ॥
ददौ सोऽतिवरं मह्यमभयं प्रीतमानसः ।
सर्वे सुखमतीवापुरत्यामोदमहं मुने ॥ ४७ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे विधिमोहवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP