|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
अष्टचत्वारिंशोऽध्यायः
शिवाशिवयोर्विवाहविधिकथनम्
ब्रह्मोवाच
एतस्मिन्नन्तरे तत्र गर्गाचार्यप्रणोदितः । हिमवानमेनया सार्धं कन्या दातुं प्रचक्रमे ॥ १ ॥ हैमं कलशमादाय मेना चार्धाङ्गमाश्रिता । हिमाद्रेश्च महाभागा वस्त्राभरणभूषिता ॥ २ ॥ पाद्यादिभिस्ततः शैलः प्रहृष्टः स्वपुरोहितः । तं वरं वरयामास वस्त्रचन्दनभूषणैः ॥ ३ ॥ ततो हिमाद्रिणा प्रोक्ता द्विजास्तिथ्यादिकीर्तने । प्रयोगो भण्यतां तावदस्मिन्समय आगते ॥ ४ ॥ तथेति चोक्त्वा ते सर्वे कालज्ञा द्विजसत्तमाः । तिथ्यादिकीर्तनं चक्रुः प्रीत्या परमनिर्वृताः ॥ ५ ॥ ततो हिमाचलः प्रीत्या शम्भुना प्रेरितो हृदा । सूतीकृतपरेशेन विहसन् शम्भुमब्रवीत् ॥ ६ ॥ स्वगोत्रं कथ्यतां शम्भो प्रवरश्च कुलं तथा । नाम वेदं तथा शाखां मा कार्षीत्समयात्ययम् ॥ ७ ॥ ब्रह्मोवाच इत्याकर्ण्य वचस्तस्य हिमाद्रेः शंकरस्तदा । सुमुखाविमुखः सद्योऽप्यशोच्यः शोच्यतां गतः ॥ ८ ॥ एवंविधःसुरवरैर्मुनिभिस्तदानीं गन्धर्वयक्षगणसिद्धगणैस्तथैव । दृष्टो निरुत्तरमुखो भगवान्महेशोऽ- कार्षीःसुहास्यमथ तत्र स नारद त्वम् ॥ ९ ॥ वीणामवादयस्त्वं हि ब्रह्मविज्ञोऽथ नारद । शिवेन प्रेरितस्तत्र मनसा शंभुमानसः ॥ १० ॥ तदा निवारितो धीमान् पर्वतेन्द्रेण वै हठात् । विष्णुना च मया देवैर्मुनिभिश्चाखिलैस्तथा ॥ ११ ॥ न निवृत्तोऽभवस्त्वं हि स यदा शंकरेच्छया । इति प्रोक्तोऽद्रिणा तर्हि वीणां मा वादयाधुना ॥ १२ ॥ सुनिषिद्धो हठात्तेन देवर्षे त्वं यदा बुध । प्रत्यवोचो गिरीशं तं सुसंस्मृत्य महेश्वरम् ॥ १३ ॥ नारद उवाच त्वं हि मूढत्वमापन्नो न जानासि च किञ्चन । वाच्ये महेशविषयेऽतीवासि त्वं बहिर्मुखः ॥ १४ ॥ त्वया पृष्ठो हरः साक्षात्स्वगोत्रकथनं प्रति । समयेऽस्मिंस्तदत्यन्तमुपहासकरं वचः ॥ १५ ॥ अस्य गोत्रं कुलं नाम नैव जानन्ति पर्वत । विष्णुब्रह्मादयोऽपीह परेषां का कथा स्मृता ॥ १६ ॥ यस्यैकदिवसे शैल ब्रह्मकोटिर्लयं गता । स एव शंकरस्तेद्य दृष्टः कालीतपोबलात ॥ १७ ॥ अरूपोऽयं परब्रह्म निर्गुणः प्रकृतेः परः । निराकारो निर्विकारो मायाधीशः परात्परः ॥ १८ ॥ अगोत्रकुलनामा हि स्वतन्त्रो भक्तवत्सलः । तदिच्छया हि सगुणः सुतनुर्बहुनामभृत् ॥ १९ ॥ सुगोत्री गोत्रहीनश्च कुलहीनः कुलीनकः । पार्वतीतपसा सोऽद्य जामाता ते न संशयः ॥ २० ॥ लीलाविहारिणा तेन मोहितं च चराचरम् । नो जानाति शिवं कोऽपि प्राज्ञोऽपि गिरिसत्तम ॥ २१ ॥ लिङ्गाकृतेर्महेशस्य केन दृष्टं न मस्तकम् । विष्णुर्गत्वा हि पातालं तदैनं नापविस्मितः ॥ २२ ॥ किं बहूक्त्या नगश्रेष्ठ शिवमाया दुरत्यया । तदधीनास्त्रयो लोका हरिब्रह्मादयोऽपि च ॥ २३ ॥ तस्मात्त्वया शिवा तात सुविचार्य प्रयत्नतः । न कर्तव्यो विमर्शोऽत्र त्वेवंविधवरे मनाक् ॥ २४ ॥ ब्रह्मोवाच इत्युक्त्वा त्वं मुने ज्ञानी शिवेच्छाकार्यकारकः । प्रत्यवोचः पुनस्तं वै शैलेद्रं हर्षयन् गिरा ॥ २५ ॥ नारद उवाच शृणु तात महाशैल शिवाजनक मद्वचः । तच्छ्रुत्वा तनयां देवीं देहि त्वं शंकराय हि ॥ २६ ॥ सगुणस्य महेशस्य लीलया रूपधारिणः । गोत्रं कुलं विजानीहि नादमेव हि केवलम् ॥ २७ ॥ शिवो नादमयः सत्त्यं नादः शिवमयस्तथा । उभयोरन्तरं नास्ति नादस्य च शिवस्य च ॥ २८ ॥
सृष्टौ प्रथमजत्वाद्धि लीलासगुणरूपिणः । शिवान्नादस्य शैलेन्द्र सर्वोत्कृष्टस्ततः स हि ॥ २९ ॥ अतो हि वादिता वीणा प्रेरितेन मयाद्य वै । सर्वेश्वरेण मनसा शंकरेण हिमालय ॥ ३० ॥ ब्रह्मोवाच एतच्छ्रुत्वा तव मुने वचस्तत्तु गिरिश्वरः । हिमाद्रिस्तोषमापन्नो गतविस्मयमानसः ॥ ३१ ॥ अथ विष्णुप्रभृतयःसुराश्च मुनयस्तथा । साधुसाध्विति ते सर्वे प्रोचुर्विगतविस्मयाः ॥ ३२ ॥ महेश्वरस्य गाम्भीर्यं ज्ञात्वा सर्वे विचक्षणाः । सविस्मया महामोदान्विताः प्रोचुः परस्परम् ॥ ३३ ॥ यस्याज्ञया जगदिदं च विशालमेव जातं परात्परतरो निजबोधरूपः । शर्वः स्वतन्त्रगतिकृत्परभावगम्यः सोऽसौ त्रिलोकपतिरद्य च नः सुदृष्टः ॥ ३४ ॥ अथ ते पर्वतश्रेष्ठा मेर्वाद्या जातसम्भ्रमाः । ऊचुस्ते चैकपद्येन हिमवन्तं नगेश्वरम् ॥ ३५ ॥ पर्वता ऊचुः कन्यादाने स्थीयतां चाद्य शैल- नाथोक्त्या किं कार्यनाशस्तवैव । सत्यं ब्रूमो नात्र कार्यो विमर्शः तस्मात्कन्या दीयतामीश्वराय ॥ ३६ ॥ ब्रह्मो वाच तच्छ्रुत्वा वचनं तेषां सुहृदां स हिमालयः । स्वकन्यादानमकरोच्छिवाय विधिनोदितः ॥ ३७ ॥ इमां कन्यां तुभ्यमहं ददामि परमेश्वर । भार्यार्थे परिगृह्णीष्व प्रसीद सकलेश्वर ॥ ३८ ॥ तस्मै रुद्राय महते मन्त्रेणानेन दत्तवान् । हिमाचलो निजां कन्यां पार्वतीं त्रिजगत्प्रसूम् ॥ ३९ ॥ इत्थं शिवाकरं शैलं शिवहस्ते निधाय च । मुमोदातीव मनसि तीर्णकाममहार्णवः ॥ ४० ॥ वेदमन्त्रेण गिरिशो गिरिजाकरपङ्कजम् । जग्राह स्वकरेणाशु प्रसन्नः परमेश्वरः ॥ ४१ ॥ क्षितिं संस्पृश्य कामस्य कोऽदादिति मनुं मुने । पपाठ शंकरः प्रीत्या दर्शयँल्लौकिकीं गतिम् ॥ ४२ ॥ महोत्सवो महानासीत्सर्वत्र प्रमुदावहः । बभूव जयसंरावो दिवि भूम्यन्तरिक्षके ॥ ४३ ॥ साधुशब्दं नमः शब्दं चक्रुःसर्वेऽतिहर्षिताः । गन्धर्वाःसुजगुः प्रीत्या ननृतुश्चाप्सरोगणाः ॥ ४४ ॥ हिमाचलस्य पौरा हि मुमुदुश्चाति चेतसि । मंगलं महदासीद्वै महोत्सवपुरःसरम् ॥ ४५ ॥ अहं विष्णुश्च शक्रश्च निर्जरा मुनयोऽखिलाः । हर्षिता ह्यभवंश्चाति प्रफुल्लवदनाम्बुजाः ॥ ४६ ॥ अथ शैलवरःसोदात्सुप्रसन्नो हिमाचलः । शिवाय कन्यादानस्य साङ्गतां सुयथोचिताम् ॥ ४७ ॥ ततो वन्धुजनास्तस्य शिवां सम्पूज्य भक्तितः । ददुः शिवाय सद्द्रव्यं नानाविधिविधानतः ॥ ४८ ॥ हिमालयस्तुष्टमनाः पार्वतीशिवप्रीतये । नानाविधानि द्रव्याणि ददौ तत्र मुनीश्वर ॥ ४९ ॥ कौतुकानि ददौ तस्मै रत्नानि विविधानि च । चारुरत्नविकाराणि पात्राणि विविधानि च ॥ ५० ॥ गवां लक्षं हयानां च सज्जितानां शतं तथा । दासीनामनुरक्तानां लक्षं सद्द्रव्यभूषितम् ॥ ५१ ॥ नागानां शतलक्षं हि रथानां च तथा मुने । सुवर्णजटितानां च रत्नसारविनिर्मितम् ॥ ५२ ॥ इत्थं हिमालयो दत्त्वा स्वसुतां गिरिजां शिवाम् । शिवाय परमेशाय विधिनाप कृतार्थताम् ॥ ५३ ॥ अथ शैलवरो माध्यन्दिनोक्तस्तोत्रतो मुदा । तुष्टाव परमेशानं सद्गिरा सुकृताञ्जलिः ॥ ५४ ॥ ततो वेदविदा तेनाज्ञप्ता मुनिगणास्तदा । शिरोऽभिषेकं चक्रुस्ते शिवायाः परमोत्सवाः ॥ ५५ ॥ देवाभिधानमुच्चार्य पर्यक्षणविधिं व्यधुः । महोत्सवस्तदा चासीन्महानन्दकरो मुने ॥ ५६ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कन्यादानवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥ श्रीगौरीशंकरार्पणमस्तु |