॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

पञ्चचत्वारिंशोऽध्यायः

दिव्यस्वरूपेण शिवाविर्भावस्थितिवर्णनम्


ब्रह्मोवाच
एतस्मिन्नन्तरे त्वं हि विष्णुना प्रेरितो द्रुतम् ।
अनुकूलयितुं शम्भुमयास्तन्निकटे मुने ॥ १ ॥
तत्र गत्वा स वै रुद्रो भवता सुप्रबोधितः ।
स्तोत्रैर्नानाविधैः स्तुत्वा देवकार्यचिकीर्षया ॥ २ ॥
श्रुत्वा त्वद्वचनं प्रीत्या शम्भुना धृतमद्‌भुतम् ।
स्वरूपमुत्तमं दिव्यं कृपालुत्वं च दर्शितम् ॥ ३ ॥
तद्दृष्ट्‍वा सुन्दरं शम्भुं स्वरूपं मन्मथाधिकम् ।
अत्यहृष्यो मुने त्वं हि लावण्यपरमायनम् ॥ ४ ॥
स्तोत्रैर्नानाविधैः स्तुत्वा परमानन्दसंयुतः ।
आगच्छस्त्वं मुने तत्र यत्र मेना स्थिताखिलैः ॥ ५ ॥
तत्रागत्य सुप्रसन्नो मुनेऽतिप्रेमसङ्‌कुलः ।
हर्षयंस्तां शैलपत्नी मेनां त्वं वाक्यमब्रवीः। ॥ ६ ॥
नारद उवाच
मेने पश्य विशालाक्षि शिवरूपमनुत्तमम् ।
कृता शिवेन तेनैव सुकृपा करुणात्मना ॥ ७ ॥
ब्रह्मोवाच
श्रुत्वा सा तद्वचो मेना विस्मिता शैलकामिनी ।
ददर्श शिवरूपं तत्परमानन्ददायकम् ॥ ८ ॥
कोटिसूर्यप्रतीकाशं सर्वावयवसुन्दरम् ।
विचित्रवसनं चात्र नानाभूषणभूषितम् ॥ ९ ॥
सुप्रसन्नं सुहासं च सुलावण्यं मनोहरम् ।
गौराभं द्युतिसंयुक्तं चन्द्ररेखाविभूषितम् ॥ १० ॥
सर्वैर्देवगणैः प्रीत्या विष्ण्वाद्यैः सेवितं तथा ।
सूर्येण च्छत्रितं मूर्ध्नि चन्द्रेण च विशोभितम् ॥ ११ ॥
सर्वथा रमणीयं च भूषितस्य विभूषणैः ।
वाहनस्य महाशोभा वर्णितुं नैव शक्यते ॥ १२ ॥
गङ्‌गा च यमुना चैव विधत्तः स्म सुचामरे ।
सिद्धयोऽष्टौ पुरस्तस्य कुर्वन्ति स्म सुनर्तनम् ॥ १३ ॥
मया चैव तदा विष्णुरिन्द्राद्या ह्यमरास्तथा ।
स्वं स्वं वेषं सुसम्भूष्य गिरिशेनाचरन्युताः ॥ १४ ॥
तथा जयेति भाषन्तो नानारूपा गणास्तदा ।
स्वलङ्कृतमहामोदा गिरीशपुरतोऽचरन् ॥ १५ ॥
सिद्धाश्चोपसुराः सर्वे मुनयश्च महासुखाः ।
ययुः शिवेन सुप्रीताः सकलाश्चापरे तथा ॥ १६ ॥
एवं देवादयः सर्वे कुतूहलसमन्विताः ।
परम्ब्रह्म गृणन्तस्ते स्वपत्नीभिरलङ्‌कृताः ॥ १७ ॥
विश्वावसुमुखास्तत्र ह्यप्सरोगणसंयुताः ।
गायन्तोऽप्यग्रतस्तस्य परमं शाङ्करं यशः ॥ १८ ॥
इत्थं महोत्सवस्तत्र बभूव मुनिसत्तम ।
नानाविधो महेशे हि शैलद्वारि च गच्छति ॥ १९ ॥
तस्मिंश्च समये तत्र सुषमा या परात्मनः ।
वर्णितुं तां विशेषेण कः शक्नोति मुनीश्वर ॥ २० ॥
तथाविधं च तन्दृष्ट्‍वा मेना चित्रगता इव ।
क्षणमासीत्ततः प्रीत्या प्रोवाच वचनं मुने ॥ २१ ॥
मेनोवाच
धन्या पुत्री मदीया च यया तप्तं महत्तपः ।
यत्प्रभावान्महेशान त्वं प्राप्त इह मद्‌गृहे ॥ २२ ॥
मया कृता पुरा या वै शिवनिन्दा दुरत्यया ।
तां क्षमस्व शिवास्वामिन्सुप्रसन्नो भवाधुना ॥ २३ ॥
ब्रह्मोवाच
इत्थं सम्भाष्य सा मेना संस्तूयेन्दुललाटकम् ।
साञ्जलिः प्रणता शैलप्रिया लज्जापराऽभवत् ॥ २४ ॥
तावत्स्त्रियः समाजग्मुर्हित्वा कामाननेकशः ।
बह्व्यस्ताः पुरवासिन्यः शिवदर्शनलालसाः ॥ २५ ॥
मज्जनं कुर्वती काचित्तच्चूर्णसहिता ययौ ।
द्रष्टुं कुतूहलाढ्या च शङ्करं गिरिजावरम् ॥ २६ ॥
काचित्तु स्वामिनःसेवां सखीयुक्ता विहाय च ।
सुचामरकरा प्रीत्यागाच्छम्भोर्दर्शनाय वै ॥ २७ ॥
काचित्तु बालकं हित्वा पिबन्तं स्तन्यमादरात् ।
अतृप्तं शङ्करं द्रष्टुं ययौ दर्शनलालसा ॥ २८ ॥
रशनां बध्नती काचित्तयैव सहिता ययौ ।
वसनं विपरीतं वै धृत्वा काचिद्ययौ ततः ॥ २९ ॥
भोजनार्थं स्थितं कान्तं हित्वा काचिद्ययौ प्रिया ।
द्रष्टुं शिवावरं प्रीत्या सतृष्णा सकुतूहला ॥ ३० ॥
काचिद्धस्ते शलाकां च धृत्वाञ्जनकरा प्रिया ।
अञ्जित्वैकाक्षि सन्द्रष्टुं ययौ शैलसुतावरम् ॥ ३१ ॥
काचित्तु कामिनी पादौ रञ्जयन्ती ह्यलक्तकैः ।
श्रुत्वा घोषं च तद्धित्वा दर्शनार्थमुपागता ॥ ३२ ॥
इत्यादि विविधं कार्यं हित्वा वासं स्त्रियो ययुः ।
दृष्ट्‍वा तु शाङ्‌करं रूपं मोहं प्राप्तास्तदाऽभवन् ॥ ३३ ॥
ततस्ताः प्रेमसंविग्नाः शिवदर्शनहर्षिताः ।
निधाय हृदि तन्मूर्तिं वचनं चेदमब्रुवन् ॥ ३४ ॥
पुरवासिन्य ऊचुः
नेत्राणि सफलान्यासन् हिमवत्पुरवासिनाम् ।
यो योऽपश्यददो रूपं तस्य वै सार्थकं जनुः ॥ ३५ ॥
तस्यैव सफलं जन्म तस्यैव सफलाः क्रियाः ।
येन दृष्टः शिवःसाक्षात्सर्वपापप्रणाशकः ॥ ३६ ॥
पार्वत्या साधितं सर्वं शिवार्थं यत्तपः कृतम् ।
धन्येयं कृतकृत्येयं शिवा प्राप्य शिवं पतिम् ॥ ३७ ॥
यदीदं युगलं ब्रह्मा न युञ्ज्याच्छिवयोर्मुदा ।
तदा च सकलोऽप्यस्य श्रमो निष्फलतामियात् ॥ ३८ ॥
सम्यक् कृतं तथा चात्र योजितं युग्ममुत्तमम् ।
सर्वेषां सार्थता जाता सर्वकार्यसमुद्‌भवा ॥ ३९ ॥
विना तु तपसा शम्भोर्दर्शनं दुर्लभं नृणाम् ।
दर्शनाच्छङ्‌करस्यैव सर्वे याताः कृतार्थताम् ॥ ४० ॥
लक्ष्मीर्नारायणं लेभे यथा वै स्वामिनं पुरा ।
तथासौ पार्वती देवी हरम्प्राप्य सुभूषिता ॥ ४१ ॥
ब्रह्माणं च यथा लेभे स्वामिनं वै सरस्वती ।
तथासौ पार्वती देवी हरम्प्राप्य सुभूषिता ॥ ४२ ॥
वयं धन्याः स्त्रियः सर्वाः पुरुषाः सकला वराः ।
ये ये पश्यन्ति सर्वेशं शंकरं गिरिजापतिम् ॥ ४३ ॥
ब्रह्मोवाच
इत्थमुक्त्वा तु वचनं चन्दनैश्चाक्षतैरपि ।
शिवं समर्चयामासुर्लाजान्ववृषुरादरात् ॥ ४४ ॥
तस्थुस्तत्र स्त्रियः सर्वा मेनया सह सोत्सुकाः ।
वर्णयन्त्योऽधिकम्भाग्यं मेनायाश्च गिरेरपि ॥ ४५ ॥
कथास्तथाविधाः शृण्वंस्तद्वामावर्णिताः शुभाः ।
प्रहृष्टोऽभूत्प्रभुः सर्वैर्मुने विष्ण्वादिभिस्तदा ॥ ४६ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे
शिवसुन्दरस्वरूपपुरवास्युत्सववर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP