॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

सप्तचत्वारिंशोऽध्यायः

शिवस्यहिमगिरिगृहाभ्यन्तरगमनोत्सववर्णनम्


ब्रह्मोवाच
ततः शैलवरः सोपि प्रीत्या दुर्गोपवीतकम् ।
कारयामास सोत्साहं वेदमन्त्रैः शिवस्य च ॥ १ ॥
अथ विष्ण्वादयो देवा मुनयःसकुतू हलम् ।
हिमाचलप्रार्थनया विवेशान्तर्गृहं गिरेः ॥ २ ॥
श्रुत्याचारं भवाचारं विधाय च यथार्थतः ।
शिवामलङ्‌कृतां चक्रुः शिवदत्तविभूषणैः ॥ ३ ॥
प्रथमं स्नापयित्वा तां भूषयित्वाथ सर्वशः ।
नीराजिता सखीभिश्च विप्रपत्नीभिरेव च ॥ ४ ॥
अहताम्बरयुग्मेन शोभिता वरवर्णिनी ।
विरराज महाशैलदुहिता शङ्करप्रिया ॥ ५ ॥
कञ्चुकी परमा दिव्या नानारत्नान्विताद्‌भुता ।
विधृता च तया देव्या विलसन्त्याधिकं मुने ॥ ६ ॥
सा बभार तथा हारं दिव्यरत्नसमन्वितम् ।
वलयानि महार्हाणि शुद्धचामीकराणि च ॥ ७ ॥
स्थिता तत्रैव सुभगा ध्यायन्ती मनसा शिवम् ।
शुशुभेति महाशैलकन्यका त्रिजगत्प्रसूः ॥ ८ ॥
तदोत्सवो महानासीदुभयत्र मुदा वहः ।
दानं बभूव विविधं ब्राह्मणेभ्यो विवर्णितम् ॥ ९ ॥
अन्येषां द्रव्यदानं च बभूव विविधं महत् ।
गीतवाद्यविनोदश्च तत्रोत्सवपुरःसरम् ॥ १० ॥
अथ विष्णुरहं धाता शक्राद्या अमरास्तथा ।
मुनयश्च महाप्रीत्या निखिलाःसोत्सवा मुदा ॥ ११ ॥
सुप्रणम्य शिवां भक्त्या स्मृत्वा शिवपदाम्बुजम् ।
सम्प्राप्य हिमगिर्याज्ञां स्वं स्वं स्थाने समाश्रिताः ॥ १२ ॥
एतस्मिन्नन्तरे तत्र ज्योतिःशास्त्र विशारदः ।
हिमवन्तं गिरीन्द्रं तं गर्गो वाक्यमभाषत ॥ १३ ॥
गर्ग उवाच
हिमाचल धराधीश स्वामिन् कालीपतिः प्रभो ।
पाणिग्रहार्थं शम्भुं चानय त्वं निजमन्दिरम् ॥ १४ ॥
ब्रह्मोवाच
अथ तं समयं ज्ञात्वा कन्यादानोचितं गिरिः ।
निवेदितं च गर्गेण मुमुदेऽतीव चेतसि ॥ १५ ॥
महीधरान्द्विजांश्चैव परानपि मुदा गिरिः ।
प्रेषयामास सुप्रीत्या शिवानयनकाम्यया ॥ १६ ॥
ते पर्वता द्विजाश्चैव सर्वमंगलपाणयः ।
सञ्जग्मुः सोत्सवाः प्रीत्या यत्र देवो महेश्वरः ॥ १७ ॥
तदा वादित्रघोषेण ब्रह्मघोषेण भूयसा ।
महोत्साहोऽभवत्तत्र गीतनृत्यान्वितेन हि ॥ १८ ॥
श्रुत्वा वादित्रनिर्घोषं सर्वे शंकरसेवकाः ।
उत्थितास्त्वैकपद्येन सदेवर्षिगणा मुदा ॥ १९ ॥
परस्परं समूचुस्ते हर्षनिर्भरमानसाः ।
अत्रागच्छन्ति गिरयः शिवानयनकाम्यया ॥ २० ॥
पाणिग्रहणकालो हि नूनं सद्यः समागतः ।
महद्‌भाग्यं हि सर्वेषां सम्प्राप्तमहि मन्महे ॥ २१ ॥
धन्या वयं विशेषेण विवाहं शिवयोर्ध्रुवम् ।
द्रक्ष्यामः परमप्रीत्या जगतां मंगलालयम् ॥ २२ ॥
ब्रह्मोवाच
एवं यावदभूत्तेषां संवादस्तत्र चादरात् ।
तावत्सर्वे समायाताः पर्वतेन्द्रस्य मन्त्रिणः ॥ २३ ॥
ते गत्वा प्रार्थयाञ्चक्रुः शिव विष्ण्वादिकानपि ।
कन्यादानोचितः कालो वर्तते गम्यतामिति ॥ २४ ॥
ते तच्छ्रुत्वा सुराःसर्वे मुने विष्ण्वादयोऽखिलाः ।
मुमुदुश्चेतसातीव जयेत्यूचुर्गिरिं द्रुतम् ॥ २५ ॥
शिवोऽपि मुमुदेऽतीव कालीप्रापणलालसः ।
गुप्तं चकार तच्चिह्नं मनस्येवाद्‌भुताकृतिः ॥ २६ ॥
अथ स्नानं कृतं तेन मंगलद्रव्यसंयुतम् ।
शूलिना सुप्रसन्नेन लोकानुग्रहकारिणा ॥ २७ ॥
स्नातः सुवाससा युक्तःसर्वैस्तैः परिवारितः ।
आरोपितो वृषस्कन्धे लोकपालैः सुसेवितः ॥ २८ ॥
पुरस्कृत्य प्रभुं सर्वे जग्मुर्हिमगिरेर्गृहम् ।
वाद्यानि वादयन्तश्च कृतवन्तः कुतूहलम् ॥ २९ ॥
हिमागप्रेषिता विप्रास्तथा ते पर्वतोत्तमाः ।
शम्भोरग्रचरा ह्यासन्कुतूहलसमन्विताः ॥ ३० ॥
बभौ छत्रेण महता ध्रियमाणो हि मूर्द्धनि ।
चामरैर्वीज्यमानोऽसौ सवितानो महेश्वरः ॥ ३१ ॥
अहं विष्णुस्तथा चेन्द्रो लोकपाला स्तथैव च ।
अग्रगाः स्मातिशोभन्ते श्रिया परमया श्रिताः ॥ ३२ ॥
ततः शङ्खाश्च भेर्यश्च पटहानकगोमुखाः ।
पुनः पुनरवाद्यन्त वादित्राणि महोत्सवे ॥ ३३ ॥
तथैव गायकाः सर्वे जगुः परममंगलम् ।
नर्तक्यो ननृतुः सर्वा नानातालसमन्विताः ॥ ३४ ॥
एभिःसमेतो जगदेकबन्धु-
     र्ययौ तदानीं परमेशवर्चसा ।
सुसेव्यमानःसकलैःसुरेश्वरै-
     र्विकीर्यमाणः कुसुमैश्च हर्षितैः ॥ ३५ ॥
सम्पूजितस्तदा शम्भुः प्रविष्टो यज्ञमण्डपम् ।
संस्तूयमानो बह्वीभिः स्तुतिभिः परमेश्वरः ॥ ३६ ॥
वृषादुत्तारयामासुर्महेशं पर्वतोत्तमाः ।
निन्युर्गृहान्तरं प्रीत्या महोत्सवपुरःसरम् ॥ ३७ ॥
हिमालयोऽपि सम्प्राप्तं सदेवगणमीश्वरम् ।
प्रणम्य विधिवद्‌भक्त्या नीराजनमथाकरोत् ॥ ३८ ॥
सर्वान्सुरान्मुनीनन्यान् प्रणम्य समहोत्सवः ।
सम्मानमकरोत्तेषां प्रशंसन्स्वविधिं मुदा ॥ ३९ ॥
सोऽगःसाच्युतमीशानं सुपाद्यार्घ्यपुरःसरम् ।
सदेवमुख्यवर्गं च निनाय स्वालयान्तरम् ॥ ४० ॥
प्राङ्‌गणे स्थापयामास रत्नसिंहासनेषु तान् ।
सर्वान्विष्णु च मामीशं विशिष्टांश्च विशेषतः ॥ ४१ ॥
सखीभिर्मेनया प्रीत्या ब्राह्मणस्त्रीभिरेव च ।
अन्याभिश्च पुरन्ध्रीभिश्चक्रे नीराजनं मुदा ॥ ४२ ॥
पुरोधसा कृत्यविदा शंकराय महात्मने ।
मधुपर्कादिकं यद्यत्कृत्यं तत्तत्कृतं मुदा ॥ ४३ ॥
मया स नोदितस्तत्र पुरोधाः कृतवांस्तदा ।
सुमंगलं च यत्कर्म प्रस्तावसदृशं मुने ॥ ४४ ॥
अन्तर्वेद्यां महाप्रीत्या सम्प्रविश्य हिमाद्रिणा ।
यत्र सा पार्वती कन्या सर्वाभरणभूषिता ॥ ४५ ॥
वेदिकोपरि तन्वङ्‌गी संस्थिता सुविराजिता ।
तत्र नीतो महादेवो विष्णुना च मया सह ॥ ४६ ॥
लग्नन्निरीक्षमाणास्ते वाचस्पतिपुरोगमाः ।
कन्यादानोचितं तत्र बभूवुः परमोत्सवाः ॥ ४७ ॥
तत्रोपविष्टो गर्गश्च यत्रास्ति घटिकालयम् ।
यावच्छेषा घटी तावत्कृतं प्रणवभाषणम् ॥ ४८ ॥
पुण्याहं प्रवदन्गर्गः समादध्रेऽञ्जलिं मुदा ।
पार्वत्यक्षतपूर्णं च ववृषे च शिवोपरि ॥ ४९ ॥
तया सम्पूजितो रुद्रो दध्यक्षतकुशाम्बुभिः ।
परमोदारया तत्र पार्वत्या रुचिरास्यया ॥ ५० ॥
विलोकयन्ती तं शम्भुं यस्यार्थे परमं तपः ।
कृतम्पुरा महाप्रीत्या विरराज शिवाति सा ॥ ५१ ॥
मया मुने तदोक्तस्तु गर्गादिमुनिभिश्च सः ।
समानर्च शिवां शम्भुः लौकिकाचारसंरतः ॥ ५२ ॥
एवं परस्परं तौ वै पार्वतीपरमेश्वरौ ।
अर्चयन्तौ तदानीं च शुशुभाते जगन्मयौ ॥ ५३ ॥
त्रैलोक्यलक्ष्म्या संवीतौ निरीक्षन्तौ परस्परम् ।
तदा नीराजितौ लक्ष्म्यादिभिः स्त्रीभिर्विशेषतः ॥ ५४ ॥
तथा परा वै द्विजयोषितश्च
     नीराजयामासुरथो पुरस्त्रियः ।
शिवां च शम्भुञ्च विलोकयन्त्योऽ-
     वापुर्मुदं ताःसकला महोत्सवम् ॥ ५५ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे
शिव हिमगिरिगृहाभ्यन्तरगमनोत्सववर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP