॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

पञ्चाशत्तमोऽध्यायः

विवाहमहोत्सवे स्त्रीविनोदवर्णनम्


ब्रह्मोवाच
ततश्चाहं मुनिगणैः शेषकृत्यं शिवाज्ञया ।
अकार्षं नारद प्रीत्या शिवाशिवविवाहतः ॥ १ ॥
तयोः शिरोऽभिषेकश्च बभूवादरतस्ततः ।
ध्रुवस्य दर्शनं विप्राः कारयामासुरादरात ॥ २ ॥
हृदयालम्भनं कर्म बभूव तदनन्तरम् ।
स्वस्तिपाठश्च विप्रेन्द्र महोत्सवपुरःसरः ॥ ३ ॥
शिवाशिरसि सिन्दूरं ददौ शम्भुर्द्विजाज्ञया ।
तदानीं गिरिजाभिख्याद्‌भुतावर्ण्या बभूव ह ॥ ४ ॥
ततो विप्राज्ञया तौ द्वावेकासनसमास्थितौ ।
लेभाते परमां शोभां भक्तचित्तमुदावहाम् ॥ ५ ॥
ततः स्वस्थानमागत्य संस्रवप्राशनं मुदा ।
चक्रतुस्तौ निदेशान्मेऽद्‌भुतलीलाकरौ मुने ॥ ६ ॥
इत्थं निवृत्ते विधिवद्यज्ञे वैवाहिके शिवः ।
ब्रह्मणे पूर्णपात्रं मे ददौ लोककृते प्रभुः ॥ ७ ॥
गोदानं विधिवच्छम्भुराचार्याय ददौ ततः ।
महादानानि च प्रीत्या यानि मंगलदानि वै ॥ ८ ॥
ततः शतसुवर्णं च विप्रेभ्यः स ददौ पृथक् ।
बहुभ्यो रत्नकोटीश्च नानाद्रव्याण्यनेकशः ॥ ९ ॥
तदानीममराः सर्वे परे जीवाश्चराचराः ।
मुमुदुश्चेतसातीव बभूवाति जयध्वनिः ॥ १० ॥
मंगलध्वनिगानं च बभूव बहु सर्वतः ।
वाद्यध्वनिरभूद्‌रम्यो सर्वानन्दप्रवर्द्धनः ॥ ११ ॥
हरिर्मयाथ देवाश्च मुनयश्चापरेऽखिलाः ।
गिरिमामन्त्र्य सुप्रीत्या स्वस्थानं प्रययुर्द्रुतम् ॥ १२ ॥
तदानीं शैलनगरे स्त्रियश्च मुदिता वरम् ।
शिवाशिवौ समानीय ययुः कुहवरालयम् ॥ १३ ॥
लौकिकाचारमाजह्रुस्ताः स्त्रियस्तत्र चादृताः ।
महोत्साहो बभूवाथ सर्वतः प्रमुदावहः ॥ १४ ॥
अथ तास्तौ समानीय दम्पती जनशंकरौ ।
वासालयं महादिव्यं भवाचारं व्यधुर्मुदा ॥ १५ ॥
अथो समीपमागत्य शैलेन्द्रनगरस्त्रियः ।
निर्वृत्य मंगलं कर्म प्रापयन्दम्पती गृहम् ॥ १६ ॥
कृत्वा जयध्वनिं चक्रुर्ग्रन्थिनिर्मोचनादिकम् ।
सस्मिताःसकटाक्षाश्च पुलकाञ्चितविग्रहाः ॥ १७ ॥
वासगेहं सम्प्रविश्य मुमुहुः कामिनीवराः ।
प्रसंशन्त्यः स्वभाग्यानि पश्यन्तः परमेश्वरम् ॥ १८ ॥
महासुरूपवेषं च सर्व लावण्यसंयुतम् ।
नवीनयौवनस्थं च कामिनीचित्तमोहनम् ॥ १९ ॥
ईषद्धास्यप्रसन्नास्यं सकटाक्षं सुसुन्दरम् ।
सुसूक्ष्मवासो बिभ्राणं नानारत्न विभूषितम् ॥ २० ॥
तदानीं दिव्यनार्यश्च षोडशारं समाययुः ।
तौ दम्पती च सन्द्रष्टुं महादरपुरःसरम् ॥ २१ ॥
सरस्वती च लक्ष्मीश्च सावित्री जाह्नवी तथा ।
अदितिश्च शची चैव लोपामुद्राप्यरुन्धती ॥ २२ ॥
अहल्या तुलसी स्वाहा रोहिणी च वसुन्धरा ।
शतरूपा च सञ्ज्ञा च रतिरेताः सुरस्त्रियः ॥ २३ ॥
देवकन्या नागकन्या मुनिकन्या मनोहराः ।
तत्र या याः स्थितास्तासां सङ्ख्यां कर्तुं च कः क्षमः ॥ २४ ॥
ताभी रत्नासने दत्ते तत्रोवास शिवो मुदा ।
तमूचुः क्रमतो देव्यः सुहासं मधुरं वचः ॥ २५ ॥
सरस्वत्युवाच
प्राप्ता सती महादेवाधुना प्राणाधिका मुदा ।
दृष्ट्‍वा प्रियास्यं चन्द्राभं सन्तापं त्यज कामुक ॥ २६ ॥
कालं गमय कालेश सतीसंश्लेषपूर्वकम् ।
विश्लेषस्ते न भविता सर्वकालं समाश्रिता ॥ २७ ॥
लक्ष्मीरुवाच
लज्जां विहाय देवेश सतीं कृत्वा स्ववक्षसि ।
तिष्ठ तां प्रति का लज्जा प्राणा यान्ति यया विना ॥ २८ ॥
सावित्र्युवाच
भोजयित्वा सतीं शम्भो शीघ्रं त्वं भुङ्‌क्ष्व मा खिदः ।
तदाचम्य सकर्पूरन्ताम्बूलं देहि सादरम् ॥ २९ ॥
जाह्नव्युवाच
स्वर्णकान्तिकरां धृत्वा केशान्मार्जय योषितः ।
कामिन्याः स्वामिसौभाग्यसुखं नातः परं भवेत् ॥ ३० ॥
अदितिरुवाच
भोजनान्ते शिवः शम्भुं मुखं शुद्ध्यर्थमादरात् ।
जलं देहि महाप्रीत्या दम्पतिप्रेम दुर्लभम् ॥ ३१ ॥
शच्युवाच
कृत्वा विलापं यद्धेतोः शिवां कृत्वा च वक्षसि ।
यो बभ्रामानिशं मोहात् का लज्जा ते प्रियां प्रति ॥ ३२ ॥
लोपामुद्रोवाच
व्यवहारोऽस्ति च स्त्रीणां भुक्त्वा वासगृहे शिव ।
दत्त्वा शिवायै ताम्बूलं शयनं कर्तुमर्हसि ॥ ३३ ॥
अरुन्धत्युवाच
मया दत्तां सतीमेनां तुभ्यं दातुमनीप्सिता ।
विविधं बोधयित्वेमां सुरतिं कर्तुमर्हसि ॥ ३४ ॥
अहल्योवाच
वृद्धावस्थां परित्यज्य ह्यतीव तरुणो भव ।
येन मेनानुमन्येत त्वां सुतार्पितमानसा ॥ ३५ ॥
तुलस्युवाच
सती त्वया परित्यक्ता कामो दग्धः पुरा कृतः ।
कथं तदा वसिष्ठश्च प्रभो प्रस्थापितोऽधुना ॥ ३६ ॥
स्वाहोवाच
स्थिरो भव महादेव स्त्रीणां वचसि साम्प्रतम् ।
विवाहे व्यवहारोऽस्ति पुरन्ध्रीणां प्रगल्भता ॥ ३७ ॥
रोहिण्युवाच
कामं पूरय पार्वत्याः कामशास्त्रविशारद ।
कुरु पारं स्वयं कामी कामिनीकामसागरम् ॥ ३८ ॥
वसुन्धरोवाच
जानासि भावं भावज्ञ कामार्तानां च योषिताम् ।
न च स्वं स्वामिनं शम्भो ईश्वरं पाति सन्ततम् ॥ ३९ ॥
शतरूपोवाच
भोगं दिव्यं विना भुक्त्वा न हि तुष्येत्क्षुधातुरः ॥
येन तुष्टिर्भवेच्छम्भो तत्कर्तुमुचितं स्त्रियाः । ४० ॥
सञ्ज्ञोवाच
तूर्णं प्रस्थापय प्रीत्या पार्वत्या सह शङ्करम् ।
रत्नप्रदीपं ताम्बूलं तल्पं निर्माय निर्जने ॥ ४१ ॥
ब्रह्मोवाच
स्त्रीणां तद्वचनं श्रुत्वा ता उवाच शिवः स्वयम् ।
निर्विकारश्च भगवान्योगीन्द्राणां गुरोर्गुरुः ॥ ४२ ॥
शंकर उवाच
देव्यो न ब्रूत वचनमेवम्भूतं ममान्तिकम् ।
जगतां मातरः साध्व्यः पुत्रे चपलता कथम् ॥ ४३ ॥
ब्रह्मोवाच
शङ्करस्य वचः श्रुत्वा लज्जिताःसुरयोषितः ।
बभूवुः सम्भ्रमात्तूष्णीं चित्रपुत्तलिका यथा ॥ ४४ ॥
भुक्त्वा मिष्टान्नमाचम्य महेशो हृष्टमानसः ।
सकर्पूरं च ताम्बूलं बुभुजे भार्य या सह ॥ ४५ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीय
पार्वतीखण्डे परिहासवर्णनंनाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP