॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

षट्चत्शरिंशोऽध्यायः

मण्डपद्वारे वरागमनवर्णनम्


ब्रह्मोवाच
अथ शंभुः प्रसन्नात्मा सदूतं स्वगणैःसुरैः ।
सर्वैरन्यैर्गिरेर्द्धाम जगाम सकुतूहलम् ॥ १ ॥
मेनापि स्त्रीगणैस्तैश्च हिमाचलवरप्रिया ।
तत उत्थाय स्वगृहाभ्यन्तरं सा जगाम ह ॥ २ ॥
नीराजनार्थं शम्भोश्च दीपपात्रकरा सती ।
सर्वर्षिस्त्रीगणैःसाकमगच्छद् द्वारमादरात् ॥ ३ ॥
तत्रागतं महेशानं शंकरं गिरिजावरम् ।
ददर्श प्रीतितो मेना सेवितं सकलैः सुरैः ॥ ४ ॥
चारुचम्पकवर्णाभं ह्येकवक्त्रं त्रिलोचनम् ।
ईषद्धास्यप्रसन्नास्यं रत्नस्वर्णादिभूषितम् ॥ ५ ॥
मालतीमालया युक्तं सद्‌रत्नमुकुटोज्ज्वलम् ।
सत्कण्ठाभरणं चारुवलयाङ्‌गदभूषितम् ॥ ६ ॥
वह्निशौचेनातुलेन त्वतिसूक्ष्मेण चारुणा ।
अमूल्यवस्त्रयुग्मेन विचित्रेणातिराजितम् ॥ ७ ॥
चन्दनागरुकस्तूरीचारुकुङ्‌कुमभूषितम् ।
रत्नदर्पणहस्तं च कज्जलोज्ज्वललोचनम् ॥ ८ ॥
सर्वस्वप्रभयाच्छन्नमतीवसुमनोहरम् ।
अतीव तरुणं रम्यं भूषिताङ्‌गैश्च भूषितम् ॥ ९ ॥
कामिनीकान्तमव्यग्रं कोटिचन्द्राननाम्बुजम् ।
कोटिस्मराधिकतनुच्छविं सर्वाङ्‌गसुन्दरम् ॥ १० ॥
ईदृग्विधं सुदेवं तं स्थितं स्वपुरतः प्रभुम् ।
दृष्ट्‍वा जामातरं मेना जहौ शोकं मुदाऽन्विता ॥ ११ ॥
प्रशशंस स्वभाग्यं सा गिरिजां भूधरं कुलम् ।
मेने कृतार्थमात्मानं जहर्ष च पुनः पुनः ॥ १२ ॥
नीराजनं चकारासौ प्रफुल्लवदना सती ।
अवलोकपरा तत्र मेना जामातरं मुदा ॥ १३ ॥
गिरिजोक्तमनुस्मृत्य मेना विस्मयमागता ।
मनसैव ह्युवाचेदं हर्षफुल्लाननाम्बुजा ॥ १४ ॥
यद्वै पुरोक्तं च तया पार्वत्या मम तत्र च ।
ततोधिकं प्रपश्यामि सौन्दर्यं परमेशितुः ॥ १५ ॥
महेशस्य सुलावण्यमनिर्वाच्यं च सम्प्रति ।
एवं विस्मयमापन्ना मेना स्वगृहमाययौ ॥ १६ ॥
प्रशशंसुर्युवतयो धन्या धन्या गिरेः सुता ।
दुर्गा भगवतीत्येवमूचुः काश्चन कन्यकाः ॥ १७ ॥
न दृष्टो वर इत्येवमस्माभिर्दानगोचरः ।
धन्या हि गिरिजादेवीमूचुः काश्चन कन्यकाः ॥ १८ ॥
जगुर्गन्धर्वप्रवरा ननृतुश्चाप्सरोगणाः ।
दृष्ट्‍वा शंकररूपं च प्रहृष्टाः सर्वदेवताः ॥ १९ ॥
नानाप्रकारवाद्यानि वादका मधुराक्षरम् ।
नानाप्रकारशिल्पेन वादयामासुरादरात् ॥ २० ॥
हिमाचलोऽपि मुदितो द्वाराचारमथाकरोत् ।
मेनापि सर्वनारीभिर्महोत्सवपुरःसरम् ॥ २१ ॥
परपुच्छां चकारासौ मुदिता स्वगृहं ययौ ।
शिवो निवेदितं स्थानं जगाम गणनिर्जरैः ॥ २२ ॥
एतस्मिन्नन्तरे दुर्गां शैलान्तःपुरचारिका ।
बहिर्जग्मुःसमादाय पूजितुं कुलदेवताम् ॥ २३ ॥
तत्र तां ददृशुर्देवा निमेषरहिता मुदा ।
सुनीलाञ्जनवर्णाभां स्वाङ्‌गैश्च प्रतिभूषिताम् ॥ २४ ॥
त्रिनेत्रादृतनेत्रां तामन्यवारितलोचनाम् ।
ईषद्धास्यप्रसन्नास्यां सकटाक्षां मनोहराम् ॥ २५ ॥
सुचारुकबरीभारां चारुपत्रक शोभिताम् ।
कस्तूरीबिन्दुभिःसार्द्धं सिन्दूरबिन्दुशोभिताम् ॥ २६ ॥
रत्नेन्द्रसारहारेण वक्षसा सुविराजिताम् ।
रत्नकेयूरवलयां रत्नकङ्कणमण्डिताम् ॥ २७ ॥
सद्‌रत्नकुण्डलाभ्यां च चारुगण्डस्थलोज्ज्वलाम् ।
मणिरत्नप्रभामुष्टिदन्तराजिविराजिताम् ॥ २८ ॥
मधुबिम्बाधरोष्ठां च रत्नयावकसंयुताम् ।
रत्नदर्पणहस्तां च क्रीडापद्मविभूषिताम् ॥ २९ ॥
चन्दनागुरुकस्तूरीकुङ्‌कुमेनाति चर्चिताम् ।
क्वणन्मञ्जीरपादां च रक्ताङ्‌घ्रितलराजिताम् ॥ ३० ॥
प्रणेमुः शिरसा देवीं भक्तियुक्ताः समेनकाम् ।
सर्वे सुरादयो दृष्ट्‍वा जगदाद्यां जगत्प्रसूम् ॥ ३१ ॥
त्रिनेत्रो नेत्रकोणेन तां ददर्श मुदान्वितः ।
शिवः सत्याकृतिं दृष्ट्‍वा विजहौ विरहज्वरम् ॥ ३२ ॥
शिवः सर्वं विसस्मार शिवासंन्यस्तलोचनः ।
पुलकाञ्चितसर्वाङ्‌गो हर्षाद्‌गौरीविलोचनः ॥ ३३ ॥
अथ काली बहिः पुर्यां गत्वा पूज्य कुलाम्बिकाम् ।
विवेश भवनं रम्यं स्वपितुःसद्विजाङ्‌गना ॥ ३४ ॥
शङ्करोपि सुरैः सार्द्धं हरिणा ब्राह्मणा तथा ।
हिमाचलसमुद्दिष्टं स्वस्थानमगमन्मुदा ॥ ३५ ॥
तत्र सर्वे सुखं तस्थुः सेवन्तः शङ्करं यथा ।
सम्मानिता गिरीशेन नानाविधसुसम्पदा ॥ ३६ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे वरागमादिवर्णनं नाम षट्चत्शरिंशोऽध्यायः ॥ ४६ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP